श्रद्धवाननसूयश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ।।७१।।

श्रद्धवाननसूयश्च शृणुयादपि यो नरः ।

सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ।।७१।।

भावरत्नकोशः

गीताक्षरार्थस्तु- श्रोतुः फलमुच्यते– श्रद्धावानिति ।। योऽपि नरः श्रद्धावान् अत्रोक्तमस्ति, अनेन मम प्रयोजनमस्तीति मतिः श्रद्धा, तद्वान् अनसूयः असूयादिश्रोतृदोषहीनः च इमं संवादं शृणुयात् सोऽपि मुक्तः पापेभ्यः शुभान् विमलान् समस्तान् पुण्यकर्मणाम् अग्निहोत्रादिकर्मकारिणां लोकान् प्राप्नुयात् प्रतिपद्यते ।। ७१ ।।