ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते । अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ।। १३ ।।
ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ।। १३ ।।
भाष्यम्
‘परं ब्रह्म’ इति ‘स च यः’ (१३.४) इति प्रतिज्ञातमुच्यते । अन्यत् ‘यत्प्रभावः’ (१३.४) इति । आदिमद्देहादिवर्जितम् अनादिमत् ।।
भावप्रदीपिका
‘अनादिमत्’ इत्यनेन कथंलक्षणप्रभावावुक्तौ ? इत्यत आह– परमिति । परिपूर्णत्वमेव लक्षणमित्यर्थः । अनादिमत् इत्येतदादिराहित्य-मात्रार्थत्वप्रतीतिनिरासाय व्याचष्टे– आदिमदिति ।
प्रमेयदीपिका
प्रतिज्ञातार्थद्वयप्रतिपादनाय ‘ज्ञेयं यत्तत्’ इत्यादिकं वाक्य-मिति सूचितम् । तत्र केन तु किमुच्यत इत्यत आह– परमिति ।। इति नामोक्त्या । अन्यत् अनादिमदित्यादिकं ‘यत्प्रभावः’ इति प्रतिज्ञातस्य प्रतिपादकमित्यर्थः ।।
‘आदिरस्यास्तीत्यादिमत् । न आदिमत् अनादिमदिति व्याख्याने न विद्यते आदिः अस्येत्यनादीति बहुव्रीहित्वाश्रयणेनैव विवक्षितार्थसिद्धेः मतुपो वैयर्थ्यमिति दोषं पश्यन्तः केचित्‘अनादि’ इति ‘मत्परम्’ इति च पदं विच्छिद्य ‘अहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परम््’ इति व्याचक्षते । तदसत् । अर्थासम्भवात् । न हि ‘ब्रह्म’ इति ‘वासुदेवः’ इति कश्चिद्भेदः । ‘न चावतारेषु पारावर्यम्’ इत्युक्तमिति भावेन यथा मतुपो न वैयर्थ्यं तथा व्याचष्टे– आदिमदिति ।। आदिः एषामस्तीत्यादिमन्ति । न विद्यन्ते आदिमन्ति यस्य तदनादिमत् । सामर्थ्यात् तानि च देहेन्द्रियगुणक्रियादी-नीत्यर्थः । अथवा पूर्वोक्त एव विग्रहः । नच मतुपो वैयर्थ्यम् । वैदिकं लिङ्गव्यत्ययं विभक्तिलोपं वा मन्यमानस्य बहुव्रीहिर्वा नञ्समासो वाऽयमिति संशयः स्यात् । तथा च ब्रह्म स्वयं कारणं न भवतीति शङ्क्येत । तन्निवृत्त्यर्थं मतुबन्तेनाऽदिशब्देन नञ्समासस्याऽश्रयणात् ।।
भावबोधः
।। प्रतिज्ञातार्थद्वयेति ।। ‘स च यो यत्प्रभावश्च’ इति प्रतिज्ञा-द्वयरूपसमग्रवाक्योदाहरणेनेत्यर्थः । प्रतीकग्रहणमात्ररूपत्वे तु ‘स च यः’ इत्येवोदाह्रियेतेति भावः । न कश्चिद्भेद इति ।। परं तु ब्रह्म न हि भगवतोऽन्यदित्यादिना भेदाभावस्य समर्थि-तत्वादित्यर्थः । किञ्च अहं वासुदेवाख्या परा शक्तिरित्युक्तेऽर्थाद् रामाद्यवताराणाम् अवरत्वमुक्तं स्यात् । तच्चायुक्तमित्याह– नचावतारेष्विति ।। ‘परिपूर्णानि