क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।। ३५ ।।
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ।। ३५ ।।
।। ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे त्रयोदशोऽध्यायः ।। १३ ।।
भाष्यम्
भूतेभ्यः प्रकृतेश्च मोक्षसाधनम् अमानित्वादिकम् ।। ३५ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये त्रयोदशोऽध्यायः ।। १३ ।।
भावप्रदीपिका
भूतप्रकृतिमोक्षपदार्थमाह– भूतेभ्य इति ।। ३५ ।।
।। इति श्रीपद्मनाभतीर्थभट्टारकविरचितश्रीभगवद्गीताभाष्यभावप्रदीपिकायां त्रयोदशोऽध्यायः ।।
प्रमेयदीपिका
‘भूतप्रकृतिमोक्षम्’ इत्यस्य ‘भूतानां प्रकृतिरविद्या तस्याः मोक्षमवसानलक्षणम्’ इति व्याख्यानमसत् । भूतशब्दवैयर्थ्यात् । अविद्याध्वंस-स्यानुक्तत्वेन ‘एवम्’ इति परामर्शायोगाच्चेति भावेनाऽह– भूतेभ्य इति ।। अनेन ‘भूतप्रकृति’ इति द्वन्द्वः । ततः पञ्चमी इति योगविभागात् पञ्चमीतत्पुरुष इत्युक्तं भवति । भूतेभ्यः पृथिव्यादिभ्यः ।।
ननु मोक्षो न प्रागुक्त इत्यत उक्तम्– मोक्षसाधनमिति ।। करणे घञ् इत्यर्थः । मोक्षसाधनमपि नोक्तमित्यत आह– अमानित्वादिकमिति ।। ज्ञानसाधनमपि परम्परया मोक्षसाधनमिति भावः । मोक्षशब्दस्य नित्यसापेक्षत्वान्नासमर्थत्वम् । यद्वा ‘भूतेभ्यः प्रकृतेश्च’ इति समासद्वयसूचनार्थं पृथगेव वाक्यम् । ततो मोक्षपदव्याख्यानं पृथगेवेति ।। ३५ ।।
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां त्रयोदशोऽध्यायः समाप्तः ।। १३ ।।
भावबोधः
ननु भूतानां प्रकृतेश्च मोक्षं प्रत्यपादानत्वाभावात् कथं पञ्चमीत्यत आह पञ्चमीति योगविभागादिति ।। करणे घञिति ।। मुच्लृ मोक्षणे इति धातोरित्यर्थः । ननु मोक्षशब्दस्य भूतेभ्यः प्रकृतेरित्येतत्सापेक्षत्वेनासमर्थत्वात् कथं साधनशब्देन समास इत्यत आह – मोक्षशब्दस्येति ।। समासद्वयेति ।। भूतानि च प्रकृतिश्चेति द्वन्द्वः । भूतप्रकृतिभ्यो मोक्ष इति पञ्चमीतत्पुरुष इति समासद्वये इत्यर्थः ।। ३५ ।।
।। इति श्रीगीताभाष्यटीकाभावबोधे श्रीरघूत्तमयतिकृते त्रयोदशोध्यायः समाप्तः ।।
भावदीपः
ननु ‘पञ्चमी भयेन’ इति सूत्रे ‘पञ्चम्यन्तं भयपदेन समस्यते । ‘चोराद्भयं चोरभयम्’ इत्युक्तेरिह कथं समासः? इत्यत आह –इति योगविभागादिति ।। करणे घञ् इति ।। ‘मुच्लृ मोक्षणे’ इति धातोरिति भावः । ननु तज्ज्ञानसाधनत्वेनोक्तमित्यत आह– ज्ञानसाधनमपीति ।।
