इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ।। २० ।।
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ।। २० ।।
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुराणपुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ।। १५ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु एतच्च यस्मै कस्मैचित् न वाच्यमिति भावे-नोच्यते– इति गुह्यतममिति ।। शास्त्रमिति ।। शास्त्रार्थः ‘स सर्ववित्’ इत्याद्युक्तम् । ततः किम् इत्यत उच्यते– एतद्बुध्वेति ।। बुद्धिमान् अपरोक्षज्ञानी । कृतकृत्यः मुक्त इति मायावादखण्डनटीकोक्तः ।
आर्यस्वान्ताम्भोजहंसायमानौ संसाराम्भोराशिनावौ समानौ ।
भूयास्तां तौ भूतये भूरिमानौ वेदव्यासानन्दतीर्थाभिधानौ ।।
भूरिमनीषागमचितकरणान् श्रीजयतीर्थव्रतिकृतिशरणान् ।
सन्ततमीडे सुचरितवरणान् वेङ्कटनारायणगुरुचरणान् ।।
नमस्ते नमस्ते दयालो नमस्ते नमस्ते नमस्ते नमः श्रीनृसिंह ।
नमस्ते नमस्ते नमस्ते मुरारे नमस्ते नमस्ते नमो व्यास राम ।।
।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमत्सूरीन्द्रतीर्थपूज्यपादशिष्यसुमतीन्द्रतीर्थविरचितायां प्रमेयदीपिकाव्याख्यायां भावरत्नकोशसमाख्यायां पञ्चदशोऽध्यायः ।।