ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।। २५ ।। अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।। २६ ।।
ध्यानेनाऽत्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।। २५ ।।
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ।। २६ ।।
भाष्यम्
साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन । कर्मिणामपि श्रुत्वा ज्ञात्वा ध्यात्वा दृष्टिः । श्रावकाणां च ज्ञात्वा ध्यात्वा । साङ्ख्यानां च ध्यात्वा । तथा च गौपवनश्रुतिः–
‘कर्मकृच्चापि तच्छ्रुत्वा ज्ञात्वा ध्यात्वाऽनुपश्यति ।
श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति ।
अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते’ इति ।
‘अन्ये’ इत्यशक्तानामप्युपायदर्शनार्थम् ।। २५,२६ ।।
भावप्रदीपिका
साङ्ख्यशब्दस्यार्थम् अन्यथाप्रतीतिनिरासायाह– साङ्ख्ये-नेति । ‘ध्यानेनात्मनि’ इति ध्यानस्य दृष्टिसाधनत्वमुक्त्वा अन्यदपि दर्शनसाधन-मुच्यत इति प्रतीतिनिरासायाह– कर्मिणामिति । ज्ञान्यपि ध्यात्वेत्यर्थः । तर्हि सर्वेषामेकमार्गत्वादन्य इति किमर्थम् ? इत्यत आह– अन्य इति ।। २५,२६ ।।
प्रमेयदीपिका
‘अन्ये साङ्ख्येन योगेन’ इत्यत्र ‘कापिलतन्त्रोक्तप्रकृति-पुरुषविवेकज्ञानं साङ्ख्यम्’ इति व्याख्यानम् असत् । कापिलतन्त्रस्यावैदिकस्यात्र ग्रहणायोगात् । तस्य भगवद्दर्शने प्रधानसाधनत्वायोगाच्चेति भावेन अन्यथा व्याचष्टे– साङ्ख्येनेति ।। ज्ञानेन परोक्षज्ञानेन । ‘ध्यानेन’ इत्यत्र ‘ध्यानादीनां केवलानामेवेश्वर-दर्शनसाधनत्वमुच्यते’ इत्यन्यथाप्रतीतिनिरासार्थमाह–कर्मिणामिति ।। दृष्टिः ‘प्राप्या’ इति शेषः । पाठक्रमादर्थक्रमस्य प्राधान्याद् व्युत्क्रमेणोक्तिः । कुत एतत्? इत्यत आह– तथा चेति ।। ‘ध्यात्वा’ इत्येतत् ‘ज्ञान्यपि’ इत्युत्तरेणापि सम्बद्ध्यते ।।
ननु सर्वत्र सर्वस्य संयोजने सत्येक एवायं प्रकारः स्यात् । तथाच ‘केचित्’ ‘अन्ये’ ‘परे’ इत्युक्तमयुक्तं स्यादित्यत आह– अन्य इति ।। ध्यानादावुत्तरोत्तरसाधने साक्षादशक्तानामपि तत्तदुपायज्ञानादिप्रदर्शनार्थमवस्थाभेदमाश्रित्य ‘अन्ये’ इत्याद्युक्त-मित्यर्थः ।। २५,२६ ।।
भावबोधः
।। तस्येति ।। प्रकृतिपुरुषविवेकज्ञानस्येत्यर्थः । ननु गीतायाम् ‘अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे । अन्य ेत्वेवमजानन्तः श्रुत्वाऽन्येभ्यः’ इति साङ्ख्यानन्तरं कर्मश्रवणयोरुक्तत्वात् भाष्ये कथमन्ते साङ्ख्यस्योक्तिरित्यत आह– पाठ-क्रमादिति ।। व्यावधानबाहुल्यक्रम एवार्थक्रमो विवक्षित इति भावः ।। २५ ।।
