मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ।। १ ।।

।। सप्तमोऽध्यायः ।।

श्रीभगवानुवाच–

मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ।। १ ।।

भाष्यम्

साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षडि्भर्भगवन्माहात्म्यं प्राधान्ये-नाऽह । आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयः भगवानेव सर्वं मया कारयति, स एव च मे शरणम्, तस्मिन्नेवाहं स्थित इति स्थितः । असंशयम्, समग्रम् इति क्रियाविशेषणम् ।। १ ।।

भावप्रदीपिका

पूर्वानुवादपूर्वकमुत्तराध्यायषट्कार्थमाह– साधनमिति । ननु साधनवचनानन्तरं भगवन्महिमोक्तौ का सङ्गतिः इत्याशङ्क्य, एतद्भगवतैव परिहृतमित्यभि-प्रायेणाद्यश्लोकं व्याचष्टे– आसक्तेति । यो योगो भगवत्स्नेहपूर्वं क्रियते स एव ज्ञानाङ्गो नान्यः । भगवति स्नेहश्च तन्महिमोक्तौ भवति । अतः पूर्वं योगार्थमेव भगवन्महिमोच्यत इत्यर्थः । ननु सर्वेषामपि भगवदाश्रयत्वात् को विशेषो योगिनो विधीयत इत्यत आह– मदाश्रय इति । नन्वनन्तं भगवन्तं कथमर्जुनः समग्रं ज्ञास्यतीत्यत आह– असंशयमिति

।। १ ।।

भावप्रकाशिका

यदुक्तं विस्तरेणाद्यषट्के त्रिविधं कर्म यज्ञादिलक्षणं भगवदर्पितं सङ्गरहितम्, भगवज्ज्ञानम्, तत्सहितं ध्यानम्, तदपरोक्षज्ञानम्, तद्भक्तिश्चेति क्रमोन्नतं साधनजातं सङ्ग्रहेणापि तदन्तश्लोकद्वयेन, तद्भगवन्महिमि्न विशेषतः कथिते सिद्ध्य-तीत्यधुना सोऽभिधीयत इति भावेनोत्तरषट्कार्थमाह– साधनमिति । आद्यश्लोकारूढैवेयं सङ्गतिरिति सूचयन् तं व्याख्यातुमुपक्रमते– आसक्तेति । तथाहि– यथा मन्माहात्म्येऽभि-धीयमाने मय्यतीव स्नेहयुक्तमना भूत्वा कर्मयोगं समाधियोगं च युञ्जन् मां परोक्षमपरोक्षं च ज्ञास्यति तत्तद्योग्यः, तथा शृणूत्तरषट्कमिति । ननु किं भगवदाश्रयत्वं नाम ? तच्च योगिन एवेत्यत्र को विशेषः? इत्यत आह– मदाश्रय इति । एतादृशभगवदाश्रयत्वे सर्वेषां विद्यमानेऽप्येतज्जानन्नेवास्थितो योगी नान्य इत्यर्थः । ननु यं ब्रह्माऽपि सर्वविशेषसहितं न पश्यति । कं कथमर्जुनः समग्रं पश्यतीत्यत आह– असंशयमिति । ‘असंशयम्’ इतिवत् ‘समग्रम्’ इत्यपि क्रियाविशेषणमेव । ततश्च तत्र योग्यज्ञानं यथा समग्रं भवति तथा मां ज्ञास्यसीत्यर्थः । उत्तरश्लोकेऽपि ‘ते’ तव योग्यं ‘ज्ञानमशेषतः’ इत्यर्थः ।। १ ।।

