एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्।। १५ ।।

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।

कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्।। १५ ।।

भाष्यम्

एवं ज्ञात्वा अपि कर्मकरण आचारोऽप्यस्तीत्याह – एवमिति ।। पूर्वतरं कर्म पूर्वभावीत्यर्थः ।। १५ ।।

भावप्रदीपिका

ननु यद्येवं ज्ञानादेव मोक्षः, तर्हि मुमुक्षुरहं किमिति कर्मकर्ता ? इति पूर्वोक्तं विस्मृत्य मा चोदयेत्यभिप्रायेणोत्तरश्लोकमवतार्य व्याचष्टे – एवमिति ।। १५ ।।

भावप्रकाशिका

ननु ‘अजोऽपि’ इत्युक्तलक्षणपरब्रह्मतत्त्वापरोक्षज्ञान्येवार्जुनो मुमुक्षुश्च, इन्द्रावतारत्वात् । ‘नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः ‘इत्यादिश्रुतेः । अतः कथं ‘स एवायं मया तेऽद्य योगः प्रोक्तः’ इति भगवताऽत्युत्तमकर्मयोग उपदिश्यते ? इत्याशङ्कां सूचयन् तत्परिहारत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे – एवमिति । भवतु मुमुक्षुरपरोक्षज्ञानी च । तथाऽपि ज्ञानाङ्गत्वेन तत्पूर्वमवश्यम्भावि यत्कर्म, यज्ज्ञात्वाऽपि कुर्वेव । न तूष्णीं तिष्ठ । फलेऽतिशायकत्वात् तस्य । न ह्यन्यथा पूर्वे मुमुक्षवो ज्ञात्वाऽपि कर्म कुर्वन्तीत्यर्थः ।। १५ ।।

प्रमेयदीपिका

ननु ‘एवं ज्ञात्वा’ इति पुनरुक्तम् । कर्मकरण आचारस्य प्रागेवोक्तत्वादित्यत आह– एवमिति ।। यदि ज्ञानी कर्मभिर्न बद्ध्यते तर्हि ममापि ज्ञानित्वेन कर्मबन्धाभावात् कथं कर्मविधानम्? इत्याशङ्क्य ज्ञानिनामप्यधिकमोक्षाकाङ्क्षया कर्मकरणे आचारोऽत्रोच्यते । प्राक् तु जनकादीनां विवस्वदादीनां च विद्यमानमपि ज्ञानित्वं भगवता न विवक्षितमिति भावः ।

अत एव भाष्यकारेण तत्र ‘कर्म कृत्वैव’ (गी.भा.३.२०) इत्याद्युक्तम् । न हि ज्ञानिनां कर्म ज्ञानद्वारा मुक्तिहेतुः । ‘मुमुक्षुभिः’ इति ‘तत्साधुकारिणि’(पा.सू.३.२.१३)उप्रत्ययः । ‘पूर्वैः कृतम्’ इत्यनेनैव पूर्वतरत्वस्योक्तत्वात् पुनरुक्तिरित्यत आह – पूर्वतरमिति ।। तैरपि ततोऽपि पूर्वभाविकृतमित्यर्थः । कर्मणः क्षणिकत्वात् कथं तदेव कर्तव्यमित्यतो वा इदमुक्तम् । पूर्वमिव भवतीति पूर्वभावि । अत एव कर्म इत्यनुवादः ।। १५ ।।

भावबोधः

ननु तर्हि गीतायाम् आनन्दाभिवृद्धीच्छुभिरिति वक्तव्यम् । मुमुक्षुभिरिति कथमुक्तमित्यत आह– तत्साधुकारिणीति ।। यावत्स्वरूपानन्दाविर्भावे सत्येव मोक्षस्य साधुत्वं, नान्यथेति भावः ।।

भावदीपः

।। कर्मकरणे इति सप्तम्यन्तम् । उक्तत्वादिति ।। ‘इमं विवस्वते’ (४.१) इत्यादिनेति भावः ।। ‘इति माम्’ इत्यादि पूर्वश्लोकोत्तरार्धानुवादः– यदीत्यादि ।। अत एवेति ।। ज्ञानित्वस्य विवक्षितत्वादेवेत्यर्थः । तस्य विवक्षायां तु कर्माकरणेऽपि ‘अनियमः सर्वेषाम्’ (ब्र.सू.३.३.३२) इति सूत्रोक्तदिशा मुक्तिसिद्धेः ‘कर्म कृत्वैव’ इति कर्मकरण-नियमोक्तिर्न स्यादिति भावः । ‘कर्म कृत्वा’ इत्युक्त्या कथं ज्ञानित्वाविवक्षालाभ इत्यत आह– नहीति ।। ‘येन कर्म कृत्वैव इति नियमोक्तिर्घटेत’ इति वाक्यशेषः ।। यद्वा ज्ञानिकृतमपि ज्ञानद्वाराऽस्तु मुक्तिहेतुः कुतोऽधिकमुक्तिहेतुत्वकल्पनेत्यत आह– नहीति ।। हिशब्देनानन्द-वृद्धिहेतुत्वे प्रमाणप्रसिद्धं सूचयति ।।