ननु मोक्षपदस्य ‘कस्मात्’ इत्याकाङ्क्षायां ‘भूतेभ्यः प्रकृतेश्च’ इत्युक्तपञ्चम्यन्तसापेक्षत्वेन ‘सापेक्षमसमर्थम्’ इत्युक्तेर्कथं साधनपदेन समासोक्तिर्भाष्य इत्यत आह– नित्येति ।। देवदत्तस्य गुरुकुलमित्यत्र यथेति भावः ।। भाष्यं न समासाभिप्रायम्, किन्तु पञ्चम्यन्तद्वयं ‘भूतप्रकृति’ इत्यत्र द्वन्द्वसमासेन मोक्षपदं प्रत्येकमन्वेतीति प्रदर्शनमात्रपरम् । मोक्षसाधनपदं मोक्षपदार्थोक्तिपरम् । अतो भिन्नवाक्यत्वान्न दोष इत्याह– यद्वेति ।। समासद्वयेति ।। द्वन्द्वः पूर्वं पश्चात् पञ्चमीतत्पुरुष इति सूचनार्थमित्यर्थः ।।
।। इति श्रीमत्सुुधीन्द्रतीर्थपूज्यपादशिष्यश्रीराघवेन्द्रयतिविरचिते
श्रीमद्गीताभाष्यटीकाभावदीपे त्रयोदशोऽध्यायः ।।
वाक्यार्थप्रदीपः
।। भूतप्रकृतीति द्वन्द्व इति । भूतानि च प्रकृतिश्चेति द्वन्द्व इत्यर्थः ।। ननु मोक्षशब्दस्य भयादित्वाभावेन च पञ्चमी भयेन इत्यनेन पञ्चमीतत्पुरुषस्यायोगात् कथं भूतप्रकृतिमोक्ष इति पञ्चमीसमास इत्यत आह– पञ्चमीति योगविभागादिति ।। तथाच मञ्चमी भयेन इत्यत्र पञ्चमी इति सूत्रविभागात् पञ्चम्यन्तस्य समर्थेन मोक्षशब्दे न समासोपपत्तिरिति भावः ।। करणे घञिति ।। मुच्लृ मोक्षण इत्यस्मा-द्धातोरित्यर्थः ।। ननु मोक्षशब्दस्य कथं साधनशब्देन समासः । तस्य भूतेभ्यः प्रकृतेरित्येत्सापेक्षत्वेनासमर्थत्वात् समर्थः पदविधिरिति सामर्थ्य एव समासविधानादित्यत आह– मोक्षशब्दस्येति ।। समासद्वयेति ।। भूतानि च प्रकृतिश्चेति द्वन्द्वः । भूतप्रकृतिभ्यो मोक्ष इति पञ्चमीतत्पुरुष इत्यर्थः ।।
।। इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीविद्याधीशतीर्थतत्पूज्यचरणानां निजशिष्यकेशवेन विरचिते व्याकरणस्पृष्टप्रमेयदीपिकावाक्यार्थप्रदीपे त्रयोदशोध्यायः ।।
भावरत्नकोशः
।। वैयर्थ्यादिति ।। अविद्यया भूतान्यानाश्रिततया तदुक्त्यैव तदनुबन्धितया भूतानां लाभेन वैयर्थ्यादित्यर्थः । द्वन्द्वः ‘भूतानि प्रकृतिश्च इति द्वन्द्वः । ननु भूतानां प्रकृतेश्च विश्लेषावधित्वेन अपादानेन अपादानत्वे ‘पञ्चमी’ इति पञ्चमीसत्वेऽपि, न तत्समासः सम्भवति । विधायकाभावात् । ‘पञ्चमी भयेन’ इत्यादेश्च नियतविषयत्वाद् इत्यत आह– पञ्चमीति योगविभागादिति ।। ‘पञ्चमी भयेन’ इत्यत्र ‘पञ्चमी’ इति योगविभागा-दित्यर्थः । भूतशब्देन सदेहजीवग्रहणे तेभ्यो मोक्षमित्यसङ्गतम् इत्यतो भूतशब्दार्थमाह– पृथिव्यादि इति ।। मोक्षशब्देन मोक्षसाधनं कथं लभ्यते इत्यत आह– करण इति ।। ‘मोक्ष आसने’ इति चौरादिकाद् धातोः’ इति शेषः । घञि च णिलोपश्च ज्ञेयः ।
