तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ।। ४३ ।।

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ।। ४३ ।।

भावरत्नकोशः

तत्र यथोक्तविशेषणे जन्मद्वये, पौर्वदेहिकं पूर्वदेहे भवं बुद्धिसंयोगं भगवति मनोनिवेशलक्षणं ध्यानं लभते । किञ्च ततो भूयः पूर्वकृतात् संस्काराद् बहुतरं संसिद्धौ योगसंसिद्धिविषये यतते ।। ४३ ।।