अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।। २५ ।।

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि।। २५ ।।

भाष्यम्

अत एवाव्यक्तादिरूपः ।। २५ ।।

भावप्रदीपिका

श्रवणादिना व्यक्त्यादि प्राप्नुवतो हरेः कथमव्यक्तत्वादि? इत्यत आह– अत एवेति ।। अचिन्त्यशक्तित्वादेव ।। २५ ।।

भावप्रकाशिका

ननु भक्त्यैर्दृश्यत्वाद्ध्येयत्वाद्विविधावताररूपत्वाच्च भगवतः कथमसावव्यक्तोऽचिन्त्योऽ-विकार्यश्चेत्युच्यत उत्तरश्लोकेन? इत्यत आह– अत एवेति ।। यत एवमनाद्यनन्ता परा शक्ति-रवसीयते भगवतः श्रुतिपुराणाभ्यां यतश्च क्रियावतोऽप्यचलत्वोपपत्तिः, अत एवाव्यक्तत्वाद्यु-पपत्तिः दृश्यादिरूपस्येत्यर्थः ।। २५ ।।

प्रमेयदीपिका

ननु भगवान् ज्ञानिभिर्दृश्यते चिन्त्यते च । तत् कथमुच्यते ‘अव्यक्तोऽयमचिन्त्योऽयम्’ इति? तत्राह– अत एवेति ।। अचिन्त्यशक्तित्वादेव । यथोक्तम् ‘अतोऽनन्तेन तथा हि लिङ्गम्’ (ब्र.सू.३.२.२७) इति ।। २५ ।।

भावदीपः

यथोक्तमिति ।। भक्तिपादे सूत्रकृतोक्तमित्यर्थः । अतः अव्यक्तत्वे प्रत्यक्षत्वे च प्रमाण-सत्वात् अनन्तेन अपरिच्छिन्नशक्तिकेनेशेन, तत्प्रसादेनेति यावत् । प्रकाशः अव्यक्तस्यापि भवति ।। ‘तस्याभिध्यानात्’ (श्वेत.उ.१.१०) इत्युक्तेशप्रसादसाध्यबन्धनिवृत्तिरूपं लिङ्गं च प्रसादहेतुप्रकाशज्ञापकं हि यतः अतः अव्यक्तस्याप्यस्ति प्रकाश इति ज्ञायते’ इति सूत्रार्थः

।। २५ ।।

भावरत्नकोशः

चिन्त्यते चेति ।। चशब्देन ‘विविधावताररूपत्वाद् विक्रियते च’ इति प्राचीनटीकारीत्या समुच्चीयते । अव्यक्तोऽयमचिन्त्योऽयमितीति ।।

यद्यप्यव्यक्तादिलक्षणेश्वरसरूपत्वादित्येवमव्यक्तादिशब्दो जीवपरो न भगवद्विषयः । जीव-प्रकरणविरोधात् । तथाऽपीश्वरे अव्यक्तत्वादिविशेषणाध्यवसायद्वारकत्वात् जीवविषयत्वस्ये-त्यभिप्रायेण टीकायामेवमाक्षेपः कृत इत्यदोषः । अव्यक्तस्वभावस्याप्यचिन्त्यशक्तियोगेन व्यक्तत्वमित्यत्र सूत्रसम्मतिमाह– यथोक्तमिति ।। अतः अव्यक्तत्वे प्रत्यक्षत्वे च प्रमाण-सद्भावात् । अनन्तेन अपरिच्छिन्नशक्तिकेनेशेन । तत्प्रसादेनेति यावत् । अव्यक्तस्यापि व्यक्तिर्ज्ञायते । तेनेति वाच्ये अनन्तेनेत्युक्तिः अव्यक्तस्वभावस्य प्रसादेनापि कथं प्रत्यक्षता स्यादिति न शङ्क्यम् । तस्यानन्तशक्तित्वादिति युक्तिं द्योतयितुम् । बलवद्युक्त्या चैवमेतदिति भावेनोक्तं– तथा हि लिङ्गमिति ।। तथाशब्दः समुच्चये । हिर्हेतौ । ‘तस्याभिध्यानात्’ इति श्रुत्युक्तमीशप्रसादसाध्यबन्धनिवृत्तिरूपं लिङ्गं च प्रसादहेतुप्रकाशज्ञापकं हि यस्मात् तस्मादप्ये-तज्ज्ञायते । ‘दृष्ट्वैव तं मुच्यते’ इति मोक्षस्य दर्शनसाध्यत्वश्रवणात् प्रसादाद् दर्शनं, दर्शना-न्मोक्ष इत्यङ्गीकरणीयत्वादिति सूत्रार्थः । अत्र पुरुषप्रयत्नेनाव्यक्तस्याप्यनन्तशक्तियोगेन प्रत्यक्ष-ताऽपि युज्यत इत्यर्थो विज्ञायते । यथोक्तं भाष्यानुव्याख्यानयोः

नित्याव्यक्तोऽपि भगवानीक्ष्यते निजशक्तितः’ इति ।।

अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः’ इति च ।। २५ ।।

गीताश्लोकत्रयाक्षरार्थस्तु– ननु यथा दक्षप्रजापतेः शिरश्छेदो न स्वतो जातः, नापि वीरभद्रस्यायुधेन निमित्तेन । किन्तु यज्ञपशुभावनाख्येन निमित्तविशेषेण । तथा स्वतः प्रायोनिमित्तैश्चाविनाशिनोऽपि केनचिच्छस्त्रादिना निमित्तविशेषेण विनाशः किं न स्यादित्यतो विशिष्टनिमित्तान्यपि नात्र सन्तीत्युच्यते– नैनमिति ।। अन्वादेशे एनादेशः । ‘देही’ इति प्रकृतं जीवम् । लट्प्रयोगश्रवणेन वर्तमानस्यैव छेदादेर्निषेधाद् इदानीं दृश्यमानत्वेन आत्मनः प्राक् विनाशाभावेऽप्युत्तरत्र शस्त्रादिना विनाशः स्यादित्याशङ्क्य छेदादियोग्यतैव आत्मनो नास्तीति प्रतिपद्यते– अच्छेद्योऽयमिति ।।