ननु ‘अमानित्वादिकमेतज्ज्ञानमिति प्रोक्तम्’ इति ज्ञानसाधनमित्युक्तम् न मोक्षसाधनमिति । तत्राह– ज्ञानसाधनमपीति ।। ननु समासे एकार्थीभावरूपं सामर्थ्यमपेक्षितम् । ‘समर्थः पदविधिः’ इत्युक्तत्वात् । मोक्षशब्दस्य चेतरसापेक्षत्वात् न सामर्थ्यम् । अतः कथं ‘मोक्षसाधनम्’ इति भाष्ये समास इत्यत आह– मोक्षशब्दस्येति ।। तथा च ‘देवदत्तस्य गुरुकुलम्’ इत्यादाविव समास उपपन्न इति भावः । समासद्वयेति ।। भूतानि प्रकृतिश्च इति द्वन्द्वः, ततः पञ्चमीतत्पुरुष इति समासद्वयसूचनार्थमित्यर्थः । पृथगेवेति ।। ततः ‘भूतेभ्यः प्रकृतेश्च इति वाक्यात् । मोक्षपदव्याख्यानं ‘मोक्षसाधनममानित्वादिकम्’ इति वाक्यं पृथगेवेत्यर्थः । तथा च नासामर्थ्यशङ्केति हृदयम् । इतिशब्दोऽध्यायभाष्यव्याख्यासमाप्तौ । इममेवार्थं दर्शयति– इति श्रीमदानन्दतीर्थेति ।। ३८ ।।
गीताक्षरार्थस्तु– अध्यायार्थम् उपसंहरति– क्षेत्रक्षेत्रज्ञयोरिति ।। क्षेत्रक्षेत्रज्ञयोः जगत्पर-मात्मनोः एवं प्रेर्यत्वप्रेरकत्वसगुणत्वनिर्गुणत्वाद्युक्तप्रकारेण अन्तरं भेदं ज्ञानचक्षुषा शास्त्र-प्राप्तदिव्यदृष्ट्या ये विदुः भूतप्रकृतिमोक्षं भूतानि पृथिव्यादीनि च प्रकृतिश्चेति द्वन्द्वः, ततः ‘पञ्चमी’ इति योगविभागात् पञ्चमीतत्पुरुषः । ‘मोक्ष्यते अनेन इति करणे घञि मोक्षः अमानित्वादिरूपं मोक्षसाधनजातम् । यद्यपि अमानित्वादिकं ज्ञानसाधनमेवोक्तम् । तथापि परम्परया मोक्षसाधनत्वाशयेन मोक्षम् इत्युक्तम् । तच्च ये विदुस्ते परं पूर्णं ब्रह्म यान्ति इति ।।
।। इति श्रमिदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भगवद्गीताभाष्यटीकाटिप्पण्यां भावरत्नकोशसमाख्यायां सूरीन्द्रश्रीपादशिष्यसुमतीन्द्रतीर्थविरचितायां त्रयोदशोऽध्यायः समाप्तः ।।
भावदीपिका
ननु ‘भूतानां या प्रकृतिः’ इति भूतशब्दस्य प्रकृतिशब्देन-नान्वये खलु वैयर्थ्यम् । नचैवम् । किं नाम, अविद्याध्वंसार्थकप्रकृतिमोक्षपदेनैव । एवं च ‘भूतानामविद्याध्वंसलक्षणं मोक्षं ये विदुः’ इत्यर्थसम्भवात् इत्यत आह–अविद्येति ।। द्वन्द्व इति ।। भूतानि . प्रकृतिश्च भूतप्रकृतयः’ इति द्वन्द्व इत्यर्थः ।। ननु ‘पञ्चमी भयेन’ इति भयशब्दयोग एव पञ्चम्याः समासविधानात् अत्र च तद्योगाभावात् कथं‘ भूतप्रकृतिभ्यो मोक्षः भूतप्रकृतिमोक्षः, तम्’ इति पञ्चमीसमासः इत्यत आह– पञ्चमी इति ।। योगः वाक्यम् । पञ्चमी येन केनापि समस्यते’ भयेन च समस्यते’ इति योगविभागो द्रष्टव्यः ।।
