अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।। ११ ।।

श्रीभगवानुवाच

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।। ११ ।।

भाष्यम्

प्रज्ञावादान् स्वमनीषोत्थवचनानि । कथम् अशोेच्याः? गतासून् ।।

भावप्रकाशिका

स्वमनीषोत्थवचनानि न वृद्धसम्मतानि । न हि महान्तो नारायणद्विषां तदनुबन्धिनां वा निग्रहमधर्मं मन्यन्त इति भावः । अनेन प्रज्ञाया वादाः प्रज्ञावादा इति विग्र्रहः सूचितः । नन्वस्तु धर्मो हरिशत्रुवधः । तथापि तदितरे मरिष्यमाणाः कथमशोच्या इति प्रश्नोत्तरत्वेनोत्तरार्ध-मवतारयति– कथमित्यादिना ।। ११ ।।

प्रमेयदीपिका

प्रज्ञावादान्’ इत्येतत् ‘प्रज्ञावतां बुद्धिमतां वादान् वचनानि’ इति कश्चिद् व्याख्यातवान्। तदसत् । नहि ‘दृष्ट्वेमं स्वजनम्’(१.२८) इत्याद्यर्जुनवाक्येषु कश्चिद्बुद्धिमद्वादो विद्यते । न हि बुद्धिमन्तो नारायणद्विट्तदनुबन्धिनिग्रहमधर्मं वदन्ति । नच धर्माधर्मविषयत्वमात्रेण बुद्धिमद्वादो भवति । बौद्धादेरपि तत्त्वप्रसङ्गादित्याशयेनान्यथा व्याचष्टे– प्रज्ञावादानिति ।। स्वस्या एव मनीषाया उत्थितानि । नतु शास्त्राचार्योपदेशप्राप्तानि । कथमेतल्लभ्यते? उच्यते। प्रज्ञाया वादाः प्रज्ञावादाः । कार्यकारणभावे षष्ठी । न हि स वादोऽस्ति यः प्रज्ञापूर्वो न भवतीति सामर्थ्यात् स्वेति लभ्यते । सावधारणं चैतत् । ‘अब्भक्षः’ इति यथा । अन्यथा पुनर्वैयर्थ्यादिति । कथमशोच्याः? ‘इत्यत आह’ इति शेषः । गतासून् इत्यतः परम् ‘इति’ शब्दः । आसन्नविनाशाः कथमशोच्याः? इत्यर्थः ।।

ननु प्रागशोच्यत्वानुवादेन ‘अन्वशोचः’ इत्येवोक्तम् । न त्वशोच्यत्वम् । तत्कथमेव-माक्षेपः? मैवम् । नहि यथाश्रुतैवात्र वाक्यवृत्तिः । असिद्धस्यानुवादः सिद्धस्य बोधन-मित्यापत्तेः । किन्तु यान् अन्वशोचस्त्वं तेऽशोच्याः । तस्मात्तान् प्रति न शोकः कार्यः । त्वं यांश्च भाषसे ते प्रज्ञावादाः । अतो न भाषणीया इति । तथाचाशोच्याः कुतोऽवगन्तव्याः? इति प्रश्नो वाऽऽक्षेपो वा युज्यत एव ।। ११ ।।

भावबोधः

पुनर्वैय्यर्थ्यादिति ।। न हि स वादोऽस्ति, यः प्रज्ञापूर्वो न भवति । अन्ततः पदावली-ज्ञानपूर्वकत्वनियमादिति भावः । असिद्धस्येति ।। शोकस्य ‘शोकसंविग्नमानसः’ इत्यादिना भाषणस्य चार्जुन उवाच इत्यादिना सिद्धत्वात् । अशोच्यत्वप्रज्ञावादत्वयोरर्जुनेनानङ्गी-कृतत्वेनासिद्धत्वादिति भावः ।। ११ ।।

