अपरे नियताऽहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ।। ३० ।।
अपरे नियताऽहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ।। ३० ।।
भाष्यम्
नियताऽहारत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति । ‘यच्छेद्वाङ्मनसी प्राज्ञः’ इत्यादि श्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम् । ‘यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः’ इति ।। ३० ।।
भावप्रदीपिका
‘अपरे नियाताहाराः’ इत्युक्त...योयं यद्वैधि...सप्रमाणकं दर्शयति– नियतेति ।। ३० ।।
भावप्रकाशिका
तत्रैव तद्धोमं घटयति – नियताहारत्वेनेति ।। यथास्थिता-नामपीन्द्रियाणां नियताहारत्वे सत्यग्नौ हुताहुतिवच्छोषदर्शनात् तेष्वेव तेषां होम इति भावः । यद्वा, मनआदिषु वागादिहोम उत्तरार्धोक्त इत्याह– यच्छेदिति ।। नन्वविरोधात् श्रुतत्वाच्च, एवमेव व्याख्यानं किं न स्यात् ? इत्यत आह– अन्यदिति ।। ३० ।।
प्रमेयदीपिका
‘अपरे नियत’ इत्यत्र प्राणानां प्राणेषु कीदृशो होमः? नियताऽहारत्वस्य कथमत्रोपयोगः? इत्यत आह– नियतेति ।। प्राणशोषात् इन्द्रियवृत्तीनां वृत्तिमस्त्विन्द्रियेषु सङ्कोचात्। जुह्वति ‘इत्युच्यते’ इति शेषः । एवशब्देन ‘श्रोत्रादीनि’ (४.२६) इत्यतो भेदं दर्शयति तत्र ‘प्रत्याहारेण’ अत्र ‘नियताहारत्वेनैव’ इति । प्राणान् इत्यादिकं प्रकारान्तरेण व्याख्याति– यच्छेदिति ।। वाक् वाचम् । मनसी मनसि । यच्छेत् तन्नियतां ध्यायेत् । अवराणामिन्द्रियदेवतानामुत्तमेन्द्रियदेवतानियतत्वचिन्तनं प्रकारार्थः । वा ‘प्राणानां प्राणेषु होमः’ इति शेषः । अस्मिन् पक्षे ‘नियताहाराः’ इति पृथग् यज्ञो ज्ञातव्यः । इदमेवास्तु व्याख्यानम् । श्रौतत्वात् । किं पूर्वेण? इत्यत आह– अन्यदपीति ।। ३० ।।
भावदीपः
।। ‘श्रोत्रादीनि’ इत्यत इति ।। पूर्वोक्तश्लोकादित्यर्थः ।। भाष्यस्थवा-पदमनूद्य तदनन्तरं शेषमाह– वा प्राणानामित्यादि ।। ३० ।।
भावरत्नकोशः
।। कीदृश इति ।। तप आदेर्भगवत्यर्पणस्य होमत्वमिव इह प्राणेषु प्राणार्पणायोगात् किंप्रकारोऽसौ ? इति प्रश्नाभिप्रायः । नियताहारत्वस्येति ।। यद्यपि ‘नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । तथापि ‘द्वौ भागौ पूरयेदन्नैः तोयेनैकं प्रपूरयेत् । मारुतस्य प्रचारार्थं चतुर्थमवशेषयेद्’ इति स्मृत्यभिमतं यन्नियताहारत्वं तस्येत्यर्थः । एतादृशेन नियताहारत्वेन कथं प्राणशोष इत्यतः शोषशब्दार्थं विवक्षितमाह– प्राणशोषादिति ।। अनेन कीदृशो होम इत्येतत्समाहितम् । ‘जुह्वति’ इति भाष्यमनूद्य शेषमाह– जुह्वतीति ।। प्रत्याहारेण प्राणानां प्राणेषु होम उक्तः । नियताहारत्वेनैव होम उच्यते । इत्यादिकं ‘प्राणान् प्राणेषु जुह्वति’ इत्येतत् । वाक्शब्दाद्द्वितीयायाः प्रथमा । द्वितीयाया अलुग्वा । मनश्शब्दात्सप्तम्या दीर्घत्वं च छान्दसमित्यभिप्रेत्य व्याचष्टे – वाक् वाचमिति ।। अन्यथा ‘वाङ्मनसे’ इति निर्देशः स्यात् । ‘तद्यच्छेत्’ इत्याद्ययोगश्चेति भावः ।।
