दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ।। २५ ।।
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ।। २५ ।।
भाष्यम्
यज्ञभेदानाह – दैवम् इत्यादिना ।। दैवं भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनं यज्ञम् इति क्रियाविशेषणम् ।।
भावप्रदीपिका
कर्मणः सत्कर्मप्रकारमुक्त्वा तत्स्वरूपप्रदर्शनपरतयोत्तर-प्रघट्टकमवतारयति – यज्ञेति ।। अत्र ‘यज्ञ’शब्देन त्रिविधमपि कर्म । ‘तपोयज्ञाः’ इत्यादि-नेतरयोर्यज्ञान्तर्भावात् । देव्या विशेषोऽयं यज्ञ इति भ्रान्तिर्मा भूदित्याह – दैवमिति ।। ननु यदि भगवन्तमुपासत इत्यर्थः, तर्हि यज्ञो नोक्तः स्यादित्यत आह – स एवेति । स एव इति कः ? इत्यत आह– भगवदिति । तर्ह्यत्र ‘यज्ञ’शब्दान्वयः कथमित्यत आह– यज्ञमिति ।।
भावप्रकाशिका
‘कुरु कर्म’ इत्युक्त्वा, तस्य कर्मणः स्वरूपमभिहितं ‘कर्मणि’ इत्यादिना । तदपि यज्ञदानाद्यात्मकम् । तत्रायज्ञस्यायं परं च लोकः सुखवासो न भवतीति ज्ञापयितुं, सर्वाश्रमियोग्यान् यज्ञविशेषानाहेत्यभिप्रायेणोत्तरं प्रघट्टकमवतारयति– यज्ञभेदानिति ।। ‘दैव’ शब्दस्येष्टावाचित्वात् ‘देवा इज्यन्ते यस्मिन् यज्ञे स दैवयज्ञः’ इत्यन्यैर्व्याख्यातत्वाच्च, पक्षद्वयप्रतीतावत्र भगवद्विवक्षितं दैवशब्दार्थं तावदाह– दैवमिति ।। ननु यदि दैवशब्दोक्तं भगवन्तमुपासत इति वाक्यार्थः, न तु दैवाख्यं यज्ञं कुर्वत इति, तर्हि कथं यज्ञभेदा उच्यन्तेऽस्मिन् प्रघट्टके ? इत्यत आह– स एवेति ।। ननु ‘सः’ इत्यनेन भगवत्तदुपासनयोर्मध्ये किं परामृश्यते ? इत्यत आह– भगवदुपासनमिति ।। नन्वस्मिन् पक्षे कथं यज्ञशब्दान्वयः ? इत्यत आह– यज्ञमिति ।। उपासनं यथा यज्ञो भवति तथोपासत इत्यर्थः ।
प्रमेयदीपिका
उत्तरप्रकरणप्रतिपाद्यं बुद्ध्यारोहार्थमाह– यज्ञेति ।। सामान्यतः कर्मस्वरूपमुक्तम् । तच्च यज्ञादिभेदभिन्नम् । तत्र ‘नायं लोकोऽस्ति’ (४.३१) इति वक्ष्यति । तदनुपपन्नम् । ‘यत्याद्याश्रमविलोपप्रसङ्गाद् इत्याशङ्कानिरासार्थम्’ इति शेषः । तत्र ‘दैवं देवविषयम्’ इति व्याख्यानमसत् । ‘द्रव्ययज्ञाः’ (४.२८) इत्यस्य पुनरुक्तत्वादिति भावेनाऽह– दैवमिति ।। एवंतर्हि ‘केचित् भगवन्तमुपासते’ इत्युक्तं स्यात् । तथाच नेयं प्रतिज्ञातोक्तिरित्यत आह– स एवेति ।। स इति परामृष्टं दर्शयति– भगवदिति ।। भगव-दुपासनस्य यज्ञत्वमिह कथं लभ्यते? इत्यत आह– यज्ञमिति ।। ‘भगवत्’ इत्यादिकं क्रिया-विशेषणत्वप्रदर्शनार्थमेकमेव वाक्यम् ।। साधनं परित्यज्य धात्वर्थमात्रस्य विशेषणं (हि) क्रियाविशेषणम् ।।