भावदीपः

धर्माधर्मविषयत्वमात्रेणेति ।। मात्रपदेन वास्तवधर्माधर्मविषयत्वं व्यावर्त्यते ।। तत्त्वेति ।। बुद्धिमद्वादत्वप्रसङ्गादित्यर्थः । तेनापि ‘चैत्यवन्दनादि धर्मोऽन्योऽधर्मः’ इत्युपदेशकरणादिति भावः ।। पुनर्वैयर्थ्यादिति ।। सर्वस्यापि वादस्य प्रज्ञापूर्वकत्वमिव स्वप्रज्ञापूर्वकत्वस्यापि सिद्धत्वेन ‘स्वप्रज्ञावादान्’ इत्यस्यापि वैयर्थ्यमेव । अतोऽवधारणं विवक्षणीयमित्यर्थः। (वैयर्थ्यमिति सावधारणम्) ।। ‘कथमशोच्याः’ इति प्रश्नस्य शेषोक्त्याऽर्थमाह– आसन्ने-त्यादिना ।। अस्योत्तरम्– गतासूनिति ।। भाष्ये प्रतीकग्रहणेनोक्तमुत्तरार्धम् । तदर्थस्तूत्तर-श्लोकावतारिकायां वक्ष्यति ।। वाक्यवृत्तिः वाक्यस्थितिरित्यर्थः ।। असिद्धस्येति ।। अशोच्यत्वस्य प्रज्ञावादत्वस्य चेत्यर्थः ।। सिद्धस्येति ।। ‘शोचामि’ इत्यादिना पूर्वत्र शोकस्य, ‘अर्जुन उवाच’ इति भाषणस्य च प्रस्तुतत्वादिति भावः ।। ११ ।।

भावरत्नकोशः

अशोच्यानन्वशोचः ।। कश्चित् सङ्करः । तथा च तदीयं भाष्यं ‘त्वं प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे । तदेतन्मौढ्यं पाण्डित्यं च विरुद्धमात्मनि दर्शयस्युन्मत्त इवेत्यभि-प्रायः’ इति ।। प्रज्ञाशब्दस्य प्रज्ञावदर्थकत्वे लाक्षणिकत्वापत्तिरिति स्फुटत्वादर्थदोषमाह– न हीति ।। हिशब्दो हेतौ । ननु कथं न विद्यते । ‘कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन’ इत्यादेर्दर्शनादित्यत आह– न हि बुद्धिमन्त इति ।। भीष्मद्रोणादीनामपि नारायणद्विडनुबन्धितया तन्निग्रहोऽपि धर्म एव । ‘नाऽततायिवधे दोषो हन्तुर्भवति कश्चन’ इत्यादिवचनादिति भावः । ‘धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत’, ‘मित्रद्रोहे च पातकम्’ इत्यादौ धर्माधर्माभिधानदर्शनात् कथं बुद्धिमद्वादो न दृश्यत इत्युच्यत

इत्याशङ्क्य निषेधति– न च इति ।। मात्रशब्देन परमार्थतो धर्मविषयत्वं व्यावर्त्यते । बौद्धेति ।। ‘अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वधः’ इति बौद्धोपदेशस्यापि बुद्धिमद्वादत्वप्रसङ्गादित्यर्थः ।

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्’ इत्यादिरूपवादस्यापि स्वमनीषोत्थितत्वात् कथमभाषणीयत्वमित्यतो व्याचष्टे– स्वस्या एवेति ।। ‘न वृद्धसम्मतानि’ इति प्राचीनटीकां विवृण्वन्नेवकारव्यावर्त्यमाह– न तु शास्त्रेति ।। ‘शिष्यस्तेऽहम्’ इत्यादेस्तु शास्त्रीयत्वान्नोक्त-रूपत्वमिति भावः ।। कथमिति ।। एतत् प्रज्ञावादानित्यस्य स्वमनीषामात्रप्राप्तानिति भाषणं, कथमक्षरैर्लभ्यत इत्यर्थः । षष्ठीति ।। प्रज्ञाया इति विग्रहे श्रूयमाणा षष्ठी कार्यकारण-सम्बन्धबोधिनीत्यर्थः ।। इति सामर्थ्यादिति ।। इति हेतोर्व्यर्थप्रज्ञाग्रहणबलादित्यर्थः । प्रज्ञानिमित्तको हि वादः प्रज्ञावादः । वादश्च सर्वोऽपि प्रज्ञानिमित्तक एवेति व्यावर्त्याभावात् प्रज्ञाविशेषणं व्यर्थम् । व्यर्थं च किञ्चिज्ज्ञापयतीति तद्ग्रहणसामर्थ्यात् स्वेति प्रज्ञाविशेषणं वक्तव्यमिति भावः ।। सावधारणम्, अवधारणगर्भम् ।। अन्यथा सावधारणत्वानभिप्राये ।। वैय्यर्थ्यादिति ।। वादमात्रस्याप्यन्ततः पदावलीप्रज्ञापूर्वकत्वनियमेन व्यावर्त्याभावात् स्वेति विशेषणमुपात्तमपि व्यर्थमेवाऽपततीति सावधारणत्वमेष्टव्यमिति भावः । अनेन ‘प्रज्ञाया वादाः प्रज्ञावादा इति विग्रहः’ इति प्राचीनटीकाऽपि विवृता ।। इतिशब्दः ।। शेष इति वर्तते ।

