कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।। ४ ।।

अर्जुन उवाच

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।। ४ ।।

भावरत्नकोशः

अक्षरार्थस्तु– पुनरपि स्नेहकारुण्यधर्मतयाऽऽकुलेन भगवदुक्तं हितमजानतेव अर्जुनेनोच्यते– कथम् इत्यादिपञ्चश्लोक्या ।। सङ्ख्ये युद्धे । प्रतियोत्स्यामि आभिमुख्येन योत्स्ये । पूजार्हाविति हेत्वर्थगर्भं भीष्मद्रोणविशेषणम् ।। ४ ।।