बुध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।। ५१ ।।

बुध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।

शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ।। ५१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- प्रतिज्ञातमुच्यते– बुद्ध्येति ।। विशुद्धया विषयसङ्गादिदोषपरिहृतया बुद्ध्या युक्तः धृत्या धैर्येण आत्मानं मनो नियम्य विषयेभ्यो विनिवर्त्य च शब्दादीन् इन्द्रियविषयान् त्यक्त्वा तदनुभवेच्छां विहाय तदनुषङ्गिणौ रागद्वेषौ व्युदस्य च ।। ५१ ।।