प्राणानामद्याप्यनिर्गमादाह– आसन्नेति ।। गतासूनित्येतदशोच्यत्वाक्षेपे हेतुतात्पर्यकमिति भावः ।। न त्वशोच्यत्वमिति ।। उक्तमिति वर्तते । ‘यथाश्रुत’ इत्यत्र यथा अनतिक्रान्तं श्रुतं श्रवणं ययेति बहुव्रीहिः । अव्ययार्थाप्राधान्यादनव्ययीभावत्वम् ।। वाक्यवृत्तिः वाक्यस्थितिः वचनभङ्गीत्यर्थः । तत्र हेतुः– असिद्धस्येति ।। अशोच्यत्वस्य प्रज्ञावादत्वस्य चार्जुनेनानङ्गी-कृतत्वादसिद्धत्वम् । अप्राप्तस्य चाननुवादः, ‘शोकसंविग्नमानसः’ इत्यादिना शोकस्य ‘अर्जुन उवाच, विषीदन्निदमब्रवीत् इत्यादिना भाषणस्य च सिद्धत्वात् तस्य बोधनमित्यापत्तेः । तथा चाप्रयोजनत्वरूपशब्ददोष आपद्येतेति भावः ।। इति ।। वाक्यवृत्तिरिति वर्तते । आसन्न-विनाशत्वाख्योपपत्त्यननुसन्धानदशायां प्राचीनटीकामनुरुन्धानेनोक्तं– प्रश्न इति ।। तदनु-सन्धानदशायामाह– आक्षेपो वेति ।। ११ ।।

भावदीपिका

ननु यो धर्माधर्मादिविषयो वादः स एव बुद्धिमद्वादः । अर्जुनवादोऽपि तथा । ‘एतान्न हन्तुमिच्छामि’ इति आचार्याद्यहननधर्मत्वाभिधायकत्वात् ‘मित्रद्रोहे च पातकम्’ इत्यधर्मविषयकत्वाच्चेत्यत आह– न चेति ।। बौद्धादेरपीति ।। अहिंसा, केशोल्लुञ्चनं, सप्त-घटिकाभोजनादिः परमो धर्मस्तद्विरुद्धोऽधर्म इति धर्माधर्मविषयकत्वेन बौद्धादेर्बुद्धसम्बन्धिवादा-देरपि बुद्धिमद्वादत्वप्रसङ्गादित्यर्थः । यद्वा, बौद्धादेरपि तत्त्वप्रसङ्गाद् बुद्धिमत्त्वप्रसङ्गात् । तथा च तद्वादस्यापि बुद्धिमद्वादत्वं स्यादिति भावः । तस्माद् वास्तवधर्मादिप्रतिपादकत्वमेव बुद्धिमद्वादत्वे प्रयोजकम् । तत्तु अर्जुनवादे नास्ति । विष्णुद्विट्तदनुबन्धिनिग्रहस्य परमधर्मत्वेन तद्विरुद्धत्वादिति ध्येयम् ।।