।। प्रागुक्त इति ।। तथा च ‘एवम्’ इति परामर्शो न युक्त इति भावः । मोक्षशब्देन मोक्षसाधनलाभः कथम् इत्यत आह– करण इति ।। ‘मुच मोक्षणे’ इत्यस्माद्धातोः मुच्यतेऽनेन’ इति करणे घञि अकारमात्रं विहाय सर्वस्यापि लोपे सति व्युत्पन्नेन मोक्षशब्देन तत्साधनलाभो युक्त इति भावः । ननु ‘एतज्ज्ञानमिति प्रोक्तम्’ इत्यमानित्वादीनां ज्ञान-साधनत्वेनोक्तत्वात् कथं मोक्षसाधनत्ववचनम्? इत्यत आह– ज्ञानसाधनमपीति ।। परम्परया ज्ञानद्वारेत्यर्थः । ननु भाष्ये मोक्षपदस्य भूतप्रकृतिपदसापेक्षत्वेन असमर्थत्वात् कथं साधनपदेन समासः । ‘सापेक्षम् असमर्थवद् भवति’ इति वचनात् इत्यत आह– नित्येति ।। ‘देवदत्तस्य गुरुकुलम्’ इत्यादाविवोत्तरपदेन समासेनापि पूर्वपदेनापेक्षा न विहन्यत इत्यर्थः । वचनं च नित्यसापेक्षविषयमिति भावः । एकवाक्यतापक्षेऽत एवास्वरसात् पृथग्वाक्यतामङ्गीकृत्याह– समासद्वयेति ।। ‘भूतानि च प्रकृतिश्च इति द्वन्द्वः, ‘भूतप्रकृतिभ्यो मोक्षः’ इति पञ्चमीतत्पुरुष इति समासद्वयेत्यर्थः । तत इति ।। एवं पूर्ववाक्येन विग्रहसूचनानन्तरं मोक्षपदव्याख्यानरूपं मोक्षसाधनम् अमानित्वादिकमिति पृथगेव वाक्यमित्यर्थः ।। ३५ ।।
यदुपतिवरगीताभाष्यटीकासुयुक्ता
शयमतिललिताभिर्गीर्भिरावेदयित्री ।
सुललितविवृतिर्या वृष्णिराट्छात्रचीर्णा
दशम अगमदस्यां त्र्युत्तरोध्याय अन्तम् ।।
।। इति श्रीमद्यदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचितायां श्रीमद्भगवद्गीताभाष्यटीकाविवृतौ भावप्रदीपिकाख्यायां त्रयोदशोऽध्यायः ।।
भावप्रकाशः
ननु भूतप्रकृतिभ्यो मोक्ष इति कथं पञ्चमीसमासः । भूत-प्रकृतीनां विश्लेषावधित्वेनापादानत्वात् पञ्चम्युपपत्तावपि तत्समासविधायकाभावात् । ‘पञ्चमी भयेन’ इत्यादीनां नियतविषयत्वादित्यत उक्तम्– पञ्चमीति योगविभागादिति ।। ‘पञ्चमी भयेन’ इति सूत्रे पञ्चमीति योगविभागादित्यर्थः । भूतशब्देन सदेहजीवग्रहणे तेभ्यो मोक्ष इत्यसङ्गतमित्यत आह– पृथिव्यादिभ्य इति ।। करणे घञिति ।। ‘मोक्ष आसने’ इति चौरादिकाद् धातोः’ इति शेषः । घञि सति णिलोप इति बोध्यम् । ननु समासे एकार्थी-भावरूपं सामर्थ्यं प्रयोजकम् । मोक्षशब्दस्य चेतरसापेक्षत्वान्न सामर्थ्यम् । सामर्थ्ये इतरान्वया-योगात् । नहि विशेषणस्यैकदेशान्वयः । तत्कथं मोक्षसाधनमिति समास इत्यत आह– मोक्षशब्दस्येति ।। चैत्रस्य नप्तेत्यादौ नित्यसापेक्षस्थले एकदेशान्वयस्यापि दृष्टेरिति भावः । समासद्वयेति ।। भूतप्रकृतीति द्वन्द्वः । ततः पञ्चमीतत्पुरुष इति समासद्वयेत्यर्थः ।। ३५ ।।
।। इति श्रीमत्तिर्मलाचार्यसुतकृष्णविरचिते प्रमेयदीपिकाभावप्रकाशे त्रयोदशोऽध्यायः ।।