न जायते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।। २० ।।
न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे।। २० ।।
भाष्यम्
अत्र मन्त्रवर्णोऽप्यस्तीत्याह– न जायत इति ।। नचेश्वरज्ञानवद् भूत्वा भविता । तद्धि ‘तदैक्षत’ (छां.उ.६.२.३) । ‘देशतः कालतो योऽसाववस्थातः स्वतोऽ-न्यतः ।। अविलुप्तावबोधात्मा’ (भाग.३.७.५) इत्यादि श्रुतिस्मृतिसिद्धम् ।।
भावप्रदीपिका
ईशप्रतिबिम्बत्वान्नित्यो जीव इत्येतद्दृढीकर्तुं मन्त्रवर्णोऽप्यस्तीत्युत्तरश्लोकमवतार्य व्याचष्टे– अत्रेति ।। यद्ययं ‘ना’ जीवो न जायते न म्रियते, तर्हि उत्पत्तिव्यवहारः किमाविर्भावविषय इति? नेत्याह– न चेति ।। ईश्वरज्ञानस्य भूत्वैव भवनमित्यत्र प्रमाणमाह– तद्धीति ।।
भावप्रकाशिका
‘न त्वेवाहम्’ इत्यादिना यत्प्रतिज्ञातं जीवस्य नित्यत्वमीश्वरनित्यत्वदृष्टान्तेन, तदेव ‘अन्तवन्त’ इत्यादिना समर्थतिम्– प्रतिबिम्बत्वाज्जीवस्य, उपाधिनाशात् बिम्बसन्निधिनाशाद्वा नाश इत्याशङ्क्य, नित्योपाधिकत्वान्नित्यसर्वगतेश्वरप्रतिबिम्बत्वादिति ।। अधुनैतदेव दृढीकर्तु-मुदाहृतं मन्त्रवर्णमवतारयति– अत्रेति ।। अयं भावः– ‘ना’ संसारी स्वरूपेण ‘न जायते’ । देहवियोगेऽपि साकल्येन प्राणवियोगाभावात् ‘न म्रियते’ इत्युच्यते । ‘प्राणा भागतस्त्वेनमनु-गच्छन्ति सर्वदा’ इति वचनात् । ज्ञानिजीवस्यातोऽपि विशेषः । तथा हि काठकोपनिषद्भाष्ये ‘विपश्चितस्तु देहसम्बन्धाभावात् न जायते न म्रियते वा’ इति ।। न चोत्पत्तिनाशमात्रेणेश्वर-ज्ञानवदयं पूर्वं सम्पूर्ण एव सन् भविता देहसंयोगत एव । जन्यज्ञानादिबहुपरतन्त्रविशेष-लाभादिति भावेनावान्तरपदमवतारयति– न चेति ।। ईशज्ञानं तु ‘देशतः’ इत्यादिनाऽ-विलुप्तत्वेन प्रतीयमानत्वात्, ‘तदैक्षत’ इति तस्य भवनोक्तावपि पूर्वं सम्पूर्णमेव सम्भूत इत्युच्यत इत्याह– तद्धीति ।।
प्रमेयदीपिका
तथाऽपि ‘न जायते’ इति पुनरुक्तमित्याशङ्क्य नेदं भगवद्वाक्यम्, किन्तूक्तार्थे सम्मति-त्वेन मन्त्रवर्णोऽयमुदाह्रियत इत्याह– अत्रेति ।। ननु जीवः स्वरूपेण भूत्वा देहसम्बन्धेन भवितैव । तत्कथमुच्यते ‘भूत्वा भविता न’ इति? इत्यतोऽन्यथा व्याचष्टे– न चेति ।। जीवो नजायते चेत् तर्हि यथेश्वरज्ञानं वृद्धिह्रासादिवर्जितं भूत्वैव कयाचिदचिन्त्यशक्त्या भूतमिति व्यवहारा(व)लम्बनं तथा जीवेऽपि किं जननव्यवहारः तन्निमित्तः? इति पृच्छायां ‘न’ इत्यने-नोच्यत इत्यर्थः ।।
नन्वीश्वरज्ञानस्योक्तप्रकारं भूत्वाभवनं कुतः सिद्धम् । येन जीवस्य तथाभावसम्भावना-योदाह्रियत इत्यत आह– तद्धीति ।। ‘तत्’ ईश्वरज्ञानस्योक्तप्रकारं भूत्वाभवनं श्रुतिस्मृतिसिद्धं हि इति सम्बन्धः ।। ‘तदैक्षत’ इति भवनमुच्यते । देवदत्तोऽपश्यदितिवत् ।। ‘देशतः’ इति वृद्धिहासादिराहित्यम् ।।
भावरत्नकोशः