भावबोधः
।। द्रव्ययज्ञा इत्यस्येति ।। दैवं देवविषयं, यज्ञमुपासते कुर्वन्तीति व्याख्याने एतस्याऽपि द्रव्ययज्ञोक्तित्वपर्यवसानादिति भावः । क्रियाविशेषणत्वप्रदर्शनार्थमिति ।। यज्ञमित्यस्य भगवदुपासनाख्यक्रियाया विशेषणार्थमित्यर्थः । एकवाक्यत्वाभावे यज्ञमित्येतत् कस्याः क्रियाया विशेषणमिति न ज्ञायते इति भावः ।। ननु तर्हि भाष्ये यज्ञमिति, पर्युपासते इति क्रिया-विशेषणमिति वक्तव्यम् । तत्कथं भगवदुपासनमित्युक्तमित्यत आह – साधनं च परित्यज्येति ।। आख्यातार्थकर्त्रादिसाधनं परित्यज्येत्यर्थः । अनेन यज्ञमिति, भगवदुपासनमिति क्रिया-विशेषणमितीतिशब्दावर्तनेन भाष्ययोजना सूचिता ।।
भावदीपः
।। कर्मस्वरूपमुक्तमिति ।। भगवदधीनकर्तृत्वानुसन्धानपूर्वं तत्प्रीत्युद्देशेन वर्णाश्रमविहितानुष्ठानं कर्मेति सामान्यतः कर्मस्वरूपं ‘कर्मणि’ इत्यादिनोक्तमित्यर्थः ।। वक्ष्यतीति ।। ‘अत्रैवाध्याये’ इति योज्यम् ।। इत्यस्य पुनरुक्तत्वादिति ।। द्रव्ययज्ञस्यापि देवतोद्देशेन द्रव्यत्यागरूपतया देवताविषयत्वादिति भावः ।। क्रियाविशेषणत्वेति ।। भगव-दुपासनारूपक्रियां प्रति ‘यज्ञम्’ इत्यस्य विशेषणत्वप्रदर्शनार्थम् । अत एव ‘यज्ञम्’ इति नपुंसकम् । नन्वेवं ‘भगवन्तमुपासते यज्ञं यथा तथा’ इति वक्तव्ये भगवदुपासनम् इति कथमनुवादः ? इत्यत आह– साधनमिति ।। लिङादिप्रत्ययोत्पत्तौ यत्साधनं कर्तृकर्मादि तत्त्यागे-नेत्यर्थः । अत एवमनुवादः क्रियत इति भावः ।।
भावरत्नकोशः
यज्ञभेदवचनस्य का सङ्गतिरिति शङ्कां परिहर्तुं भाष्ये शेषमाह– सामान्यत इत्यादि ।। सङ्क्षेपविस्तराभ्यां कर्मत्वेन रूपेण कर्मस्वरूपं ‘कर्मण्यकर्म’ इत्यदि-नोक्तमित्यर्थः । तत्र यज्ञादिषु यज्ञविषये । यत्याद्याश्रमेति ।। तत्र यतीनां निष्क्रियत्वात्, वनस्थानां प्रायेण तत्समानधर्मत्वादिति भावः । देवविषयं देवोद्देश्यकम् । पुनरुक्तत्वादिति ।। देवतोद्देशेन द्रव्यपरित्यागस्यैव द्रव्ययज्ञशब्दार्थत्वेन पुनरुक्तिप्रसङ्गादित्यर्थः । देवशब्दात् प्रज्ञादिलक्षणे स्वार्थेऽणि दैवशब्दः देवार्थः । देवश्च–
‘द्योतनाद्विजयात्कान्त्याः स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यम्’