भावदीपः
ननु ‘ध्यानेनात्मनि पश्यन्ति’ इत्यस्य ‘अन्ये साङ्ख्येन’ इति श्लोकात् पूर्वभावित्वात् तदर्थः ‘साङ्ख्येन’ इति श्लोकार्थोक्त्यनन्तरं ‘साङ्ख्यानां च ध्यात्वा’ इति कथमुक्तो भाष्य इत्यत आह– पाठक्रमादिति ।। कर्मिणो हि श्रवणं, श्राविणो हि साङ्ख्य-शब्दितं परोक्षज्ञानं, ज्ञानिनो हि ध्यानं, ज्ञानाद् ध्यायिनो दृष्टिर्भवतीत्यर्थक्रमस्य गीतोक्त-पाठक्रमात् ‘अग्निहोत्रं जुहोति’ ‘यवागुं पचति’ इत्यत्रेव प्राधान्याद् व्युत्क्रमोक्तिर्भाष्य इत्यर्थः ।। ‘ध्यानेन’ इति त्रिपादी ‘उपासते’ इत्यनन्तरं पठितव्याऽपि दृष्टेरव्यवहितसाधनत्वात् पूर्वं पठितेति भावः ।। ध्यानादाविति ।। ज्ञानध्यानश्रवणकर्मसु उत्तरोत्तरसाधने ध्याने साक्षाद् अशक्तानां परोक्षज्ञानसम्पादनमुपायः, तत्र अशक्तानां श्रवणे, तत्राप्यशक्तानां कर्मणि इति ध्यानाद्युपायज्ञानादिप्रदर्शनार्थमेव कर्मित्वश्रावकत्वाद्यवस्थाभेदमाश्रित्येत्यर्थः ।। २५,२६ ।।
भावरत्नकोशः
।। अत्र भगवज्ज्ञानसाधनप्रस्तावे । तस्य प्रकृति-पुरुषविवेकज्ञानस्य । प्रधानेति ।।
‘श्रवणं मननं चैव ध्यानं भक्तिस्तथैव च ।
साधनं ज्ञानसम्पत्तौ प्रधानं नान्यदिष्यते ।।’
इति वचनादिति भावः । अत्र ज्ञानशब्देन मुख्यतयाऽपरोक्षज्ञानग्रहणे ‘पश्यन्ति’ इत्य-नन्वितम् इत्यतो विवक्षितार्थमाह– ज्ञानेन परोक्षेणेति ।। केवलानाम् असहायानाम् । ‘केचित्’ अन्ये’ इत्यादिश्रवणादिति भावः । ‘कर्मिणां कर्मयोगिनाम्’ इति भाष्ये कृत्यानां कर्तरि वा इति षष्ठी । ननु गीतायाम्–
‘ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।’
‘अन्ये साङ्खेन योगेन कर्मयोगेन चापरे ।
‘अन्ये त्वेवम् अजानन्तः श्रुत्वाऽन्येभ्य उपासते ।’
इति ध्यानयोगसाङ्ख्ययोगकर्मयोगश्रवणयोगाः क्रमेण पठ्यन्ते । भाष्ये तु ‘कर्मिणाम्’ इति कर्मयोग आद्यः, ‘श्रावकाणाम् इति श्रवणयोगो द्वितीयः, ‘साङ्ख्यानाम्’ इति भगवत्स्वरूप-परोक्षज्ञानशाब्दितसाङ्ख्ययोगस्तृतीयः, ‘ध्यात्वा दृष्टिः प्राप्या’ इति ध्यानयोगस्तुरीय इत्येवं कर्म श्रवणज्ञानध्यानानाम् अपरोक्षज्ञानं प्रति क्रमेण साधनत्वमिति लभ्यते । एवं क्रमव्यत्यासेनोक्तिः किंनिबन्धना इत्यत आह– पाठक्रमादिति ।। ‘अग्निहोत्रं जुहोति’ ‘यवागूं पचति’ इत्यत्रेवार्थक्रमप्राधान्यमनुरुध्य भाष्यकारसूक्तिः प्रवृत्तेत्यर्थः ।