रूपाणि समान्यखिलरूपतः’ इत्यादिप्रमाणोदाहरणेनेत्यर्थः । ‘अनादि’ इत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थम् ‘अनादिमदित्याह’ इति तात्पर्यं मनसि निधाय पक्षान्तरमाह अथवेति ।। ननु नञ्समासत्वे आदिशब्दस्य नित्यपुंलिङ्गत्वेन ‘अनादिः’ इत्येव स्यात् । नतु ‘अनादी’ इति कथं नञ्समासो वेत्याशङ्कावकाश इत्यत आह– वैदिकमिति ।।
भावदीपः
।। सूचितमिति ।। ‘वक्तुम्’ इत्यन्तभाष्येणेति भावः ।। न कश्चिद्भेद इति ।। पूर्वाध्याये ‘परन्तु ब्रह्म न हि भगवतोऽन्यत्’ इत्यादिना तथोक्तेरिति भावः ।। ‘अवतारेषु पारावर्यं नास्ति’ इति चोक्तं द्वितीयाध्यायान्त्यभागे । अतोऽपि न कश्चिद्भेद इत्यर्थः ।। पूर्वोक्त एवेति ।। ‘आदिरस्यास्ति’ इत्यादिनोक्त इत्यर्थः ।। ननु नञ्समासपक्षे ‘अनादिः’ इति निर्देशेन भाव्यम्, आदिपदस्य नित्यपुल्लिङ्गत्वात् । तत्कथम् ‘अनादि’ इत्युक्त्या नञ्समाससंशयः इत्यत आह– वैदिकं लिङ्गव्यत्ययमित्यादि ।।
वाक्यार्थप्रदीपः
।। पूर्वोक्त एवेति ।। आदिरस्यास्तीति आदिमत् । न आदिमत् अनादिमत् इत्येवं पूर्वोक्त एवेत्यर्थः ।। नचेति । न विद्यते आदिर्यस्येत्यनादि इति बहुव्रीहित्वाश्रयणेनैव विवक्षितत्वसिद्धेरित्यर्थः ।। ननु नञ्समासत्वे आदिशब्दस्य नित्यपुंलिग-त्वेन अनादिरित्येव स्यात्, नत्वनादीति । कथं नञ्समासो नेत्याशङ्कावकाश इत्यत उक्तं– वैदिकमिति ।। छान्दसमित्यर्थः ।।
भावरत्नकोशः
।। सूचितमिति ।। ‘स च यो यत्प्रभावश्चेति वक्तुं तज्ज्ञानसाधनान्याह इति भाष्येण’ इति शेषः । ‘परं ब्रह्य’ इत्यस्य स्वरूपप्रश्नोत्तरत्व-स्फोरणार्थम् इति शब्दमनूद्याध्याहरति– इति नामोक्त्येति ।। ‘सर्वात्मके ब्रह्मणि वासुदेवे, ‘अक्षरं ब्रह्म परमम्’ इत्यादौ वासुदेवासाधारणाभिधानब्रह्मश्रुत्या वासुदेवत्वेन प्रवर्तकस्वरूपमव-गम्यत इत्यर्थः । ‘प्रतिज्ञातादन्यत् इति प्रतीतिनिरासाय ‘उच्यते’ इत्यनुवृत्तौ अनन्वितमुत्तर-भाष्यं साध्याहारं योजयति– अन्यदनादिमद् इत्यादिकमित्यादिना ।।
‘आदिरस्यास्तीति आदिमत्, न आदिमत् अनादिमत् इति शङ्करभाष्याक्षरानुवादः । अत्र केचित् ‘अनादि मत्परम् इति पदं छिन्दन्ति । बहुव्रीहिणोक्तेऽर्थे मतुप आनर्थक्यमनिष्टं स्यादित्यर्थविशेषं च दर्शयन्ति ‘अहं वासुदेवाख्या परा शक्तिर्यस्य तत् मत्परम्’ इति । अन्य-मतोपन्यासरूपं शङ्करभाष्यम् अर्थतोऽनुवदति– न विद्यत आदिरित्यादि ।। अर्थासम्भवात् अहं वासुदेवाख्या परा शक्तिर्यस्य इति विग्रहवाक्यस्य असम्भवदर्थकत्वादित्यर्थः । तदुपपादयति– नहीति ।। कश्चिद्भेद इति ।। ‘परं तु ब्रह्म न हि भगवतोऽन्यत्, सर्वात्मके ब्रह्मणि वासुदेवे इति द्वादशेऽध्याये वासुदेवब्रह्मणोरभेदस्य समर्थितत्वेन ‘अहं वासुदेवाख्या परा शक्तिर्यस्य इत्यनेन प्रतीतस्य भेदस्य दूषितत्वादिति भावः ।
किञ्च ‘वासुदेवाख्या परा शक्तिः’ इति पक्षे वासुदेवावतारस्य परत्वप्राप्त्या अर्थात् इतरावतारेष्ववरत्वमङ्गीकृतं स्यात्, तदयुक्तम् । ‘परिपूर्णानि रूपाणि समान्याखिलरूपतः’ इत्यादिप्रमाणोदाहरणेन द्वितीयाध्यायान्ते पारावर्यपक्षस्य दूषितत्वात् । अतोऽपि न परव्याख्यानं युक्तमित्याह– न चेति ।।
‘अनादि इत्युक्ते स्वयं कारणं न भवतीत्याशङ्का स्यादिति तन्निवृत्त्यर्थमनादिमदित्याह’ इत्युत्तरप्रस्थाने मतुपो भाष्यरीत्या मुख्यार्थत्वमङ्गीकृत्यैव प्रयोजनान्तरमन्वाचितम् । तदनु-रुन्धानः पक्षान्तरमाह– अथवेति ।। उक्त एव ‘आदिरस्यास्तीति आदिमत्, न आदिमद् अनादिमत् इत्युक्त एव । ननु नञ्समासो वाऽयम् इति संशयो न सम्भवति । आदिशब्दस्य ‘पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः’ इत्यभिधानेन नित्यपुंस्त्वावगमेन, ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति तत्पुरुषसमासे परवल्लिङ्गत्वानुशासनेन च ‘अनादिः’ इति पुंलिङ्गशब्दश्रवणस्यैव विशेषदर्शनरूपवत्वाद्, इत्यत आह– वैदिकं लिङ्गव्यत्ययमिति ।। यद्वा ‘सुपां सुलुक्’ इति स्मरणाद् ‘अनादिः’ इति प्रथमविभक्तेर्लुका लोपे ‘अनादि’ इत्युपपद्यत इति भावेनोक्तम्– विभक्तिलोपं चैति ।। वेदतुल्यत्वाद्वैदिकम् इत्युक्तिः ।
भावदीपिका
।। सूचितमिति ।। ‘स च यो यत्प्रभावश्च’ इति वक्तु-मित्यनेनेत्यर्थः । इति व्याख्याने मतुपो वैयर्थ्यम् इत्यादिसम्बन्धः । तत्र हेतुः– न विद्यत इत्यादि ।। ‘न बहुव्रीहिनिर्वाह्ये भवन्ति मतुबादयः’ इति वचनादिति भावः । बहुव्रीहित्वेति ।। ‘न विद्यते आदिरस्येत्यनादि’ इति बहुव्रीहित्वाश्रयणेनैवेत्यर्थः । विवक्षितार्थः उत्पत्तिराहित्यम् । कश्चिद्भेद इति ।। ‘परं तु ब्रह्म न हि भगवतोऽन्यत् ’ इत्यादिना पूर्वं भेदाभावस्य समर्थितत्वादिति भावः । किञ्च ‘अहं वासुदेवाख्या परा शक्तिः’ इत्युक्ते कृष्णेतररामाद्यवताराणाम् अवरत्वमुक्तं स्यात् । न च तद्युक्तमित्याह– न चेति ।। इत्युक्तमिति ।। ‘परिपूर्णानि रूपाणि समान्यखिलरूपतः’ इति द्वितीयान्ते प्रमाणोदाहरणेनैत्यर्थः । तानि चेति ।। आदिमन्तीत्यर्थः ।