प्रमेयदीपिका

ज्ञानसाधनादन्यदुत्तराध्यायप्रतिपाद्यं वक्तुं ‘योगे त्विमां शृणु’ (२.३९) इति प्रतिज्ञातमसमाप्य कथमर्थान्तरमुच्यते? इत्याशङ्कां तावत्परिहरति– साधन-मिति ।। ‘ज्ञानस्य’ इति शेषः । तत्र तत्र भगवन्महिम्नोऽपि वर्णितत्वेन प्राधान्येन इत्युक्तम् । प्राचुर्येणेत्यर्थः । ‘उक्तम्’ इत्यनेन प्रतिज्ञातसमाप्तिं सूचयति । तच्च प्रतिज्ञान्तरकरणादवगम्यते ।।

इदानीमुत्तरग्रन्थप्रतिपाद्यमाह– उत्तरैस्त्विति ।। अध्यायैरिति वर्तते । अनेन ज्ञानविज्ञान-शब्दौ ज्ञेयभगवन्माहात्म्यपराविति सूचितम् । अत्रापि क्वचित्साधनस्योक्तत्वात् प्राधान्येन इत्युक्तम् । सङ्गतिस्तु प्रथमश्लोक एवोक्ता । ‘अनेन द्विविधेन योगेन यज्ज्ञातव्यं तच्छ्रुणु’ इत्युक्तत्वात् । ‘आसक्तमनाः सम्बद्धमनाः’ इति प्रतीतिनिरासायाह– आसक्तेति ।। ‘अतीव’ इत्याङोऽर्थः । सम्बन्धमात्रस्य योगानङ्गत्वादिति भावः । भगवदाश्रयत्वं सर्वसाधारणं कथं योगिनो विशेषणम्? इत्यत आह– मदाश्रय इति ।। शरणं रक्षकः । इति स्थित इति जानन्निति यावत् ।।

असंशयं समग्रम्’ इत्युभयं भगवद्विशेषणत्वेन भास्करो व्याख्यातवान् ‘संशयरहितं समग्रं कृत्स्नं माम्’ इति । अपरस्तु ‘समग्रम्’ इत्येव,‘समग्रं समस्तं विभूतिबलशक्त्यैश्वर्यादि-गुणसम्पन्नं मां संशयमन्तरेण’ इति । तन्निरासार्थमाह– असंशयमिति ।। तव समग्रं यथा भवति तथेत्यर्थः । नहि भगवतः संशयराहित्यमिदानीं वक्तव्यम् । नच भगवान् समग्रो अन्येन केनचिच्छक्यो ज्ञातुम् । ‘स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ त्वम्’(१०.१५) इति वक्ष्यमाण-त्वादिति भावः ।। १ ।।

भावबोधः

ननु भगवन्महिमज्ञानार्थमेव योगस्य वर्णितत्वात् कथं प्राधान्येनेत्युक्त-मित्यत आह– प्राचुर्येणेति ।। बहुलग्रन्थेनेत्यर्थः । द्विविधेनेति ।। अनेन ‘योग’मित्यस्य प्रागुक्त-कर्मसमाधिरूपोभययोगपरत्वमित्युक्तं भवति । ननु ‘शरणं गृहरक्षित्रोः’ इत्यभिधानात् शरणशब्दस्य गृहरूपाश्रयार्थत्वे ‘तस्मिन्’ इत्युत्तरवाक्यं पुनरुक्तं स्यादित्यतो व्याचष्टे– रक्षक इति ।। ननु ‘भगवान्’ इत्यादिनोक्तस्य ज्ञान एव प्रकारत्वम् । न स्थितावित्यत आह– इति जानन्निति ।। ‘समग्र’मित्यस्य ‘ज्ञास्यसी’ति क्रियाविशेषणत्वेऽपि ‘न च भगवान् समग्रोऽन्येन’ इति वक्ष्यमाणदूषणपरिहारः कथमित्यत उक्तम्– तवेति ।। १ ।।

