तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ।। ६ ।।

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ।। ६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– त्रयाणां गुणानां बन्धकत्वं विविच्य प्रदर्श्यते– तत्रेति श्लोकत्रयेण ।। हे अनघ श्रोतृदोषविधुर इत्यर्जुनसम्बद्धिः । तत्र गुणानां मध्ये सत्त्वं गुणः निर्मलत्वात् स्वच्छत्वाद् अनामयं न विद्यते आमयः ज्वराद्युपद्रवो यस्मात् ततश्च प्रकाशकं ज्ञानोत्पादकम् । तत्र सूक्ष्मं सत्त्वं परमेश्वरविषयज्ञानकारणम् । स्थूलं तु लौकिकप्रकाशकारणमिति ज्ञातव्यम् । स्वकार्यभूतेन सुखस्य यः सङ्गः सम्बन्धः तेन, ज्ञानसङ्गेन च । अनेन ‘प्रकाशकम् इत्यत्र प्रकाशशब्देन ज्ञानं ग्राह्यमिति भावितम् । बध्नाति । अत्र सत्त्वगुणाभिमानिनी श्रीदेवी देवानां ज्ञानस्य सुखस्य कारणं भवतीति विशेष उत्तरप्रस्थानोक्तः

।। ६ ।।