सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।। ६४ ।।

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ।। ६४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु साधनसारोपदेशोपसंहाराय प्रतिज्ञायते– सर्वं गुह्यतममिति ।। भगवति मनोनिवेशनादेः प्रागुक्तत्वात् ‘भूयः’ इत्युक्तम् । सर्वगुह्यतमं सर्वसाधनेषु अतिशयेन गोप्यम् अत एव परमं मे वचः शृणु । त्वं मे दृढम् अतीव इष्ट इति कृत्वा ततः ते हितं श्रेयस्करं वक्ष्यामि ।। ६४ ।।