ओशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत् तामसमुदाहृतम् ।। २२ ।।

ओशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं तत् तामसमुदाहृतम् ।। २२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ओशेति ।। ओशकाले द्वन्द्वैकवद्भावात्, म्लेच्छाशुच्यादिसङ्कीर्णदेशे अकाले पुण्यहेतुत्वेन अप्राख्याते निषिद्धदेशे निषिद्धकाले वा अपात्रेभ्यः मूर्खनटविटादिभ्यः, चशब्दः तुशब्दार्थस्सन् सात्त्विकराजसवैलक्षण्यद्योतकः । दीयते क्रियते असत्कृतं देशकालपात्रसम्पत्तौ वा प्रियवन्दनपादप्रक्षालनादिसत्काररहितम् अवज्ञातं पात्रपरिभवयुक्तं तद् एवंभूतं दानं तामसं तामसजीवस्वरूपज्ञापकम् उदाहृतमार्यैः ।। २२ ।।