भाष्ये ‘ध्यात्वा दृष्टिः प्राप्या’ इत्युभयत्रानुवर्तते । सम्बध्यते ज्ञान्यपि वेदोक्त-भगवत्स्वरूपपरोक्षज्ञान्यपि ध्यात्वा पश्यतीति सम्बध्यत इत्यर्थः । सर्वस्य ‘कर्मणः’, ‘श्रवणस्य, ‘ज्ञानस्य च इति सर्वस्य संयोजने साधनत्वेनानुषङ्गे ग्राह्ये । उत्तरोत्तरेति ।। ध्यानज्ञानश्रवणकर्मरूपसाधनवर्गे । साक्षाज्ज्ञाने अशक्तानां परोक्षज्ञानमुपायः । परोक्षत्व-निश्चयापादनासमर्थानां श्रवणम् उपायः । तत्राप्यसमर्थानां निवृत्तकर्मोपाय इति तत्तदुपाय-ज्ञानादिप्रदर्शनार्थमेव कर्मित्वश्रावकत्वज्ञानित्वध्यानित्वलक्षणावस्थाभेदमाश्रित्य ‘अन्ये’ ‘परे’ ‘केचित्’ इत्युक्तमित्यर्थः ।। २६ ।।
गीताक्षरार्थस्तु– परमपुरुषादिदर्शने किं साधनम् इत्यपेक्षायामुच्यते– ध्यानेनेति ।। केचित् पुमांसः कृतशास्त्रश्रवणमननाः ध्यानेन आत्मना मनसा आत्मनि हृदये आत्मानं परमात्मानं पश्यन्ति । अन्ये साङ्ख्येन वेदोक्तभगवत्स्वरूपपरोक्षज्ञानलक्षणेन योगेन उपायेन ‘ध्यानेन’ इत्यनुकृष्यते, चशब्द आकृष्यते । ध्यानेन चात्मानं पश्यन्ति । अपरे कर्मयोगेन साधुकर्मानुष्ठानापादितभगवत्प्रसादेन, श्रवणमननजन्यसाङ्ख्यशब्दित भगवत्स्वरूपपरोक्षज्ञानेन, ‘ध्यानेन’ इत्यनुषज्यते आत्मानं पश्यन्ति ।। २५ ।।
अन्ये मनुष्यास्तु, अत्र तुशब्दः ध्यानसाङ्ख्यकर्मयोग्यपेक्षया वैशेष्यद्योतनाय । एवं ध्यानादियोगिवद् आत्मानम् अजानन्तः अन्येभ्यो गुरुभ्यः श्रुत्वा मत्वा च उपासते ध्यायन्ति ‘ततः पश्यन्ति च’ इति योज्यम् । तेऽपि एवंविधा अपि श्रुतिपरायणाः श्रुतिः श्रवणं परायणत्वं एकाश्रयत्वम् श्रवणभूमवन्तः सन्तः । एवं मृत्युं तदुपलक्षितं संसारम् अतितरन्ति ।।
ननु ध्यानादियोगिनामपि श्रवणादिसद्भावाभिप्राये, मनुष्याणां ‘श्रुत्वाऽन्येभ्य उपासते’ इति विशिष्योक्तिर्न युक्तेति चेन्न । तेषामत्यल्पप्रतिभानत्वेन श्रवणबाहुल्यसद्भावाशयेन विशिष्यो-क्त्युपपत्तेः । कथं मनुष्याणाम् अत्यल्पाऽपि प्रतिभा युज्यते । ‘श्रुतिपरायणाः’ इति श्रवणै-काश्रयत्वस्य स्फुटमवभासात् इति चेन्न । मनुष्याणाम् अत्यल्पप्रतिभासद्भावेऽपि ‘श्रुतिपरायणाः’ इति विशेषणं युक्तम् । तत्प्रतिभाया मूलप्रमाणापेक्षत्वेन स्वातन्त्र्याभावात् । प्रायेणासम्य-क्त्वाच्च । अस्वतन्त्रे असाधुनि च असत्त्वोक्तिदर्शनादित्युत्तरप्रस्थाने स्फुटम् । ननु ध्यानादि-योगिषु सर्वत्र श्रवणादेः संयोजने सति, एक एवायं प्रकारः स्यात् । तथा च ‘केचित्’, ‘अन्ये’, ‘परे’ इत्युक्तिः अयुक्ता स्यादिति चेन्न । ध्यानादावुत्तरोत्तरसाधने साक्षादशक्तानामपि तत्तदुपायज्ञानप्रदर्शनार्थमेव अवस्थाभेदमाश्रित्य ‘अन्ये’ इत्याद्युक्तेरुपपत्तेरिति भाष्यटीकयोर्व्यक्तम्