तथाऽपि पूर्वश्लोके प्राप्तायाः पुनरुक्तिशङ्कायाः नास्य नित्यत्वे तात्पर्यं किन्त्वात्महनन-प्रतीतेर्भ्रान्तित्ववर्णन एवेति परिहारेऽपि । उक्तेऽर्थे आत्मनित्यत्वे । अनेन ‘अत्र’ इति भाष्यार्थ उक्तः । मन्त्रवर्णो वेदः । स्वरूपेण भूत्वा स्वरूपेण सन्निति यावत् । तन्निमित्तः अचिन्त्यशक्तिनिमित्तः । अनेन भूत्वा भविता नेत्यनेन । उक्तप्रकारं वृद्धिह्रासोत्पत्त्यादि-वर्जितम् । उदाह्रियते भूत्वाभवनवत्तया । ईश्वरज्ञानं दृष्टान्तत्वेनोच्यते । ‘तद्धि’ इत्यत्र तदित्यस्यार्थं वदन् हिशब्दसम्बन्धं च दर्शयति– तत् ईश्वरज्ञानस्येत्यादिना ।। भवनमुच्यत इत्ययुक्तम् । धातुना दर्शनक्रियामात्राभिधानात् । ईक्ष दर्शन इति वचनात् । लङा चातीतत्व-प्रतीतेः । ‘अनद्यतने लङ्’ इति स्मृतेः । भवनस्य च न बोधकः शब्द इति तत्राऽह– देवदत्तोऽपश्यदितिवदिति ।। ‘साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धने’ इति वचनात् सर्वत्र धातुभागेन साध्यत्वोपेता क्रियोच्यते । साध्यत्वावस्थैव भवनमिति ‘ऐक्षत’ इति दर्शनं भूतमित्यर्थो लभ्यत इत्युक्तं युक्तमिति भावः । ‘वृद्धिह्रासादि’ इत्यत्र आदिशब्देनोत्पत्त्यादि-ग्रहः । अनया च स्मृत्या यथा देशकालावस्थादिभिरस्मदाद्यवबोधस्य विलोपो न तथेश्वराव-बोधस्येति प्रतीत्या अर्थाद् वृद्धिह्रासादिराहित्यमवगन्तव्यमिति भावः ।।
भावदीपिका
।। स्वरूपेण भूत्वेति ।। स्वरूपेण विद्यमान एवेत्यर्थः । वर्जितं भूत्वा वर्जितं सद् विद्यमानमेव । कयाचित् लोकविलक्षणया । तन्निमित्तः अचिन्त्यशक्तिनिमित्तः । उक्तप्रकारं वृद्धिह्रासवर्जितसद्विद्यमानत्वस्यैवाचिन्त्यशक्तिनिमित्तकत्वरूपम् । कुतः प्रमाणात् ।। तथा-भावेति ।। भूत्वाभवनेत्यर्थः ।। भवनमिति ।। सर्वदा ज्ञानवत ईश्वरस्य ‘ऐक्षत’ इति यज्ज्ञानस्य भवनमुच्यते भूतं जातमित्युच्यते इति तत् सदा विद्यमानस्येदं कादाचित्कं भवनमचिन्त्यशक्तिं विना नोपपद्यत इत्यर्थः । ऐक्षतेति लङा ज्ञानस्य भूतत्वमेवोच्यते न त्विदानीं भवनम् । अत एतदर्थे ‘तदैक्षत’ इति श्रुत्युदाहरणमयुक्तमित्यतो लङन्तादपि वर्तमानार्थः प्रतीयते, इत्यत्रो-दाहरणमाह– देवदत्त इति ।।
भावप्रकाशः
नन्वैक्षतेत्यत्र धातुना दर्शनमात्रमुच्यते । ईक्षदर्शन इत्युक्तेः । लङा तु अतीतत्वम् । अनद्यतने लङिति स्मृतेः । भवनं तु न केनापि । तत्कथं तदैक्षतेति भवनमुच्यत इत्युक्तमित्यत आह– देवदत्तोऽपश्यदितिवदिति ।। सर्वत्र धातुभागेन साध्यत्वोपेता क्रियोच्यते । यथोक्तं धात्वर्थेन क्रिया तत्र धातुरूपनिबन्धनेति अतो भवनमुच्यत इत्युपपन्नमिति भावः । वृद्धि-ह्रासादिति ।। आदिपदादुत्पत्त्यादिसङ्ग्रहः । देशत इति स्मृत्या यथा देशकालादिभि-रस्मदाद्यवबोधस्य लोपो न तथा भगवदवबोधस्येत्युक्तयाऽर्थाद्वृद्ध्याद्यभावावगमादिति भावः ।।