प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ।। २२ ।।
श्रीभगवानुवाच–
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ।। २२ ।।
भाष्यम्
प्रायो न द्वेष्टि न काङ्क्षति । तथाहि सामवेदे भाल्लवेयशाखायाम्
‘रजस्तमस्सत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षति ।
तथाऽपि सूक्ष्मं सत्त्वगुणं च काङ्क्षेद् यदि प्रविष्टं सुतमश्च जह्यात्’ इति ।।
‘न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम ।
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिका मताः ।
कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्’ इति मोक्षधर्मे ।
‘सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः’इति च ।। २२ ।।
भावप्रदीपिका
‘प्रकाशं च प्रवृत्तिं च मोहं च न द्वेष्टि न काङ्क्षति’ इत्येतत्प्रायिकमेवेत्याह– प्राय इति । प्रकाशादिशब्दत्रयोक्तगुणत्रयं प्रवृत्तिं च निवृत्तिं चेश्वरेच्छयैव हि प्रत्येति नेच्छति, द्वेष्टि यद्यपि । तत्रापि शुसत्त्वं काङ्क्षति, तस्मात् तद्यदि स्वस्मन् प्रविष्टं तर्ह्यज्ञाननाशकं भवतीत्यर्थः । सत्वं काङ्क्षेद्यदि तमोऽस्त तज्जहाति चेति वा । सूक्ष्मसत्त्वाभावे ज्ञानमोक्षाभावात् तदिच्छाऽस्तीत्याह– न हीति । यदि सत्त्वेन सूक्ष्मेण हीनास्तर्हि न सत्वस्थाः । किन्तु वैकारिका मताः ।। २२ ।।
प्रमेयदीपिका
‘प्रकाशं च प्रवृत्तिं च’ इत्यनेन गुणातीतस्य सर्वथा सत्त्वादिगुणकार्येषु प्रकाशादिषु द्वेषाकाङ्क्षे न स्त इत्युच्यते’ इत्यन्यथाप्रतीतिनिरासार्थ-माह– प्राय इति ।। इदमुक्तं भवति । सत्त्वादयो गुणाः द्विविधाः स्थूलाः सूक्ष्माश्च । तत्र स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहाः जायन्ते । सूक्ष्मेभ्यस्तु परमेश्वरादिविषयाः । तत्राद्येषु गुणातीतस्य द्वेषाकाङ्क्षे प्रायो न स्तः । न तु सर्वथा प्रारब्धवशात् कदाचित् सम्भवात् । द्वितीयेषु त्वाकाङ्क्षादिकं विद्यत एवेति । कुत एतत्? इत्यत आह– तथा हीति ।। यद्यपि ‘न द्वेष्टि’ इत्यादिकमुक्तम् । तथाऽपि यदि सुतमः सूक्ष्मं तमः दैववशात् तं प्रविष्टं स्यात् । तदाऽसौ तत् जह्यात् द्विष्यात् ।। गुणातीतानां च सूक्ष्मसत्त्वसद्भावे भारतवाक्यं च पठति– न हीति ।। यदि देवा ऋषयश्च सूक्ष्मेण सत्त्वेन हीनाः स्युः तदा ‘सत्त्वस्थाः’ इति नोच्येरन् । किन्तु ततः तदा वैकारिकाः मताः प्रसज्येरन् । ततः किं कथं वैकारिको गच्छेत् पुरुषोत्तमम्? तेषां मोक्षो न स्यादिति यावत् । अस्ति च तेषाम् मोक्षः । अतः सूक्ष्मसत्त्ववन्त एव त इत्यर्थः । सात्त्विकः सूक्ष्मसत्त्ववान् ।
‘स सूक्ष्मसत्त्वसंयुक्तः संयुक्तस्त्रिभिरक्षरैः ।
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकः’ (म.भा)
