मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ।। ८ ।।

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः  ।। ८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– एवं मदुपासनस्योत्तमत्वात् तदेव कुरु, तदलाभे मां जानीहि तदभावे चाभ्यासयोगेन मां जानीहि, तदभावे च मत्कर्मपरमो भव, तदशक्तौ च मद्योगमाश्रितः फलत्यागं कुर्वित्युच्यते– मय्येव मन आधत्स्वेत्यादि चतुः-श्लोक्या ।। मय्येव नत्वन्यत्र मन आधत्स्व स्थापय । मदुपासनमेव कुरु, नान्योपासनम् । तदलाभे मयि बुद्धिं निवेशय मत्तत्त्वनिश्चयम् आपादय । अत ऊर्ध्वं तत्त्वनिश्चयानन्तरभा-विध्यानजनितापरोक्षज्ञानोत्पत्त्यनन्तरं मयि निवसिष्यसि निवत्स्यसि निश्चयेन मयि वासं करिष्यसि निर्दुःखानन्दानुभवात्मिकां स्थितिं प्राप्स्यसीति यावत् ।। ८ ।।