इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ।। ४० ।।
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ।। ४० ।।
भाष्यम्
वधार्थं शत्रोरधिष्ठानमाह– इन्द्रियाणीति ।। एतैः ज्ञानमावृत्य बुद्ध्यादि-भिर्हि विषयगैः ज्ञानम् आवृतं भवति ।। ४० ।।
भावप्रदीपिका
तत्पूरणेन तद्विरोधित्वं चेन्न परिह्रियते, कथं तर्हि तद्विरोधित्वपरिहारः ? इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– वधार्थमिति ।। हन्तव्य एवाधिष्ठाननियमनेनेत्यर्थः । ज्ञानमावृत्त्यान्येनैतैर्विमोहयतीति मा भूदित्याह– एतैरिति ।। कथमेतैर्ज्ञानावरणम् ? इत्यत आह– बुद्ध्यादिभिरिति ।। ४० ।।
भावप्रकाशिका
ननु पापप्रेरक एव पृष्टो न तदधिष्ठानम् । अतः किमर्थं तदुच्यते? इत्याशङ्कां परिहरन्नुत्तरश्लोकमवतार्य व्याचष्टे– वधार्थमिति ।। ‘एतैर्विमोहयति, अन्येन ज्ञानमावृत्य’ इति प्रतीतिर्मा भूदित्याह– एतैरिति ।। कथमेतैर्ज्ञानावरणम्?इत्यत आह– बुद्ध्यादिभिरिति ।। ४० ।।
प्रमेयदीपिका
‘इन्द्रियाणि’ इत्यादिकमपृष्टं किमर्थमुच्यते? इत्यत आह– वधार्थमिति ।। एतदर्थमेव ह्यर्जुनेन बलवान् पृष्टः । क्रियाद्वयश्रवणात् किं प्रतीन्द्रियादीनां करणत्वम्? इति न प्रतीयते। सन्निधानाद् विमोहनं प्रतीत्यन्यथा च प्रतीयते । अत आह– एतैरिति ।। तदुपपादयति– बुद्ध्यादिभिरिति ।। इन्द्रियादित्वेनोक्तानामपि बुद्ध्यादित्वेन ग्रहणं प्राधान्यक्रमज्ञापनार्थम् ।। ४० ।।
भावरत्नकोशः
।। एतदर्थमेव वधार्थमेव । क्रियाद्वयेति ।। विमोहन-आवरणरूपक्रियाद्वयेत्यर्थः । अप्रतिपत्तिं व्याख्यानबीजम् अभिधाय, अन्यथाप्रतिपत्तिं च तद्बीजमाह– सन्निधानादिति ।। तत्् ‘एतैर्ज्ञानमावृत्य’ इत्युक्तम् उपपादयतीति इत्यर्थः । ‘इन्द्रियाणि’ इति मूल इन्द्रियाणामादित्वावगमाद् भाष्ये कथं ‘बुद्ध्यादिभिः’ इत्युच्यते ? इत्यतस्तात्पर्यमाह– इन्द्रियादित्वेनेति ।। प्राधान्येति ।। ‘बुद्धिर्मन इन्द्रियाणि’ इत्येवं प्राधान्यज्ञापनार्थमित्यर्थः ।
गीताक्षरार्थस्तु– यः कामः पापप्रवर्तकेषु बलवान् भगवतोक्तः तस्य शत्रोर्निग्रहायाधिष्ठान-मुच्यते – इन्द्रियाणीति ।। बुद्धिर्मन इन्द्रियाणि च अस्य पापप्रवर्तकस्य कामस्य अधिष्ठानम् आश्रय उच्यते । एतैः हि एष कामो ज्ञानमावृत्य ज्ञानजन्म प्रतिबध्य उत्पन्नं च ज्ञानं कार्याक्षमं कृत्वा देहिनं विमोहयति इति ।। ४० ।।
भावदीपिका
।। एतदर्थमेवेति ।। वधार्थमेवेत्यर्थः ।। क्रियाद्वयेति ।। ‘विमोहयति’ ‘आवृत्य’ इति विमोहनावरणरूपक्रियाद्वयेत्यर्थः । कां क्रियां प्रति ।। सन्निधानादिति ।। ‘एतैर्विमोहयति’ इति शब्दसन्निधानादित्यर्थः । इन्द्रियादित्वेनेति ।। ‘गीतायाम्’ इति शेषः ।। बुद्ध्यादित्वेनेति ।। ‘भाष्ये’ इति शेषः । प्राधान्येति ।। ‘इन्द्रिय-मनोबुद्धीनां मध्ये बुद्धिरूपेन्द्रियस्य’ प्राधान्यज्ञापनार्थम् इति शेषः ।। ४० ।।