नन्वेवं गीतायाम् ‘आनन्दवृद्धिकामैः’ इति वक्तव्यं न ‘मुमुक्षुभिः’ इत्यत आह– तत्सा-धुकारिण्युप्रत्यय इति ।। तृतीयस्य द्वितीयपादे ‘आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु’ (पा.सू.३.२.१३) इत्यधिकारे ‘सनाशंसभिक्ष उः’ (पा.सू.३.२.६८) इति सूत्रेण सन्नन्तस्य साधुकारी इत्यर्थे ‘उ’ प्रत्ययोक्तेरत्र ‘साधुमोक्षेच्छाकारिभिः’ इत्यर्थे उप्रत्यय इत्यर्थः । साधुत्वञ्च सातिशयत्वमेवेति भावः ।। पूर्वमिवेति ।। तत्सजातीयमिति भावः ।। अत एवेति ।। क्षणिकत्वसूचनेन सजातीयग्रहणार्थत्वा-देवेत्यर्थः ।। १५ ।।

वाक्यार्थप्रदीपः

।। मुमुक्षुभिरिति तत्साधुकारिण्युप्रत्यय इति ।। ‘सनाशंसभिक्ष उः’ इत्यत्र ‘आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु’ पूर्वसूत्रात् तच्छीलादिष्वित्यनुवर्तते । सन् इति च प्रत्ययो गृह्यते । न धातुः । तेन सन्नन्तेभ्यो धातुभ्यः अशंसतेः भिक्षेश्च उप्रत्यत्ययो भवति तच्छीलादिष्वर्थेषु इति सूत्रार्थः । अत्र तदिति धात्वर्थपरामर्शः । तत्साधुकारित्वं नाम धात्वर्थ-साधुकारित्वमिति व्याख्यानात् । प्रकृते च धात्वर्थस्य मोक्षस्य यावत्स्वरूपानुभवे सत्येव साधुत्वात्त्त् तत्साधुकारित्वार्थविवक्षायां सनन्तात् मुचेः उप्रत्यये ‘सन्यङो’रिति द्वित्वे कुत्वे षत्वे कषयोगे क्ष इति क्षकारे मुमुक्षुरिति रूपसिद्धिरिति भावः ।।

भावरत्नकोशः

।। प्रागेवेति ।। ‘कर्मणैव हि संसिद्धिम्’ इत्यस्य ‘आचारोऽप्यस्ति’ इत्यवतारितत्वात् निवृत्त-कर्मकरणेऽपि ‘इमं विवस्वते योगम्’ इत्यादिनाऽऽ-चारस्योक्तत्वादित्यर्थः । प्रागुक्ताचारवैलक्षण्यं दर्शयति– प्राक्त्विति ।। जनकादीनाम् जनक-प्रियव्रतादीनाम् । विवस्वदादीनां च विद्यमानमपीति ।। तथा चोक्तं ‘प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु’ इति तृतीयभाष्य इत्यर्थः । गीताचार्येण न विवक्षितमित्यत्रोपष्टम्भकमाह– अत एवेति ।। जनकविवस्वदादीनां ज्ञानित्वस्याविवक्षितत्वादेव, ‘कर्म कृत्वैव ततो ज्ञानं प्राप्य’ इति, ‘पूर्वानुष्ठितश्चायं धर्मः’ इति चोक्तमित्यर्थः । अनेनापि कथं ज्ञानित्वाविवक्षालाभ इत्यत आह– न हीति ।। ज्ञानिनां निष्पन्नज्ञानानां ज्ञाननिष्पादनद्वारा कर्म मोक्षहेतुरित्यमञ्जुलमित्यर्थः ।।

ननु कथम् ‘अधिकमोक्षाकाङ्क्षया’ इत्युक्तम् । गीतायां ‘मुमुक्षुभिः’ इत्येव श्रवणेन तद्बोधक-पदाभावादित्यत आह– मुमुक्षुभिरिति ।। तत्साधुकारिणीति ।। ‘आक्वेस्तच्छीलतद्धर्मतत्साधु-कारिषु’ इत्यधिकारे ‘सनाशंसभिक्ष उः’ इति सूत्रेण सन्नन्तान्मुचेरुप्रत्ययो विहितः । स च साधुकारिणि कर्तरि भवति । यो धात्वर्थं साधु करोति स साधुकारी । मोक्षेच्छा चात्र धात्वर्थः । तस्याः साधुत्वं च मोक्षगतानन्दातिशयविषयकत्वातिरिक्तं नास्तीति उप्रत्ययेनैवाधिकमोक्षाकाङ्क्षा लभ्यत इति भावः । ततोऽपि पूर्वभावि इत्यनेन तरबर्थ उक्तः । तदेव पूर्वैः कृतमेव । उक्तचोद्यापनोदाय भाष्ये व्युत्पत्तिं दर्शयति– पूर्वमिवेति ।। अत एव पूर्वसादृश्यज्ञापनरूप-प्रयोजनवत्त्वादेव । अन्यथा ‘कर्म’ इति गीतानुवादो भाष्ये नातीव प्रयोजन-वानिति भावः ।।