अयं जीवः । ‘र्ओ कृत्यतृचश्च’ इत्यर्हार्थे कृत्यप्रत्ययस्य स्मरणात् छेदादियोग्यतैव आत्मनो नास्तीति सिद्ध्यति । ‘प्रवृत्ते शस्त्रसम्पाते’ इति प्रसक्तौ सत्यामपि वर्तमानस्य छेदादेरदर्शनात् छेदाद्ययोग्यत्वमात्मनो युक्तमिति पूर्वश्लोकेनोक्तम् । तत्र वर्तमानच्छेदाद्यदर्शन-मात्मनश्छेदाद्ययोग्यतायां किं निश्चययुक्तिरुत सम्भावना? नाद्यः, कदाचिददृष्टस्यापि पश्चाद् दर्शनात् । द्वितीये तु कुतोऽयोग्यता निश्चेयेत्याशङ्क्य नित्यसर्वगतत्वादिविशेषणेश्वरसरूप-त्वादिति निश्चययुक्तिं वक्तुं प्रतिबिम्बे बिम्बसमानधर्माणामविरुद्धानां सम्भवादिति भावेनोच्यते नित्यः सर्वगतस्थाणुरचलोऽयं सनातन इत्यादिना । पुनरुक्तिभयात् सामर्थ्याद् भिन्नपदोपात्तमपि नित्यत्वं विशिष्टस्य विशेषणं विशेषणमुपसङ्क्रामति । सन्निधानाच्च सर्वगतत्वमेव नित्यम् । सर्वेषु शस्त्रपावकादिषु स्थितः सर्वगतः । स्थाणुः नैमित्तिकविकाररहितः । अनाद्यनन्तशक्ति-त्वादचलादिः । ईश्वरस्य तावच्छेदाद्ययोग्यत्वं सिद्धम् । नित्यसर्वगतत्वादिविशेषणत्वात् । न ह्येवम्भूतस्य छेदादिकं सम्भवति । ईश्वरस्यैवम्भावोऽस्तु । जीवस्य तु कुतः? तथाविधेश्वर-प्रतिबिम्बत्वादिति चेन्न । यो यत्प्रतिबिम्बः स तद्धर्मेति नियमाभावादिति ।। मैवम् । यो यत्प्रतिबिम्बः सोऽसति विरोधे तद्धर्मेति व्याप्तेरत्राभिप्रेतत्वात् । नित्यसर्वगतत्वादिलक्षणेश्वरस-रूपत्वात् प्रतिबिम्बस्य छेदाद्ययोग्यत्वं युक्तमिति भावः ।।

एवं सर्वशङ्कोद्धारेण आत्मनित्यत्वं प्रतिपाद्योपसंह्रियते– तस्मादिति ।। बिम्बोपाधि-तत्सन्निधिनाशनिमित्तस्य शापादिनिमित्तस्य शस्त्रादिनिमित्तविशेषकस्य च नाशस्याभावेन आत्मनो नित्यत्वादेनं जीवम् एवं नित्यत्वादिना विदित्वा नानुशोचितुमर्हसीति ।। २५ ।।

भावदीपिका

।। अतोऽनन्तेनेति ।। व्याख्यातमेतद् भाष्यानुव्याख्यानयोः । ‘युज्यते च तस्यानन्त-शक्तित्वात्’, ‘अव्यक्तोऽपि स्वशक्त्यैव भक्तानां दृश्यते हरिः’ इति ।। २५ ।।

भावप्रकाशः

अव्यक्तोऽयमचिन्त्योयमिति ।। यद्यप्यव्यक्तादिशब्दो व्यक्तादिलक्षणेश्वरसरूप इत्येवं जीवविषयो न त्वीश्वरविषयः प्रकरणविरोधात् । तथापीश्वराव्यक्तत्वादिविशेषणसमर्पणद्वारा जीवपर इत्येवमाक्षेपःकृतः । अव्यक्तस्वभावस्यापि अचिन्त्यशक्त्या व्यक्तत्वमित्यत्र सूत्रसम्मति-माह– अतोऽनन्तेनेति ।। अतः व्यक्तत्वेऽव्यक्तत्वे च प्रमाणभावादनन्तेन तत्प्रसादेनैव व्यक्तत्वं पुरुषप्रयत्नेनेनाव्यक्तत्वं च ज्ञायते । तस्याभिध्यानादिति श्रुतमोक्षस्य प्रसादसाध्यत्वलिङ्गञ्च भगवत्प्रसादात् तद्दर्शनभावं ज्ञापयति– दृष्ट्वैव तं मुच्यत इति मोक्षस्य दर्शनसाध्यत्वश्रवणात् प्रसादाद्दर्शनं दर्शनात् मोक्ष इत्यङ्गीकार्यत्वादिति सूत्रार्थः । यद्यप्यचिन्त्यशक्तित्वाद्व्यक्त-त्वादिकमित्यर्थो न सूत्राल्लभ्यते । तथाऽपि पदान्तरं विनाऽनन्तपदस्यैव प्रयोगे प्रयोजना-न्वाख्यानपरं यद्भाष्यं युज्यते च तस्यानन्तशक्तित्वादिति तद्बलाल्लभ्यत एवेति युक्तं सूत्रोदाहरणम् ।। २५ ।।