देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। १४ ।।

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तपोभेदेनापि सात्त्विकादिजीवस्वरूपभेदं ज्ञापयितुं शरीरादिभेदेन तपसस्त्रैविध्यं तावदुच्यते– देवद्विजगुरुप्राज्ञ इत्यादिभिस्त्रिभिः ।। देवाः विष्णुलक्ष्मीविरिञ्चवाणीशगिरिजेन्द्रादयः द्विजाः ब्राह्मणाः गुरवः तत्त्वस्योपदेष्टारः प्राज्ञाः तदन्ये तत्तत्त्वविदः, तेषां पूजनम् । शौचं बाह्यमाभ्यन्तरं च आर्जवं सदाचारे नित्यमेकप्रकारकत्व-रूपम् ऋजुत्वम् । ब्रह्मचर्यं गुह्येन्द्रियनियमनं शारीरं शरीरनिर्वर्त्यं तप उच्यते ।। १४ ।।