गीताक्षरार्थस्तु- यदि ज्ञानी कर्मभिर्न बध्यते तर्हि ममापि ज्ञानित्वेन कर्मबन्धाभावात् कथं कर्मविधानमित्याशङ्क्य ज्ञानिनामप्यधिकमोक्षाकाङ्क्षया कर्मकरणे आचारोऽत्रोच्यते एवमिति ।। एवं ज्ञात्वा पूर्वैः जनकविवस्वदादिभिः कर्म निवृत्तं कृतम् । मुमुक्षुभिः इति मोक्षेऽप्यानन्दातिशया-काङ्क्षिभिरित्यर्थः । तस्मात्त्वमपि पूर्वैः कृतं पूर्वतरं ततोऽपि पूर्वभावि कर्म कुरु । कर्मणः क्षणिकत्वात् कथं तदेव कर्तव्यमिति चेन्न । पूर्वानुष्ठितकर्मसदृशकर्मानुष्ठानविधाने तात्पर्याद् एवशब्दः, न तु फलाभिसन्धिमित्यर्थे । कुर्वे वा, न तु ज्ञानित्वान्ममेति नाकरणं शङ्कनीयमित्यर्थे वेति ।। १५ ।।

भावदीपिका

।। प्रागेवेति ।। ‘कर्मणैव हि संसिद्धिम्’ ‘इमं विवस्वते योगम्’ इत्यत्रेत्यर्थः । ननु जनकादीनामपि ज्ञानितया तदाचारस्यापि ज्ञान्याचारत्वेन तस्य चोक्तत्वात् पौनरुक्त्यमेवेत्यत आह– प्राक्त्विति ।। पूर्वाचारत्वेनैव तदाचारः प्रमाणत्वेनोक्त इति भावः ।। अत एवेति ।। जनकादिषु विद्यमानस्यापि ज्ञानित्वस्याविवक्षितत्वादेवेत्यर्थः । ‘कर्म कृत्वा ज्ञानं प्राप्य’ इति प्राग् व्याख्यातत्वेन जनकादिकर्मणो ज्ञानद्वारा मुक्तिहेतुत्वमुक्तम् । तच्च तेषां ज्ञानित्व-विवक्षायां न सम्भवतीति भावः। कुतो न सम्भवतीत्यत आह– न हीति ।।

नन्वेवं ज्ञान्याचारस्य प्रमाणत्वेनात्रोक्त्यभिप्राये तर्हि गीतायां ‘आनन्दाभिवृद्धीच्छुभिः’ इति वक्तव्यम्, ‘मुमुक्षुभिः’ इति कथमुक्तम्? प्रत्युत तथोक्त्या ‘मोक्षेच्छुभिः पूर्वैः कर्म कृतम्’ इत्यज्ञान्याचारस्यैव गीतायां प्रमाणत्वेनोक्तिप्रतीतेरित्यत आह– मुमुक्षुभिरिति ।। मोक्षं साधु कर्तुमिच्छन्ति मुमुक्षन्तीति मुमुक्षवः तैः मुमुक्षुभिः ।। तत्साधुकारिणीति ।। ‘आक्वेस्तच्छीलतद्धर्मत-त्साधुकारिषु’ इति क्विपमभिव्याप्य ये प्रत्यया विहिताः ‘सनाशंस’ इत्यादिसूत्रेण उप्रत्ययाद्यास्ते तच्छीलाद्यर्थे स्युरित्युक्तत्वाद् अत्र ‘सनाशंसभिक्ष उः’ इति सूत्रेण उप्रत्ययः । सन्प्रत्ययान्ता-दाशंसेर्भिक्षेश्च उप्रत्ययो भवति तच्छीलादाविति तदर्थः । जिज्ञासुः, आशंसुः, भिक्षुरित्युदाहरणम् । कथमयं सन्नन्त इति चेदुच्यते । मुच्लृ मोक्षणेऽस्मादिच्छायां सनि ‘हलन्त्यम्’ इति नलोपे ‘सन्यङोः’ इति द्वित्वे ‘पूर्वोऽभ्यासः’ इति पूर्वस्याभ्याससञ्ज्ञायां हलादिशेषे ‘मुमुच् स’ इति जाते ‘चोः कुः’ इति चकारस्य कुत्वे ‘आदेशप्रत्यययोः’ इति सस्य षत्वे कषयोगे क्षेति जाते ‘मुमुक्ष’ इति सन्नन्तशब्दोऽयम् । पश्चात्सन्नन्तात् मुमुक्षशब्दात् ‘सनाशंसभिक्ष उः’ इत्यनेन तत्साधुकारिण्यर्थे उप्रत्यये ‘अतो लोपः’ अकारस्य लोपः स्यादार्धधातुके पर इति आर्धधातुके उप्रत्यये परे क्षकारस्थस्य अकारस्य लोपे ‘मुमुक्षु’ इति प्रातिपदिके भिसि सस्य रुत्वे विसर्गे च ‘मुमुक्षुभिः’ इति भवति । तथा चापरोक्षज्ञानोत्तरं निवृत्तकर्मानुष्ठानेन भगवदिच्छारूपावरणापगमे हि यावत्स्वरूपानन्दभोगो भवतीत्येवं मोक्षं साधु कर्तुमिच्छुभिर्मुमुक्षुभिः पूर्वैः कर्म कृतम् । अतस्तवाप्यपरोक्षज्ञानित्वात् मोक्षस्य साधुकरणेच्छया कर्म कुर्वित्याशयात् ।।