इति सूक्ष्मसत्त्वप्रकरणात् । मोक्षार्थनिश्चितः मोक्षलक्षणे पुरुषार्थे निश्चितः ।। २२ ।।
भावबोधः
तथाऽपि ‘सूक्ष्मं सत्त्वगुणं च’ इत्याद्युदाहरिष्यमाणप्रमाणानुसारेण ‘प्रायो न द्वेष्टि न काङ्क्षति’ इति भाष्याभिप्रायमाह – इदमुक्तमित्यादिना वैकारिका इति ।। विकारो भौतिकदेहादिस्तद्वत्त्वेन तत्सम्बन्धिन इत्यर्थः । मोक्षो न स्यादिति ।। सशरीराणां पुरुषोत्तमगमनरूपो मोक्षो नेत्यर्थः ।। २२ ।।
भावदीपः
वक्ष्यमाणश्रुत्यनुरोधादाह– इदमुक्तं भवतीति ।। ‘सूक्ष्मसत्ववान्’ इत्यर्थे ज्ञापकमाह – स सूक्ष्मेति ।। त्रिभिरक्षरैः ।। प्रणवाक्षरैः ।। २२ ।।
भावरत्नकोशः
ननु गुणातीतस्यापि ईश्वरविषयप्रकाशप्रवृत्तिमोहेषु द्वेषाकाङ्क्षे नियमेन युक्ते एव, तत्कथं ‘प्रायो न द्वेष्टि न काङ्क्षति’ इति भाष्यम् कथं चैतत्साक्षिभूतप्रमाणे ‘सत्त्वगुणं नाकाङ्क्षेत्’, ‘सत्त्वगुणं च काङ्क्षेत्’ इति व्याहतभाषणम् इत्यतो भाष्यप्रमाणतात्पर्यं प्रमाणोपात्तसूक्ष्मशब्दस्वारस्यानुसारेणाह– इदमुक्तं भवतीति ।। ‘सूक्ष्माश्च’ इत्यनन्तरम् ‘इति’ शब्दोऽध्याहार्यः । लौकिकाः लौकिकार्थविषयाः ‘यथासङ्ख्यम् इति शेषः । परमेश्वरादि-विषयाः परमेश्वरपरमेश्वरीब्रह्मादितत्त्वदेवादिविषयाः । प्रायःपदव्यावर्त्यमाह– न त्विति ।। द्वितीयेषु परमेश्वरविषयेषु प्रकाशप्रवृत्तिमोहेषु । विद्यत एवेतीति ।। पारमेश्वरे प्रकाशा-दावाकाङ्क्षादिनियमो युक्त एव । लौकिकविषये प्रकाशादौ प्राय आकाङ्क्षाद्यभावो गुणातीतस्य इति युक्तम् ‘प्रायो न द्वेष्टि न काङ्क्षति’ इति भाष्यम् । प्रमाणं च स्थूलसूक्ष्मसत्त्वादिविषयमिति न तत्र व्याहतिशङ्केति भावः । भाष्ये ‘तथापि’ इति श्रवणाद् तत्प्रतियोग्याह– यद्यपीति ।। उक्तम् पूर्वार्धेन ‘द्वेष्टि न काङ्क्षति इत्युक्तम् । सूक्ष्मं सत्त्वगुणं सूक्ष्मसत्त्वगुणकार्यं परमेश्वरविषयं प्रकाशम् इत्यर्थस्य स्पष्टप्रतिभानत्वाद् ‘यदि प्रविष्टम् इत्याद्येव व्याचष्टे– यदि सुतम इति ।। तं गुणातीतं तत् तमः । प्रकृतोपयोगाय तात्पर्यमाह– द्विष्यादिति ।।
‘ततः’ इत्यस्य ‘तदा’ इत्यर्थकत्वात् तदनुसारेणाह– यदीति ।। स्युरिति ।। ‘नोच्येरन् ‘प्रसज्येरन् इति च शेषः । ‘ततः’ इत्यस्यार्थः – तदेति ।। वैकारिकाः विकारः भौतिकदेहादि, तत्र भवाः बन्धकदेहोपेता इत्यर्थः । यदि सूक्ष्मसत्त्ववन्तो न स्युः तर्हि स्थूलसत्त्वादिनियमात् तेन मनोविकारवन्तः प्रसज्येरन् इत्यर्थ इत्यपि आहुः । ‘देवा ऋषयः’ इति बहुवचनान्तशब्देन प्रकृतत्वादाह– तेषामिति ।। वैकारिकाणामित्यर्थः । तर्कस्य विपर्यये प्रर्यवसानमाह– अस्ति चेति ।। तेषाम् गुणातीतानाम् । ‘अनियमः सर्वेषाम्’ इति शास्त्रादिति भावः । ‘सात्त्विकः’ इति सत्त्वगुणवत्वमेव प्रतीयते, तत्कथं सूक्ष्मसत्त्ववनिति व्याख्यानम् इत्यत उक्तार्थे लिङ्गमाह– स सूक्ष्मेति ।। त्रिभिरक्षरैः संयुक्तः अकारोकारमकारैः सम्यङ्मनोयोगवान् प्रणवेन हरिं ध्यायन् इति यावत् । निष्क्रियः यतिः, विकारशून्य इति वा । पञ्चविंशक इति ।।
