कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकार्तिकरमर्जुन।। २ ।। क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।। ३ ।।

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यमकार्तिकरमर्जुन।। २ ।।

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।। ३ ।।

भावरत्नकोशः

अक्षरार्थस्तु– तदेवोच्यते श्रीभगवान् इति द्वाभ्याम् ।। हे अर्जुन कुतो हेतोस्त्वा त्वां कष्मलं मलिनं क्लैब्यं वा विषमे अस्थाने समुपस्थितम् । एतच्चानार्यजुष्टमविद्वत्सेवितम् अस्वर्ग्यमधर्म्यम् अकार्तिकरं परलोकविरोध्ययशस्करं च । तस्मात् क्लैब्यं कातर्यं मा स्म गमः मा गाः । त्वयि क्षत्रियवरे एतत् क्लैब्यं नोपपद्यते न न्याय्यम् । हे परन्तप ‘द्विषत्परयोस्तापेः’ इति खचि ‘खित्यनव्ययस्य’ इति मुमागमः । शत्रूणां सन्तापक, अतो मनसो दौर्बल्य-कारणमेतदधैर्यं त्यक्त्वा युद्धायोत्तिष्ठेति ।। २,३ ।।