पूर्वतरत्वस्येति ।। अतीतत्वस्येत्यर्थः । कर्तॄणामतीतत्वोक्त्या तदीयकर्मणोऽप्यतीतत्व-मुपलब्धमेवेति भावः ।। तैरपीति ।। पूर्वैरपि । पूर्वभावि पूर्वपरम्पराप्राप्तमित्यर्थः । ‘तदेव कृतम्’ इत्यनन्तरम् ‘इत्युच्यते’ इति शेषः । कथमनेन शङ्कापरिहारः? इत्यतो मध्यमपदलोप-समासोऽयमित्यभिप्रेत्य व्याख्याति– पूर्वमिवेति ।। अत एवेति ।। कर्मणः क्षणिकत्वान्यथानुपपत्त्या तदेव कर्तव्यमिति विधानायोगादेव भगवता ‘एवं ज्ञात्वा कृतं कर्म’ इत्येवानुवादः कृतः, न पूर्वतरकर्मेति । तेन ज्ञायते पूर्वकृतकर्मसदृशकर्मकरणमेवात्राभिप्रेतमिति ।। १५ ।।

भावप्रकाशः

।। इत्याद्युक्तमिति ।। पूर्वानुष्ठितश्चायं धर्म इति वाक्यसङ्ग्रहायादि-शब्दः । ननु ज्ञानिना-मप्यधिकमपरोक्षाकाङ्क्षया कर्मकरण इत्यनेन ज्ञानिकर्मणोऽधिकमोक्षहेतुत्वं सूचितम् । तत्कुतः ज्ञानद्वारा मोक्षार्थत्वमेव किं न स्यादित्यत आह– न हीति ।। ज्ञानस्य सिद्धत्वेन तदुत्पादनद्वारा मोक्षहेतुत्वानुपपत्तेरिति भावः ।।

ननु गीतायामधिकमपरोक्षाकाङ्क्षाप्रतिपादकपदाश्रवणात् कथमधिकमपरोक्षाकाङ्क्षयेत्युक्तमित्यत आह– तत्साधुकारिणीति ।। ‘सनाशंसभिक्ष उः’ इति सन्नन्तान्मुचेरुप्रत्ययः । स च तत्साधु-कारिणि कर्तरि भवति । ‘आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु’ इत्यनेन क्विपमभिव्याप्य विहिताः प्रत्ययास्तच्छीलादिषु कर्तृषु भवन्तीत्युक्तत्वात्,उप्रत्ययस्य च तन्मध्यपतितत्वादिति भावः । नन्वेवमपि सन्नन्तधात्वर्थमोक्षेच्छयोः साधुत्वलाभेऽपि मोक्षस्याधिक्यालाभ इति वाच्यम् । मोक्षमात्रस्य ज्ञानादेव सिद्धतया ज्ञानोत्तरमममुक्षाया विषयिभूतमोक्षाधिक्येनैव साधुत्वस्य वाच्यत्वात् । आनन्दातिशयविषयकत्वातिरिक्तस्येच्छासाधुत्वस्य दुर्निरूपत्वादिति । अत एवेति ।। पूर्वसादृश्य-ज्ञापनाख्यप्रयोजनादेव कर्मेत्यनुवादः । अन्यथा तद्वैय्यर्थ्यादिति भावः । क्षणिकत्वात् कथं तदेव कर्तव्यमित्याक्षेपपरिहारार्थमेवेत्यप्याहुः ।। १५ ।।