भावदीपः

भगवन्महिमोक्तेरत्राप्राधान्यनिरासाय प्राधान्यशब्दार्थमाह– प्राचुर्ये-णेति ।। प्रतिज्ञान्तरेति ।। यथा ज्ञास्यसि तच्छ्रुणु इति प्रतिज्ञान्तरकरणादित्यर्थः ।। सङ्गतिस्त्विति ।। पूर्वोत्तरषट्कयोः ‘मय्यासक्त’ इति श्लोक एव उक्तमित्यर्थः। तां व्यनक्ति– अनेनेति ।। ‘योगे त्विमां शृणु’ (२.३९) इति श्लोके द्वितीये प्रतिज्ञातं ज्ञानस्य बहिरङ्गसाधनं कर्मयोगम् आपञ्चमाध्यायसमाप्ति निरूप्य, पञ्चमे तदन्तरङ्गसाधनसमाधियोगो निरूपित इति ‘अनेन पूर्वोक्तेन द्विविधेन योगेन’ इत्युक्तम् ।। १ ।।

भावरत्नकोशः

।। ज्ञानसाधनादन्यदिति ।। ‘योगे त्विमां शृणु’ इति प्रतिज्ञातो हि ज्ञानसाधनयोगो द्विविधः । कामादिवर्जनयुक्तनिवृत्तकर्मानुष्ठानलक्षणक एकः समाधिरूपोऽपर इति यत्, तदुभयस्मात्् अन्यत् भगवन्माहात्म्यरूपमित्यर्थः । फलरूपतयाऽभ्यर्हितत्वात् ‘मोक्षस्य साधनम्’ इति प्रतीतावसङ्गतिशङ्का स्यादित्यतोऽध्याहरति– ज्ञानस्येति ।। तत्र अतीतेष्वध्यायेषु ‘न त्वेवाहम्’ इत्यादिना द्वितीये, ‘यो बुद्धेः परतस्तु सः’ इति तृतीये, ‘अजोऽपि सन्नव्ययात्मा’ इति चतुर्थे, ‘भोक्तारं यज्ञतपसाम्’ इति पञ्चमे, ‘सर्वभूतस्थमात्मानम्’ इति षष्ठे च जननमरणादि-दोषराहित्य-अप्रमेयत्वादिभगवन्माहात्म्यस्य वर्णितत्वादित्यर्थः । ‘तत्र तत्र’ इति पाठेऽप्येवमेवार्थः ।।

ननु ‘प्राधान्यम्’ इहानुपसर्जनत्वम् । तच्च भगवन्महिम्न एव, सर्वस्य तदर्थत्वात् । तत् कथं साधनस्य प्राधान्यमित्यतोऽत्र विवक्षितं प्राधान्यशब्दार्थमाह– प्राचुर्येणेत्यर्थ इति ।। बहुना ग्रन्थसन्दर्भेणेत्यर्थः । प्रतिज्ञातमसमाप्य कथमन्यदुच्यत इति शङ्कितम् । तत्परिहर्तुमाह– उक्तमितीति ।। ‘उक्तम्’ इत्युक्तिमात्रेण कथं समाप्तिसूचनमित्यतः स्वयं ज्ञापकं दर्शयति– तच्चेति ।। प्रतिज्ञातार्थयोगवर्णनसमापनम् । ‘यथा ज्ञास्यसि तच्छृणु’ इति प्रतिज्ञान्तरकरणा-दित्यर्थः । पूर्वप्रतिज्ञातार्थवर्णनाभिप्राये पुनरत्र प्रतिज्ञान्तरमयुक्तमिति भावः ।

ननु ‘उत्तरैः षड्भिरध्यायैर्भगवन्माहात्म्यम्’ इति भाष्यं ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्यामि’ इति गीताविसंवादीति शङ्कां परिहरति– अनेनेति ।। ‘उत्तरैः’ इति भाष्येण । ‘ज्ञेय-भगवन्माहात्म्यपरौ’ इति वदन् ‘ज्ञा अवबोधने’ इति धातोः कर्मणि ‘कृत्यल्युटो बहुलम्’ इति बहुलग्रहणात् ल्युट् । अत एव ‘यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते’इति भगवद्वचन-मित्यभिसन्धत्ते– अत्रापि भगवन्माहात्म्यप्रतिपादनपरेऽप्युत्तरषट्के । उक्तत्वादिति ।।