‘यम उपरमे’ इत्यतो लिङि ‘यच्छेत्’ इति रूपमिति तदनूद्य प्रकृतिप्रत्यययोरर्थमाह – तन्नियतां ध्यायेदिति ।। मनोनियतां चिन्तयेदित्यर्थः । तथा च तत्त्वप्रदीपिका ‘वाचं मनसि यच्छेदित्यर्थः’ इति । प्रकारार्थः भाष्योक्तप्रकारपदार्थः । तथा च काठकं भाष्यम् ‘तस्मा-द्वागात्मिका देवीरुमाद्यास्तु शिवादिषु’ इत्यादि । भाष्यगतं वाशब्दमनूद्य ततः शेषमाह – वेति ।। अस्मिन् पक्षे ‘मनआदिषु वागादीनां होमः’ इति पक्षे । पृथग्यज्ञः आहारनियमोऽपि भगवत्यर्पितश्चेत् तपोयज्ञ इवायमपि पृथग्यज्ञो ज्ञातव्य इत्यर्थः । श्रौतत्वात् ‘यच्छेद्वाङ्मनसी’ इति श्रुतिसिद्धत्वात् । पूर्वेण नियताहारत्वेनैवेत्यादिरूपेण । अन्यदपि पूर्वमपि, अल्पाशनं शास्त्र-नियताहार इति भाष्यार्थः ।। ३०।।
अक्षरार्थस्तु अपरे नियताहाराः सन्तः प्राणान् श्रोत्रादीन्द्रियवृत्तीः प्राणेषु वृत्तिमत्स्विन्द्रियेषु जुह्वति सङ्कोचयन्ति । आहारनियमापादितेन्द्रियशक्तिह्रासः केषाञ्चिद् यज्ञ इति भावः । यद्वा प्राणान् वागादीन्द्रियदेवताः प्राणेषु मनोऽभिमान्याद्युत्तमदेवतासु जुह्वति । अवराणाम् इन्द्रिय-देवतानाम् उत्तमेन्द्रियदेवतानियतत्वेन चिन्तनं होम इत्यर्थः । अस्मिन् पक्षे ‘नियताहाराः’ इति पृथग्यज्ञो ज्ञातव्यः । उक्तार्थे रुचिजननाय स्तवनं क्रियते । यज्ञविदो यज्ञविशेषज्ञाः यज्ञक्षपित-कल्मषाः यज्ञानुष्ठानविनाशितपापाः सर्वेऽपीति ।। ३० ।।
भावदीपिका
।। वृत्तिमत्स्विन्द्रियेषु सङ्कोचादिति ।। सर्वथेन्द्रियवृत्तीनां सङ्कोचे शरीरधारणासम्भवात् ‘वृत्तिमत्सु’ इत्युक्तम् । स्वल्पवृत्तिमत्स्वित्यर्थः । इन्द्रियैर्बहुतरा विषयवृत्तीः परित्यज्य देहधारणोपयुक्ता एवेन्द्रियवृत्तीः कुर्वन्तीत्येतदेव इन्द्रियवृत्तीनाम् इन्द्रियेषु सङ्कोच इति भाव इत्याहुः ।।
ननु ‘अपरे नियताहाराः प्राणान्’ इत्यनेनोक्तपक्षस्य ‘श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति’ इत्यनेनैवोक्तत्वात् पुनरुक्तिरित्यत आह– एवशब्देनेति ।। तं प्रकारमेव विवृणोति– तत्र प्रत्याहारेणेति ।। पूर्वं श्रोत्रादीन्द्रियाणां नियमने विषयेभ्यः प्रत्याहारः कारणमुक्तम् । अत्र नियताहारत्वं कारणमुच्यत इत्यर्थः । ‘वा’ इत्यनूद्य तदनन्तरं शेषं पूरयति– वा प्राणानामिति ।। नन्ववराणामुत्तमाधीनत्वचिन्तनमेव प्राणानां प्राणेषु होमः । अयमेको यज्ञ इत्यस्मिन् पक्षे नियताहारत्वस्योपयोगाभावाद्वैयर्थ्यम् इत्यत आह– अस्मिन् पक्ष इति ।। आहारनियमनमेवैको यज्ञ इति भावः । पूर्वेणेति ।। ‘नियताहारत्वेनैव प्राणशोषाद्’ इति पूर्वेणेत्यर्थः ।। ३०–३१ ।। ।
भावप्रकाशः
।। नियताहारत्वस्येति ।। द्वौ भागौ पूरयेदन्नैस्तोयेनैकं प्रपूरयेत् । मारुतस्य प्रचारार्थं चतुर्थमवशेषयेदित्युक्तनियताहारत्वस्येत्यर्थः । ननु मारुतवन्निराहारत्वस्य शोषकत्वानुपलम्भात् । कथं प्राणशोष इत्यत आह– इन्द्रियवृत्तीनामिति ।। प्रकारार्थः प्रकार-शब्दार्थः ।। वाशब्दात् परमध्याहार्यं दर्शयति– वा प्राणानामित्यादिना ।। ३० ।।