‘पुरुषोऽव्यक्तं च महान् अहङ्कारो मनस्तथा ।
दशेन्द्रियाणि शब्दाद्या भूतेताः पञ्चविंशतिः ।।’
इति तन्त्रसारसङ्ग्रहवचनात् ‘चतुर्विंशतितत्त्वानि जीवो वा पञ्चविंशकः’ इति वचनान्तराच्च पञ्चविंशतिसङ्ख्यापूरकः पुरुषो जीव इत्यर्थः । पुरुषार्थे निश्चित इति ।। नियतमोक्ष इत्यर्थः ।।
गीताक्षरार्थस्तु गुणातीतस्य कानि लक्षणानि, कश्च तस्याचारः, गुणात्ययोपायश्च कः इति ज्ञानिनाऽप्यर्जुनेन विशेषजिज्ञासया सल्लोकं प्रति विजिज्ञापयिषया च कृतं प्रश्नत्रयं भगवतोत्तरितमित्युच्यते– श्रीभगवानुवाच प्रकाशमित्यादिना ।। प्रकाशं ज्ञानं, चशब्दात् सुखं, प्रवृत्तिं कर्मण्युद्योगं, चशब्दात् तृष्णासङ्गौ मोहं मिथ्याज्ञानं, चशब्दाद् अज्ञान-प्रमाद•लस्यनिद्राश्च एतानि सत्त्वादिगुणकार्याणि सम्प्रवृत्तानि प्रायो न द्वेष्टि, निवृत्तानि प्रायो न काङ्क्षति च । ‘स गुणातीत उच्यते’ इति वक्ष्यमाणेनान्वयः । इदमुक्तं भवति– सत्त्वादयो गुणा द्विविधाः स्थूलाः सूक्ष्माश्चेति । तत्र स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहा जायन्ते । सूक्ष्मेभ्यस्तु परमेश्वरादिविषयाः । तत्राद्येषु गुणातीतस्य द्वेषाकाङ्क्षे प्रायो न स्तः, न तु सर्वथा । प्रारब्धवशात् कदाचित् सम्भवात् । द्वितीयेषु परमेश्वरविषयप्रकाशप्रवृत्तिमोहेषु प्रकाशप्रवृत्ती काङ्क्षति, मोहं तु द्वेष्ट्येवेति ।। २२ ।।
भावदीपिका
तथाऽपि ‘सूक्ष्मं सत्त्वगुणं च काङ्क्षेत्’ इत्याद्युदाहरिष्यमाण-प्रमाणानुसारेण’ प्रायो न द्बोष्टि न काङ्क्षति’ इति भाष्याभिप्रायमाह– इदमुक्तं भवतीत्यादिना ।। लौकिकाः लौकिकार्थविषयाः । तत्र स्थूलत्वगुणाल्लौकिकार्थविषयकः प्रकाशो ज्ञानं भवति । स्थूलरजोगुणात् लौकिकार्थविषयकप्रवृत्तिर्भवति । स्थूलतमोगुणात् लौकिकार्थविषयको मोहो भवतीति विवेकः । सूक्ष्मेभ्य इति ।। सूक्ष्मसत्त्वरजस्तमोगुणेभ्यः परमेश्वरविषयकप्रकाशप्रवृत्ति-मोहाः क्रमेण भवन्तीत्यर्थः । तत्राद्येेष्विति ।। स्थूलसत्त्वादिगुणकार्येषु लौकिकार्थविषयक-प्रकाशप्रवृत्तिमोहेष्वित्यर्थः । तत्र स्थूलसत्त्वरजःकार्ययोः लौकिकार्थविषयकमोहश्च प्रायेण नास्ति, न तु सर्वथा । कुतः? गुणातीतस्याप्यपरोक्षज्ञानिनः प्रारब्धवशात् कदाचिल्लौकिकार्थ-विषयकप्रकाशादौ आकाङ्क्षामोहयोर्दर्शनादित्यर्थः । द्वितीयेष्विति ।। परमेश्वरविषयकेषु सूक्ष्मसत्त्वादिकार्येषु प्रकाशप्रवृत्तिमोहेष्वित्यर्थः । तत्र सूक्ष्मसत्त्वरजःकार्ययोः परमेश्वरविषयकयोः प्रकाशप्रवृत्त्योराकाङ्क्षा, सूक्ष्मतमःकार्ये परमेश्वरविषयके मोहे द्वेषश्च सर्वथाऽस्त्येव, न तु पूर्ववत्प्रायेणेत्यर्थः ।
