कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।। ७ ।।

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।। ७ ।।

भावरत्नकोशः

अक्षरार्थस्तु– तस्मात् कार्पण्यम् एतान् हत्वा कथं जीविष्याम इति दैन्यं, तच्च दोषश्च कुलक्षयकृतः ताभ्यामुपहतः अभिभूतः स्वभावः शौर्यलक्षणः यस्य सः, धर्मे सन्दिग्धमना अहं त्वां पृच्छामि । मे यन्निश्चितं श्रेयः तद् ब्रूहि । अहं ते शिष्यः शासनार्हः, अतस्त्वां प्रपन्नं शरणं गतं मां शाधि शिक्षय ।। ७ ।।