अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ।। ३ ।।
श्रीभगवानुवाच–
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ।। ३ ।।
भाष्यम्
परममक्षरं ब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् ।।
भावप्रदीपिका
मुक्तप्राप्यत्वप्रलयादिकारणतामहिमा चात्रोच्यते । तत्र प्रश्नबीजस्य स्पष्टत्वात् परिहारवाक्यव्याख्यानेनैव प्रश्नवाक्यार्थसिद्धेः परिहारं व्याख्याति– परममिति । किं ‘परम’शब्दस्य कृत्यम् ? इत्यत आह– वेदादीति । आदिपदात् प्रकृतिः ।।
भावप्रकाशिका
वेदप्रकृत्योरक्षरत्वात् ब्रह्मत्वाच्च, तद्व्यावृत्त्यर्थं ‘परम’ शब्देनाक्षरं विशिनष्टीत्याह– परममिति ।।
प्रमेयदीपिका
ननु पूर्वाध्याये ‘ते ब्रह्म’ इति निर्विशेषणमेवोपक्षिप्तम् । अत एवात्र ‘किं तद् ब्रह्म’ इति तथैव पृष्टम् । उत्तरे तु कस्मात् ‘अक्षरं परमं ब्रह्म’ इति सविशेषणमुपादीयते? इत्यत आह– परममिति ।। अक्षरस्यैव परमत्वं विशेषणम् । न ब्रह्मण इत्यर्थः । तर्हि ‘अक्षरम्’ इत्येवालम् । किं विशेषणेन? इत्यत आह– वेदेति ।। आदिपदेन प्रकृतिः गृह्यते । तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः ।।
भावदीपः
।। तदिति ।। ‘ते ब्रह्म तद्विदुः’ इति पूर्वोक्तव्याख्यानप्रसङ्गेनैवेत्यर्थः ।। तर्हीति ।। अक्षरविशेषणत्व इत्यर्थः ।।
भावरत्नकोशः
।। अत एव निर्विशेषणस्योपक्षिप्तत्वादेव । उत्तरे त्विति । प्रश्नपरिहाररूपप्रतिवाक्य इत्यर्थः । ‘पूर्वादिभ्यो नवभ्यो वा’ इति ङेः स्मिनो विकल्पेन विधानात् ‘उत्तरे’ इति साध्विति केचित् । ‘प्रतिवाक्योत्तरे समे’ इति कोशे उत्तरशब्दस्य संज्ञात्वानुशासनान्न सर्वनामतेति न कोऽपि दोष इत्यपि आहुः । व्यत्यस्यान्वयकरणतात्पर्यं कृतचोद्यापनोदायाह– अक्षरस्यैवेति । तर्हि एवमन्वयाभिप्रायाभावे, ब्रह्मपदेनैव तयोर्व्यावृत्तिर्भविष्यतीत्यत आह– तयोरपीति । वेदे ‘ब्रह्म वेदस्तपस्तत्त्वम्’ इत्यभिधानेन ब्रह्मशब्दवाच्यत्वस्य, वर्णरूपत्वेनाक्षर-शब्दार्थत्वस्य च, प्रकृतौ च ‘मम योनिर्महद्ब्रह्म’ इति, ‘तामक्षरं परं प्राहुः’ इति ब्रह्माक्षरशब्द-वाच्यत्वावगमात् तेऽप्यक्षरत्वेन प्रसक्ते । अतस्तद्व्यावर्तनाय ‘परमम्’ इत्यक्षरविशेषणमिति भावः ।।
भावप्रकाशः
।। उत्तरे त्विति ।। इहास्मात् उत्तर इत्यवध्यन्वयसम्भवेपि तन्नियमो नास्तीति व्यवस्थाभावान्न सर्वनामत्वम् । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञाया् इति गणसूत्रेण व्यवस्थायामेव तद्विधानात् । तेनोत्तरस्मिन् इति नोक्तम् । यद्वा सर्वनामत्वेपि पूर्वादिभ्यो नवभ्यो वेति स्मिनो विकल्पादुत्तर इति युक्तम् । यद्वा प्रतिवाक्योत्तरे समे इति कोशादुत्तरशब्दस्य संज्ञात्वान्न सर्वनामतेति बोध्यम् ।।