तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।। १ ।।

अथ द्वितीयोऽध्यायः

सञ्जय उवाच–

तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः।। १ ।।

भावरत्नकोशः

अक्षरार्थस्तु– ततः किं वृत्तमिति धृतराष्ट्रस्याऽकाङ्क्षां सञ्जयोऽपूरयदित्युच्यते– सञ्जय उवाच । तं तथेति ।। तथा कृपया दृष्ट्वेममित्याद्युक्तप्रकारया आविष्टम् अश्रुपूर्णाकुलेक्षणं नेत्रजलपूर्णे अत एव आकुले ईक्षणे यस्य तं विषीदन्तमर्जुनं प्रति मधुसूदन इदं वाक्यमुवाच ।