इति ऋग्भाष्यरीत्या भगवानेवेति ‘दैवं भगवन्तम्’ इत्युक्तं भाष्ये । ‘अपरे’ इत्यस्यार्थानुवादः केचिदिति । इह ‘दैवमेवापरे यज्ञम्’ इत्यत्र । क्रियाविशेषणत्वेति ।। ‘भगवदुपासनं यज्ञम्’ इति भगवदुपासनरूपक्रियाविशेषणत्वं ‘यज्ञम्’ इत्यस्य प्रदर्शयितुं एकमेव वाक्यं भाष्ये द्रष्टव्यम् । एकवाक्यत्वाभावे कस्याः क्रियायाः इदं विशेषणमिति मन्दाः व्याकुलाः स्युरिति भावः । एकवाक्यत्वे क्रियाविशेषणत्वं प्रदर्शितं भवतीत्युपपादयति– साधनमिति ।। तिङाद्युत्पत्तौ यत् साधनं कर्तृकर्मादि तत् परित्यज्य यद् धात्वर्थमात्रस्य विशेषणं विज्ञायते तद्धि क्रियाविशेषण-मित्यर्थः । अत एव नपुंसकत्वमपीति भावः । तिङाद्युत्पत्तौ कर्त्रादेः साधनत्वं च ‘लः कर्मणि च भावे चाकर्मकेभ्यः’ इति शास्त्रसिद्धमिति द्रष्टव्यम् ।।
भावदीपिका
।। वक्ष्यतीति ।। ‘नायं लोकोऽस्त्ययज्ञस्य’ इति यज्ञशून्यस्य निन्दया यज्ञस्याऽवश्यकत्वं वक्ष्यतीत्यर्थः ।। विलोपप्रसङ्गादिति ।। तत्र यज्ञाभावादिति भावः ।। द्रव्ययज्ञा इत्यस्येति ।। ‘दैवं देवविषयं हविस्त्यागादिरूपं यज्ञमुपासते कुर्वन्ति’ इति व्याख्याने ‘द्रव्ययज्ञा’ इत्युक्तद्रव्ययज्ञस्यापि देवविषयकत्वेन पुनरुक्तताप्रसङ्गादित्यर्थः ।। प्रतिज्ञातोक्तिः यज्ञभेदोक्तिः । यज्ञोक्तिरित्यपि पाठः । क्रियाविशेषणत्वप्रदर्शनार्थमिति ।। ‘यज्ञम्’ इत्यस्य भगवदुपासनाख्यक्रियां प्रति विशेषणत्वप्रदर्शनार्थमित्यर्थः । एकवाक्यत्वाभावे ‘यज्ञम्’ इत्येतत् कस्याः क्रियायाः विशेषणमिति न ज्ञायत इति भावः । ननु तिङादिप्रत्ययार्थभूतकर्त्रादि-साधनविशिष्टप्रातिपदिकस्यैव क्रियात्वं दृष्टम् । प्रकृते च ‘उपासते’ इत्यस्यैव क्रियात्वेन ‘यज्ञम्’ इत्यस्य तद्विशेषणत्वे उपासनाकर्तुर्यज्ञत्वं स्यादित्यत आह– साधनं परित्यज्येति ।।
तिङाद्याख्यातार्थभूतकर्त्रादिकारकं परित्यज्येत्यर्थः ।। धात्वर्थेति ।। प्रकृते च धात्वर्थ उपासनम् । एवं च ‘यज्ञम्’ इति ‘भगवदुपासनम्’ इति ‘क्रियाविशेषणम्’ इति शब्दावर्तनेन भाष्ययोजना सूचिता भवति । ततश्च दैवं भगवन्तमुपासते, तदुपासनं यज्ञो यथा स्यात्तथा कुर्वन्तीति गीता योज्या । क्रियाविशेषणत्वाद् ‘यज्ञम्’ इति नपुंसकनिर्देश इति द्रष्टव्यम् ।।
भावप्रकाशः
।। द्रव्ययज्ञा इत्यस्येति ।। दैवं देवविषयं यज्ञं उपासते कुर्वन्तीति व्याख्यानेऽस्यापि द्रव्ययज्ञोक्तित्वपर्यवसानादिति भावः । क्रियाविशेषणत्वेति ।। यज्ञमित्यस्य भगवदुपासनाख्यक्रियाविशेषणत्वप्रदर्शनार्थमित्यर्थः । एकवाक्यत्वाभावे यज्ञमित्येतत् कस्याः क्रियाया विशेषणमित्यनवगमादिति भावः । नन्वेवं तर्हि भाष्ये यज्ञमिति पर्युपासत इत्युक्त-क्रियाविशेषणमिति वाच्यम् । तत्कथं भगवदुपासनमित्युक्तमित्यत आह– साधनं परित्यज्येति ।। आख्यातार्थकर्त्रादिकारकं परित्यज्येत्यर्थः । अनेन यज्ञमिति भगवदुपासनमिति क्रियाविशेषण-मित्येवमितिशब्दावृत्त्या भाष्ययोजना सूचिता ।।