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ।’

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।।’ इति सप्तमे,

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

 मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ।।’

अभ्यासयोगयुक्तेन चेतसानान्यगामिना ।

 परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ।’

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

 मूध््नर्याधायात्मनः प्राणमास्थितो योगधारणाम् ।।’

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।।’ इत्यादिना अष्टमे,

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

 तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।।’ इति

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।।’

 इत्यादिना नवमादौ च साधनस्योक्तत्वात् प्राधान्येनान्यानुपसर्जनतयेत्युक्तमित्यर्थः ।

न त्वेवाहम्’ इत्यादिना पूर्वषट्के भगवन्माहात्म्योक्तावपि साधनस्यैव प्राचुर्येणोक्तिः, अत्र तु षट्के भगवत्संवित्साधनोक्तावप्यन्यानुपसर्जनतया प्राचुर्येण च भगवन्माहात्म्यस्य वर्णनात्, न पूर्वोत्तरषट्कयोरभिधेयसाङ्कर्यं शङ्कनीयमिति भाष्यभाव इति हृदयम् ।

ननु साधनवचनानन्तरं भगवन्माहात्म्यवचनस्य का सङ्गतिरित्याशङ्क्य भगवतैवाद्यश्लोके परिहृतेति भाष्ये तदनुक्तिर्न दोषायेति भावेनाह– सङ्गतिस्त्विति ।। हेतुहेतुमद्भावलक्षणसङ्गति-रित्यर्थः । कथमुक्तेत्यत उपपादयति– अनेनेति ।। आपञ्चमाध्यायसमाप्ति उक्तेन कर्मयोगलक्षणेन, षष्ठोक्तेन समाधिलक्षणेन इत्येवं द्विविधेन योगेन । तच्छब्दश्रवणाद् यच्छब्दोऽध्याहृतः । यः पूर्वषट्के द्विविधो योगः स भक्तिपूर्वकमनुष्ठित एव भगवज्ज्ञानसाधनं नान्यथा । अतो भक्त्यु-त्पादनार्थं भगवन्महिमा उत्तरषट्के प्राधान्येनाभिधीयत इत्याद्यश्लोक अवगमेन नासङ्गतिशङ्केति भावः । ‘योगद्वयसाध्यं भगवन्माहात्म्यज्ञानम्’ इति पूर्वोत्तरषट्कयोः हेतुहेतुमद्भावलक्षण-सङ्गतिप्रतिपत्तिः प्रथमश्लोकत एवोत्पद्यत इति वाऽऽशयः ।

आङोऽर्थ इति ।। ‘आङीषदर्थेऽभिव्याप्तौ सीम््नयर्थे धातुयोगजे’ इत्यमरव्याख्याने अनेकार्थत्वे सत्यपि, अनभिव्यक्तार्था एव धातवः ‘आङ्’ इत्याद्युपसर्गयोगादर्थविशेषे वर्तन्ते । अतो धात्वर्थद्योतकत्वेनोपसर्गाणामपि तदर्थत्वमुच्यत इत्युक्त्वा, ‘धातुयोगजेऽर्थे’ इत्यस्य विवरणपरम् अमरशेषवचनं ‘क्रियोद्गमग्रहोधर्षाश्लेषशापाभिकाङ्क्षिणः’ इत्याद्युदाहृत्य, एवं प्रयोगान् उपलक्ष्य उपसर्गबोध्या अर्था द्रष्टव्या इत्यभिधानात्, अत्रापि आधातुयोगजार्थस्य क्रियागतातिशयस्यावगमे तद्युक्तधातोरपि स्वार्थसङ्गत्यागेन स्नेहार्थत्वं ज्ञातव्यमिति भावेन भाष्ये ‘अतीव स्नेह’ इत्युक्तम् । अत एव ‘ईषदर्थे क्रियायोगे’ इति,

