भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।। ३५ ।।

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्।। ३५ ।।

भावरत्नकोशः

दयालुत्वादुपरतोऽयं युद्धादिति कार्तिमेव किं न वदेयुरित्यत उच्यते– भयादिति ।। भयात् कर्णदुर्योधनादिभ्यः रणाद् युद्धादुपरतं निवृत्तं मंस्यन्ति चिन्तयिष्यन्ति । महारथाः कर्णदुर्योधन-प्रभृतयः । के मंस्यन्ते? येषां च त्वं दुर्योधनादीनां बहुमतः बहुभिः शौर्यवीर्यादिगुणैः मतः ‘मतिबुद्धिपूजार्थेभ्यश्च’ इति षष्ठी । बहुमतः सम्भावितो वा भूत्वा पुनर्यास्यसि लाघवं लघुभावम् । शूराणां हि वैरिणां शत्रुभयाद् ऋते बन्धुस्नेहादयो वा युद्धादुपरतौ न निमित्तमिति तत उपरतस्य लाघवमेव वदेयुरिति ।। ३५ ।।