दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ।। ४ ।।

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्  ।। ४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु मुमुक्षुणा त्यक्तव्यान्यासुरलक्षणान्युच्यन्ते– दम्भो दर्पोऽभिमानश्चेत्यादिना ।। आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः । दर्पः धनाभिजात्यादिमदात् समुपनतस्यापि भयकारणस्याप्रदर्शनम् । अभिमानक्रोधौ व्याख्यातप्रायौ । पारुष्यं परुषत्वं निष्ठुरभाषणम् । अज्ञानं कर्तव्याकर्तव्यविवेकाभावः । एवशब्दो जातस्यैवेति सम्बध्यते । एते च धर्माः आसुरीम् असुरसम्बन्धिनीं सम्पदं योग्यताम् अभिजातस्य प्रतिजात-स्येव पुंसो भवन्ति । अमुमुक्षुवर्गजातस्यैव आसुरी सम्पल्लक्षणमिति दम्भादयो मुमुक्षुणा त्यक्तव्या इति भावः ।। ४ ।।