कार्यकारणभाव इति ।। तदितरषष्ठ्यर्थसम्बन्धस्य प्रकृतानुपयोगादिति भावः । ननु कार्यकारणभावे षष्ठी कुत इत्यत आह– नहीति ।। य इति ।। व्यवहारस्य व्यवहर्तव्य-ज्ञानसाध्यत्वादित्यर्थः । तर्हि प्रज्ञापदस्य वैयर्थ्यं स्यादतो व्यर्थं सत् किञ्चिद् ज्ञापयतीति न्यायसामर्थ्यात् स्वेति लभ्यत इत्यर्थः ।। अब्भक्ष इति ।। अम्मात्रभक्ष इत्यर्थः ।। अन्यथेति ।। सावधारणत्वाभावे । स्वमनीषयाऽजन्यवादाभावेन व्यावर्त्याभावात् । ततश्च स्वमनीषापदवैयर्थ्यं स्यादतो व्यर्थं सदिति न्यायेनावधारणं गमयति । शुकबालादिवादेष्वपि अन्ततः पदावलीज्ञान-पूर्वकत्वसत्त्वादिति भावः । इदानीमपि तेषां गतासुत्वाभावादाह– आसन्नेति ।। उक्तं पूर्वार्धे विहितम् ।। तत् कथमिति ।। विहितस्यैवाऽक्षेप्तव्यत्वादित्याशयः । कुतो नहीत्यत आह– असिद्धस्येति ।। अशोच्यत्वप्रज्ञावादत्वयोरर्जुनेनानङ्गीकृतत्वेनासिद्धत्वादित्यर्थः ।। सिद्धस्येति ।। शोकस्य ‘शोकसंविग्नमानस’ इत्यादिना सिद्धत्वाद् भाषणस्यापि ‘अर्जुन उवाच’ इत्यादिना सिद्धत्वादित्यर्थः ।। ११ ।।

भावप्रकाशः

प्रज्ञावतामिति ।। प्रज्ञाशब्दस्तल्लक्षक इति भावः । बौद्धादेरपीति ।। बुद्धादिवाक्य-स्यापीत्यर्थः । तस्याप्यहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वध इत्यादिना धर्माधर्मप्रतिपादकत्वा-दिति भावः । प्रमाणवाक्यस्यापि स्वमनीषोत्थत्वात् तद्व्यावृत्यर्थमाह स्वस्या एवेति ।। पुनर्वैय्यर्थादिति ।। नहि स वादोऽस्ति यः प्रज्ञापूर्वो न भवति । अन्तः पदावलीज्ञानपूर्वकत्व-नियमादिति भावः ।

कथमशोच्या इति ।। नन्वशोक्या इति युक्तम् । ऋहलोर्ण्यदिति ण्यति चजोः कुघिण्यतोरिति प्राप्तेरिति चेन्न । ण्य आवश्यक इति आवश्यकार्थे ण्ये परे कुत्वनिषेधात् । न चावश्यकार्थस्यावश्य शब्दस्याप्रयोगात् कथं ण्यस्यावश्यकार्थत्वमत्रेति वाच्यम् । प्रयोगाभावेपि आवश्यकार्थो यत्र गम्यते तादृशेऽपि ण्ये परे कुत्वं नेत्यभियुक्तैर्व्याख्यानादित्याहुः । शुचि-युज्योर्घञि इत्युपसंख्यानस्य घञ्येव कुत्वं, न ण्यतीति नियमार्थत्वादजिव्रज्योश्चेत्यत्र चकार-स्यानुक्तसमुच्चयार्थत्वाद्वात्र कुत्वाभाव इत्यप्याहुः ।। यथा श्रुतैवेति ।। नायमव्ययीभावः नपुंसकत्वापत्तेः किन्तु यथाऽनतिक्रान्तं श्रुतं श्रवणं ययेति तृतीयार्थे बहुव्रीहिः अव्ययार्थ-प्राधान्येऽव्ययीभावस्तदभावे समासान्तरमित्यस्य नियमस्य मद्राणां समृद्धिः समुद्रं समृद्धा मद्राः सुमद्रा इत्यादौ दृष्टत्वादिति बोध्यम् ।। असिद्धस्येति ।। अशोच्यप्रज्ञावत्वयोरर्जुने-नाङ्गीकृतत्वादिति भावः ।। प्रश्न इति ।। आसन्नविनाशत्वाख्य हेत्वप्रतीतिदशायामिदम् । तत्प्रतीतौ त्वाह– आक्षेप इति ।।