उक्तम् सामान्येनेत्यर्थः । सूक्ष्मतम इति ।। परमेश्वरविषयकमोहापादकमित्यर्थः । दैवात् सूक्ष्मतमसा भगवद्विषयकविपरीतवृत्तिर्जाता चेत् तर्हि परामर्शेन शीघ्रं तज्जहातीति । तथा च ‘रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वोष्टि न चापि काङ्क्षति’ इति सामान्येनोक्तम् । तथाऽपि तत् स्थूलसत्त्वादिकार्यलौकिकार्थविषयकप्रकाशप्रवृत्तिमोहेषु प्रायः आकाङ्क्षाभावपरं मन्तव्यम् । कुतः यतः सूक्ष्मं सत्त्वगुणं तत्कार्यभगवद्विषयकप्रकाशम्, उपलक्षणमेतत्, सूक्ष्म-रजोगुणकार्यां परमेश्वरविषयां प्रवृत्तिं च काङ्क्षेत् । यदि सुतमः सूक्ष्मतमः तत्कार्य-परमेश्वरविषयको मोहो यदि तं गुणातीतं ज्ञानिनं प्रविष्टः स्यात्, तर्हि तं जह्यात् द्विष्यादिति श्रुत्यर्थो द्रष्टव्यः । तथा च ‘प्रकाशं च प्रवृत्तिं च मोहमेव च’ इति गीतावाक्यं स्थूल-सत्त्वादिकार्यलौकिकार्थविषयकप्रकाशादिपरं इत्युक्तं भवति । तथा च भगवद्विषयं प्रकाशं च प्रवृत्तिं च सूक्ष्मरजःकार्यभूतां प्रवृत्तिं च न द्वेष्टि, निवृत्तां पुनः काङ्क्षति च । सूक्ष्मतमःकार्यं भगवद्विषयकं मोहं प्रवृत्तं द्वेष्टि; निवृत्तं च न काङ्क्षति च । लौकिकविषयं प्रकाशं च प्रवृत्तिं च मोहं च प्रायो न द्वेष्टि न च काङ्क्षतीति गीतार्थो द्रष्टव्यः ।
तदा वैकारिका इति ।। विकारः भौतिकदेहादिः, तद्वत्त्वेन तत्सम्बन्धिन इत्यर्थ इति आहुः । वस्तुतस्तु सूक्ष्मसत्त्वाभावे परमेश्वरविषयकप्रकाशाभावाद्, एवं सूक्ष्मरजसोऽभावे परमेश्वरविषयकप्रवृत्त्यभावात् स्थूलसत्त्वादिना केवलं लौकिकविषयकप्रकाशादिमत्त्वेन बहुतरान्तःकरणविकारप्राप्त्या वैकारिकाः स्तुता इत्यर्थः । त्रिभिरक्षरैरिति ।। अकारोकार-मकारात्मकोङ्कारेण भगवदुपासक इति यावत् । पञ्चविंशक इति ।। ‘चतुर्विंशतितत्त्वानि जीवो वा पञ्चविंशकः’ इत्युक्तत्वात् पञ्चविंशतिसंख्यापूरकः निषिद्धक्रियारहितत्वान्निष्क्रियः पुरुषो जीव इत्यर्थः ।। २२ ।।
भावप्रकाशः
ननु गुणातीतस्येश्वरविषयप्रकाशादिषु द्वेषाकाङ्क्षे नियमेन स्तः । तत्कथमेवमुक्तमित्यतो वक्ष्यमाणप्रमाणानुसारेणाह– इदमुक्तं भवतीति ।। वैकारिका इति।। विकारो भौतिकदेहादिः।तत्र भवा इत्यर्थः । बन्धकदेहयुक्ता इति यावत् । ननु वैकारिकोपि सुप्तौ पुरुषोत्तमं गच्छत्येवेति व्यभिचार इत्यत आह– तेषामिति ।। संयुक्तस्त्रिभिरक्षरैः इति त्रिवर्णात्मकप्रणवेन संयुक्तः । तेन भगवदुपासक इति यावत् । निष्ष्क्रिय इति । विक्रियाशून्य इत्यर्थः । पञ्चविंशक इति ।। पुरुषोव्यंक्तं च महान् अहङ्खारो मनस्तथा । दशेन्द्रियाणि शब्दाद्या भूतेताः पञ्चविंशतिः । इति तन्त्रसाराद्युक्तरीत्या पंचविंश इत्यर्थः ।। २२ ।।