आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ।। २० ।।

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्  ।। २० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ते च आसुरीं योनिमापन्नाः प्राप्तवन्तः जन्मनिजन्मनि सर्वेष्वपि जन्मसु मूढाः मिथ्याध्यवसायवन्तः सन्तः मामप्राप्य अनासाद्य एव अधमा नित्यनिरयलक्षणां गतिं यान्ति ।। २० ।।