उपसर्गवशाद्धातुरर्थान्तरविलासकृत् ।

 प्रहाराहारसंहारविहारपरिहारवत्’

इत्यादि वैयाकरणवचनमिति भावः ।

सम्बद्धमनाः’ इति प्रतीतार्थे दोषमाह– सम्बन्धमात्रस्येति ।। आसक्तमनस्कत्वस्य योगं प्रत्यङ्गत्वमवगम्यते । तत्सम्बन्धमात्रार्थत्वे चैद्यपौण्ड्रकादिषु द्वेषिषु मनस्सम्बन्धस्य सत्त्वेऽपि तेषां योगित्वाभावादिति भावः ।‘शरणे रक्षणे वधे’ इत्यनेकार्थत्वस्य विश्वप्रकाशेऽभिधानाद् रक्षणादेः प्रकृतानुपयोगाद्, विवक्षितमर्थमाह– शरणं रक्षक इति ।। शृणाति विपदं हिनस्तीति शरणम् । ‘शृ हिंसायाम्’ इत्यतः ‘कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट् । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । ‘शरणं तरुणेन्दुशेखरः’ इत्यादिप्रयोगाद् रूपभेदाच्च नपुंसकत्वम् । ‘यदनान्तमकर्तरि’ इति वचनं तु भाववचनमनान्तं नपुंसकमित्येवंपरम्, अन्यत्रोदासीनमिति व्याख्यातं नैघण्टुकैरिति भावः । भाषितमपि भगवदाश्रयत्वं साधारणमेवेत्यत आह– जानन्निति ।। यावदिति ।। एवंप्रकारकं तु ज्ञानं योगिन एवेति भावः । तदेवाह– संशयरहितमित्यादि ।। अपरः सङ्करः । ‘भगव-द्विशेषणत्वेन व्याख्यातवान्’ इति वर्तते । तद्भाष्यमनुवदति– समग्रमिति ।। तन्मतेऽपि ‘असंशयम्’ इत्येतद्भगवद्विशेषणमिति कस्मान्न स्यात् इति शङ्कापनोदायोक्तं– संशयमन्तरेणेति ।। तन्निरासार्थम् व्याख्यानद्वयनिरासार्थम् ।

न विद्यते संशयो यस्मिन् कर्मणि तद्यथा भवति तथेत्यसंशयम्’ इत्यस्यानतिगूढत्वात् ‘समग्रम्’ इत्यस्य क्रियाविशेषणत्वं व्याख्याति– तवेति ।। ‘योग्यं ज्ञानम्’ इति योज्यम् । त्वद्योग्यतानुसारेण फलाय पर्याप्तमित्यर्थः । मतद्वयमपि दूषयति– न हीति ।। समग्रः कृत्स्नः समस्तविभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नः । वक्ष्यमाणत्वात् दशमे । अनेनैव ‘यं ब्रह्मापि सर्वविशेषसहितं न पश्यति, तं कथमर्जुनः समग्रं पश्येत् ’ इति चोद्यमपि निरस्तम् । तव ‘समग्रम्’ इति क्रियाविशेषणत्वेन व्याख्यानात् ।। १ ।।

