यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम् ।। ३१ ।।

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम् ।। ३१ ।।

भावरत्नकोशः

अक्षरार्थस्तु उक्तयज्ञकरणे महाफलं तदभावे अनर्थश्चोच्यते –यज्ञशिष्टेति ।। यज्ञेषु देवतायै दत्तं यद्धविः तच्छेषोऽत्रामृतम्, तद्भुजः यथोक्तान् यज्ञान् अनुतिष्ठन्त इति यावत् । सनातनं वेदप्रतिपाद्यं चिरन्तनं वा ब्रह्म यान्ति प्राप्नुवन्ति । अयज्ञस्य यथोक्तानां यज्ञानामेकोऽपि यज्ञो यस्य नास्ति सोऽयम् अयज्ञः, तस्य अयं लोकः अल्पसुखो मानुषो लोकः नास्ति । कुतः अन्यः स्वर्गादिः विशिष्टसाधनसाध्यः ? हे कुरुसत्तम इत्यर्जुनसम्बोधनम् ।। ३१ ।।