‘ब्रह्मणः कारणराहित्यप्रतिपादनमनेन क्रियते’ इति भाष्योक्तमुपलक्षणपरमित्याह– अथवेति ।। पूर्वोक्त एवेति ।। एवं बहुव्रीहिमनङ्गीकृत्य ‘आदिरस्यास्तीत्यादिमत्, न आदिमत् अनादिमत् इति पूर्वोक्त एव नञ्समास इत्यर्थः । वैयर्थ्यमिति ।। ‘अनादि इति बहुव्रीहिणैव विवक्षितार्थसिद्धेरित्यर्थः । ननु नायं संशयः । ‘अनादि’ इत्येतत् ‘परं ब्रह्म’ इत्यस्य विशेषणमिति तावदविवादम् । तथा च बहुव्रीहिरित्येव युक्तम् । आदिशब्दस्य नित्यपंुलिङ्गस्यापि बहुव्रीह्यनन्तरं विशेष्यनिघ्नतासम्भवेन नपुंसकत्वोपपत्त्या परं ब्रह्मविशेषणत्वोपपत्तेः । नञ्समासत्वशङ्का त्वनुपपन्नैव । नित्यपुंलिङ्गानादिशब्दस्य परं ब्रह्मविशेषणत्वेऽपि ‘अनादिः’ इत्येव स्यात्, न तु ‘अनादि’ इति विशेष्यनिघ्नतापादकबहुव्रीह्यभावात्, इत्यत उक्तम्– वैदिकमित्यादि ।। नञ्समासपक्षे ‘अनादिः’ इति पुंलिङ्गे भाव्ये तद्व्यत्ययेन नपुंसकत्वं वैदिकत्वाद् युक्तम् । अथ वा प्रथमाविभक्तेः सोर्लोपेन वा ‘अनादि’ इति युक्तमिति मन्यमानस्य नञ्समासत्वशङ्का स्यादेवेत्यर्थः । बहुव्रीहिर्वेत्यादि ।। ‘अनादि’ इत्येवोक्ते ‘न विद्यते आदिरस्येत्यनादि’ इति बहुव्रीहिर्वा ‘न आदिरनादिः’ इति नञ्समासो वेति संशयः स्यादित्यर्थः । नञ्समासाश्रयणे किं बाधकम्? इत्यत आह– तथा चेति ।। कारणमिति ।। आदिशब्दस्य कारणवाचित्वादित्यर्थः ।
भावप्रकाशः
।। इति सूचितमिति ।। ‘स च यो यत्प्रभावश्च’ इति वक्तुं तज्ज्ञानसाधनान्याहेत्यनेनेति शेषः । ‘परं ब्रह्म’ इत्यस्य स्वरूपप्रश्नोत्तरत्वं समर्थयितुमिति-शब्दात् परमध्याहार्यमाह– इति नामोक्त्येति ।। कश्चिद्भेद इति ।। ‘परं तु ब्रह्म नहि भगवतोऽन्यत्’ इत्युक्तत्वादिति भावः । किञ्चास्मिन् पक्षे कृष्णस्य परत्वं रामादेरवतारस्यावरत्वं लब्धं तच्चायुक्तमित्याह– न चेति ।। ‘परिपूर्णानि रूपाणि सामान्याखिलरूपतः’ इत्यादि-नोक्तमित्यर्थः ।। तात्पर्यानुसारेणाह– अथ वेति ।। ननु नञ्समासो वेति कथं संशयः । ‘पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः’ इत्यमरोक्तेरादिशब्दस्य नित्यपुंस्त्वेन समासेऽपि तदावश्य-कत्वात् ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इत्युक्तेरित्यत आह– वैदिकमिति ।।