गीताक्षरार्थस्तु– ज्ञानसाधनं कामादिवर्जितनिवृत्तकर्मानुष्ठानलक्षणकर्मयोगं ध्यानयोगं चातीतैः षड्भिरध्यायैरुक्तम् । उत्तरैः षड्भिरध्यायैः षष्ठान्तप्रस्तुतध्यानाङ्गभक्त्युत्पादनार्थं भगवन्महिमा प्राचुर्येण निरूप्यत इति सङ्गतिं वदता, श्रोतारमभिमुखीकुर्वता भगवता भगवन्माहात्म्यं वक्तुं प्रतिज्ञायते– मयीति ।। हे पार्थ, मयि श्रीकृष्णे आसक्तमनाः अतीवभक्तिलक्षणस्नेहयुक्तमनाः योगं युञ्जन् युञ्जानः कर्मयोगध्यानयोगरूपज्ञानोपायम् अनुतिष्ठन् मदाश्रयः अहमाश्रयो यस्य स तथोक्तः, भगवानेव मया सर्वं कारयति स एव मम रक्षकः, तस्मिन्नेव चाहं स्थित इति जानन्निति यावत् । ‘असंशयम्’ ‘समग्रम्’ इति क्रियाविशेषणद्वयस्य संशयमन्तरेण तव योग्यताऽनुसारेण समग्रं यथा भवति तथेत्यर्थः । मां यथा येन प्रकारेण ज्ञास्यसि तत् तं प्रकारम्, तथेति वा शृणु । तत्प्रकारकमज्ज्ञानजनकवचनं श्रुत्वा तत्र निष्ठां कुरु इति यावत् ।। १ ।।

भावदीपिका

प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।

सप्तमाध्यायटीकायाः क्रियते भावदीपिका ।।

ननु भगवन्महिमज्ञानार्थमेव योगस्य वर्णितत्वात् कथं ‘प्राधान्येन’ इत्युक्तमित्यत आह– प्राचुर्येणेति ।। बहुलग्रन्थेनेत्यर्थः । तच्चेति ।। समाप्तिसूचनमित्यर्थः । ननु गीतायां ‘ज्ञानं तेऽहं सविज्ञानम्’ इति ज्ञानादिकथनस्यैव प्रतिज्ञातत्वात् कथमेतदित्यत आह– अनेनेति ।। ‘भगवन्माहात्म्यमाह’ इत्यनेनेत्यर्थः । द्विविधेन कर्मसमाधिरूपेण ‘ज्ञेय’ इत्यादि । कर्मव्युत्पत्त्येति भावः । अत्रापि क्वचिदिति ।। ‘मन्मना भव इत्यादौ’ इति शेषः । कथं पूर्वेण सङ्गतिः प्रथमश्लोक एवोक्तेत्यत आह– अनेनेति ।। पूर्वषट्कप्रतिपादितेन कर्मसमाधिरूपयोगद्वयेनेत्यर्थः । अनेन ‘युञ्जन्’ इत्यत्र योगशब्दः कर्मसमाधिरूपोभययोगपर इत्युक्तं भवति । सम्बन्धमात्रस्येति ।। स्नेहरहितसम्बन्धस्येत्यर्थः । ननु ‘शरणं गृहरक्षित्रोः’ इत्यभिधानाच्छरणशब्दस्य गृहरूपाश्रयार्थत्वे ‘तस्मिन्’ इत्युत्तरवाक्यं पुनरुक्तं स्यादित्यतो व्याचष्टे– रक्षक इति ।। ननु ‘भगवान्’ इत्यादेर्ज्ञान एव प्रकारत्वं न स्थितौ । अतः ‘इति स्थितः’ इति कथमुच्यत इत्यत आह– इति जानन्निति ।। इत्येवेति ।। भगवद्विशेषणत्वेन व्याख्यातवानित्यर्थः । ननु ‘समग्रम्’ इत्यस्य ‘ज्ञास्यसि’ इति क्रियाविशेषणत्वे ‘न च भगवान् समग्रोऽन्येन केनचिच्छक्यते ज्ञातुम्’ इति वक्ष्यमाणदूषणपरिहारः कथमित्यत उक्तं – एवेति ।। ननु उभयोर्भगवद्विशेषणत्वमेव किं न स्यादित्यत आह– नहीत्यादिना ।। कुतो भगवान् स्वान्येन ज्ञातुं न शक्यत इत्यत आह– स्वयमेवेति ।। अर्जुनेनोत्तरत्र ‘स्वयमेवात्मनाऽत्मानं वेत्थ’ इत्युच्यते । तत्रावधारणप्रयोगादिदं लभ्यत इति भावः

।। १ ।।