योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ७ ।।
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ७ ।।
भाष्यम्
एतदेव प्रपञ्चयति – योगयुक्त इति ।। सर्वभूतात्मभूतः परमेश्वरः । ‘यच्चाप्नोति’ (म.भा.) इत्यादेः । स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा ।। ७ ।।
भावप्रदीपिका
ननु कथं योगयुक्तेन संन्यासेन मोक्षः ? इत्याशङ्कोत्तर-त्वेनोत्तरश्लोकमवतारयति– एतदेवेति । ‘सर्वभूतात्मभूतात्मा’ पदमन्यथाप्रतीतिनिरासाय यथावद्व्याचष्टे सर्वेति । योगयुक्ततया कृतसंन्यासेन कर्मलेपाभावेन मोक्ष इत्यर्थः ।। ७ ।।
भावप्रकाशिका
ननु कर्मैव योगः कर्मयोगः । कर्मणश्च बन्धकत्वात् कथं तद्युक्तः संन्यासी ब्रह्म गच्छति ? इत्याशङ्कापरिहारायोक्तप्रपञ्चात्मकत्वेनोत्तरं श्लोकमवतार-यति– एतदेवेति ।। यथावद्विष्णुं ज्ञात्वा, तदर्थत्वेन कर्मकरणमित्येतत् कर्मकरणमेव कर्म-कौशलमेव योगः, न कर्ममात्रम् । अतस्तद्युक्तः संन्यासी कर्म कुर्वन्नपि न लिप्यत इति युक्तमेव । ‘विशुद्धात्मा विजितात्मा जितेन्द्रियः’ इति सन्न्यास्युच्यते । विशुद्धबुद्धित्वात् विजितमनाः । अत एव जितबाह्येन्द्रियश्च । अतः स कामक्रोधवर्जित इत्यर्थः । जीवपर-मात्मैक्यस्य लाक्षणिकत्वात् सर्वप्रमाणविरुद्धत्वाच्च, ‘सर्वभूतात्मभूतात्मा’ इत्यस्य मुख्यार्थं सर्वप्रमाणानुकूलमाह– सर्वेति ।। ७ ।।
प्रमेयदीपिका
प्रकृतप्रमेयस्य समाप्तत्वादुत्तरस्य वैय्यर्थ्यमाशङ्क्याऽह– एतदेवेति ।। योगयुक्तस्य सन्न्यासस्य महाफलत्वमेव । प्रपञ्चनं च ‘यो न द्वेष्टि’ (५.३) इत्यत्रोक्तद्वेषादिवर्जनकारणोपन्यासेन, ‘ब्रह्माधिगच्छति’ (५.६) इत्यत्रोक्तब्रह्मज्ञानावान्तर-फलोपन्यासेन चेति ज्ञातव्यम् । ‘सर्वभूतात्मभूतात्मा’ इत्यनेन ‘जीवस्य परमात्मस्वरूपत्व-मुच्यते’ इत्यन्यथाप्रतीतिनिरासायाह– सर्वेति ।। सर्वभूतानामात्मभूतः कथम्? इत्यत उक्तम्– यच्चेति ।। एतन्निर्वचनमाश्रित्य न स्वरूपत्वमित्यर्थः ।। स आत्मभूतः इति ‘सर्वभूतात्मभूतः’ इत्युक्तस्यानुवादः । ‘स्वसमीपम्’ इत्यादि द्वितीय आत्मशब्दार्थः। एवं जानन्नत्र विवक्षितः ।।७।।
भावबोधः
।। कारणोपन्यासेनेति ।। न लिप्यत इति विशुद्धात्मत्वादि-कारणोपन्यासेनेत्यर्थः । ज्ञानावान्तरफलोपन्यासेनेति ।। पापलेपाभावरूपावान्तरफलोपन्यासेनेत्यर्थः ।
भावदीपः
।। कारणोपन्यासेनेति ।। विशुद्धात्मत्वजितेन्द्रियत्वादिरूपकारणे-त्यर्थः ।। ७ ।।
भावरत्नकोशः
‘एतदेव’ इत्यस्यार्थमाह– योगयुक्तस्येति ।। उक्तस्य विस्तरेण वर्णनं हि प्रपञ्चनम् । तदस्ति प्रकृते इत्याह– प्रपञ्चनं चेति ।। कारणोपन्यासेनेति । ‘विशुद्धात्मा विजितात्मा जितेन्द्रियः’ इति यद् द्वेषादिवर्जने कारणं तदुपन्यासेनेत्यर्थः । तथा च प्राचीनटीका ‘विशुद्धात्मा विशुद्धबुद्धिः , विशुद्धबुद्धित्वात् विजितमनाः । अत एव जितबाह्येन्द्रियः । अतो द्वेषादिवर्जितः’ इति । अधिपूर्वस्य गच्छतेः ज्ञानेऽपि प्रसिद्धेरुक्तम्– ब्रह्मज्ञानेति ।। अवान्तर-फलेति । ‘कुर्वन्नपि न लिप्यते’ इति सर्वकर्मलेपाभावरूपं यद् ज्ञानावान्तरफलं तदुपन्यासेनेत्यर्थः । मोक्षस्यैव महाफलत्वाद् ‘अवान्तर’ इत्युक्तम् । ‘सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूत आत्मा प्रत्यक्चेतनः यस्य सः सर्वभूतात्मभूतात्मा’ इति सङ्करेण भाषणादाह– सर्वभूतात्मभूतात्मेत्यनेनेति । ‘इत्यादेर्निर्वचनात्’ इति संयोज्य, तत्र पञ्चमी ल्यब्लोपनिमित्ते-त्यभिप्रायेणाह– एतन्निर्वचनमाश्रित्य इति ।
‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावः तस्मादात्मेति भण्यते’
इति वचनोक्तं निर्वचनमाश्रित्य सर्वभूतानाम् आदानादिकर्तृत्वेन निमित्तेन ‘सर्वभूतानाम् आत्मभूतः’ इति परमेश्वरः प्रतिपत्तव्यः, न पुनः सर्वभूतस्वरूपत्वमाश्रित्य तथेति ज्ञातव्यमित्यर्थः । बहुमानविरुद्धत्वात् जीवपरमात्मैक्यस्येति भावः । ‘स आत्म....’ इत्यादि भाष्यं सङ्गमयति– स इत्यादि ।। ‘स्वसमीपम्’ इत्यत्र स्वशब्दो भगवत्परो भाष्ये, न त्वेवंविधसर्वभूतात्मत्वस्य । सर्वसाधारणत्वात् कथं साधकस्यैव एतद्विशेषणमित्यत आह– एवं जानन्निति ।। ‘एवं ज्ञानवान्’ इति वक्तुं शक्येऽपि ‘एवं जानन्’ इति वदन् ‘इति जानन् हि तत्त्ववित्’ इति तात्पर्यनिर्णयोदा-हृतवचनं न्यायसाम्याद् अत्राप्यनुसन्धातव्यमिति सूचयति । सर्वस्वामित्व आत्मस्वामित्वप्रकारक-भगवज्ज्ञानं च न साधारणमिति युक्तमेव साधकविशेषणमिति भावः ।। ७ ।।
गीताक्षरार्थस्तु योगयुक्तस्य संन्यासस्य महाफलत्वं यत् पूर्वश्लोकोक्तं तदेव विशुद्धात्मत्व-रूपकारणोपन्यासादिना प्रपञ्च्यते– योगयुक्त इति । कर्मयोगयुक्तः, विशुद्ध आत्मा बुद्धिः यस्य सः तथा । अत एव विजितः वशीकृतः आत्मा मनः यस्य सः तथा, तत एव जितबाह्येन्द्रियः । सर्वेषां भूतानाम् आदानादिकर्तृत्वेन आत्मत्वं स्वामित्वं प्राप्तः सर्वभूतात्मभूतः भगवान्, स आत्मा स्वामी यस्य सः सर्वभूतात्मभूतात्मा, ‘सर्वस्वामी मम स्वामी’ इति जानन् इति यावत् । कुर्वन्नपि सर्वाणि कर्माणि अनुतिष्ठन् अपि कर्मभिः न लिप्यते तत्कृतम् अशुभत्वादिकं न प्राप्नोतीति ।। ७ ।।
भावदीपिका
।। प्रकृतप्रमेयस्येति ।। योगस्य ज्ञानसाधनत्वप्रतिपादनरूप-प्रकृतप्रमेयस्येत्यर्थः ।। यो न द्वेष्टीत्यत्रोक्तेत्यादि ।। ‘यो न द्वेष्टि न काङ्क्षति’ इत्यत्रोक्तं यद् द्वेषादिवर्जनम्, तत्र यत्कारणं विजितात्मत्वादिरूपम्, तस्यात्रोपन्यासेनेत्यर्थः ।। ब्रह्माधिगच्छती-त्यत्रेति ।। ‘योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति’ इत्यन्वयप्रदर्शनेनैवं व्यवहृतमिति द्रष्टव्यम् ।। अवान्तरफलेति ।। ‘कुर्वन्नपि न लिप्यते’ इति पापाद्यलेपरूपावान्तरफलोपन्यासेनेत्यर्थः । ‘इत्यादेः’ इत्यस्य ‘इत्यादेर्निर्वचनात्’ इति ह्यर्थः ।। स आत्मभूत इत्यादि ।। गीतागतं सर्व-भूतात्मभूतपदार्थं ‘स आत्मभूत’ इत्यनेनानूद्य ‘स्वसमीपम्’ इत्यादिना द्वितीयात्मशब्दार्थं वदन्नेव विग्रहं दर्शयतीत्यर्थः । तथाच ‘स आत्मभूत’ इति भाष्यांशस्य सर्वभूतात्मभूत इत्यर्थो द्रष्टव्यः । स्वरूपतः सर्वभूतात्मभूतात्मत्वादेः पापाद्यलेपं प्रति कारणत्वाभावादाह– एवं जानन्नत्रेति ।। ७ ।।
भावप्रकाशः
।। कारणोपन्यासेनेति ।। विशुद्धात्मत्वादिकारणोपन्यासेनेत्यर्थः ।। अवान्तरफलेति ।। न लिप्यत इति पापलेपाभावरूपावान्तरफलोपन्यासेत्यर्थः । एतन्निर्वचन-मिति ।। ‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मा सतां मतः’ इति निर्वचनमित्यर्थः । नन्वेवं विधसर्वभूतात्मभूतात्मत्वस्य सर्वसाधारण्यात् कथं साधकस्यैवै-तद्विशिष्योच्यत इत्यत आह– एवं जानन्निति ।। ७ ।।