।। २६ ।।
भावदीपिका
।। तस्येति ।। प्रकृतिपुरुषविवेकज्ञानस्येत्यर्थः । ननु गीतायाम्,
‘अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ।
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।।’
इति साङ्ख्यानन्तरं कर्मश्रवणयोरुक्तत्वात् भाष्ये ‘साङ्ख्यानां च’ इति कथमन्ते साङ्ख्योक्तिः इत्यत आह– पाठेति ।। अर्थक्रमशब्देन व्यवधानबाहुल्यक्रमो विवक्षित इति ध्येयम् । ज्ञान्य-पीत्यनेनापीति ।। ‘न केवलं ज्ञात्वा’ इत्यनेनेत्यर्थः । तथा ‘न ज्ञान्यपि ध्यात्वा पश्यति’ इति सम्बन्धो द्रष्टव्यः । उत्तरोत्तरेति ।। परोक्षज्ञानाद्यपेक्षयोत्तरोत्तरेत्यर्थः । तत्र ध्यानं ज्ञानोत्तरम्, ज्ञानं श्रवणोत्तरम्, श्रवणं च कर्मोत्तरमिति विवेको द्रष्टव्यः । तत्तदिति ।। ध्यानादीत्यर्थः । अवस्थेति ।। एकस्यैव कर्मित्वश्रावकत्वज्ञानित्वध्यानित्वरूपावस्थाभेद इत्यर्थः
।। २५,२६ ।।
भावप्रकाशः
।। तस्येति ।। प्रकृतिपुरुषविवेकज्ञानस्येत्यर्थः । ननु गीतायाम्–
‘अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे । अन्ये त्वेवमजानन्तः श्रुत्वा’
इति साङ्ख्यानन्तरं कर्मश्रवणयोरुक्तत्वात् व्युत्क्रमेण भाष्ये कथमभिहितमित्यत आह– पाठक्रमादिति ।।
पञ्चमे प्रथमपादेऽर्थाच्चेत्यत्र चिन्तितम् । यवाग्वाऽग्निहोत्रं जुहोति । यवागूं पचतीति श्रूयते । अत्र किं पाठक्रमः किं वाऽर्थत इति संशयः । गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीत्यद्युक्तगृहपत्यादिदीक्षासु पाठक्रमस्यैवोदाहृतत्वाद्धोमपाकयोरपि स एव क्रम इति पूर्वः पक्षः । सिद्धान्तस्तु । यथापाठमनुष्ठाने क्लृप्तप्रयोजनबाधः । होमार्था यवागूः । यवाग्वेति तृतीयाश्रुतेः । यवाग्वर्थं च पाकः। अतः पाकस्य पश्चादनुष्ठाने यवाग्वाः होमार्थत्वबाधः । किञ्च यथापाठक्रममनुष्ठाने पाकस्यादृष्टार्थत्वं स्यात् । न हि होमानन्तरं क्रियमाणस्य किञ्चित् दृष्टं प्रयोजनमस्तीति । तथा चैतदधिकरणोक्तन्यायेनार्थक्रमस्य प्राधान्यात् क्रमपठितयोरपि होम-पाकयोः यथा व्युत्क्रमेणानुष्ठानं तथा प्रकृतेऽपि व्युत्क्रमेणोक्तिः । निवृत्तकर्मश्रवणज्ञानध्याना-परोक्षज्ञानानां क्रमिकत्वादिति भावः । ननु ये कर्मानुष्ठानादौ शक्ताः तेऽपि तद्द्वारा ध्यानादि-शक्ता एवेत्यत उक्तम्– साक्षादिति ।। २५ ।।