ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ।। ३ ।।

ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ।। ३ ।।

भाष्यम्

सन्न्यासशब्दार्थमाह– ज्ञेय इति ।। सन्न्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति– ज्ञेय इति ।। ३ ।।

भावप्रदीपिका

ननु कथं महाफलाच्छक्ताधिकारिविषयाद् गृृहस्थाश्रमादल्प-फलस्थविरोधिकारिकस्य .....यत्याश्रम एव विवक्षितः ? इत्यत आह– संन्यासस्येति

।। ३ ।।

भावप्रकाशिका

द्वन्द्वत्यागस्यैतत्संन्यासशब्दार्थत्वेनोच्यमानत्वाच्च न पूर्वोक्त-संन्यासो यत्याश्रम इति भावेनाह– संन्यासशब्दार्थमिति ।। नन्वनेन यत्याश्रममेव संन्यास-शब्दार्थत्वेनार्जुनः पृच्छतीत्यवगम्यते । अन्यथा तं प्रति संन्यासशब्दार्थाभिधानवैय्यर्थ्यादित्यत आह– संन्यासस्येति ।। द्वन्द्वत्यागलक्षणसंन्यासोऽर्जुनस्य प्रसिद्धोऽपि सुस्मरणार्थं भगव-तोच्यत इत्यदोषः । तत्र स्मरणं चास्य संन्यासस्य निःश्रेयसकरत्वज्ञापनाय । द्वन्द्वत्याग-स्यान्यत्र निःश्रेयसकरत्वप्रसिद्धेः ‘द्वन्द्वातीतः कृत्वाऽपि न निबध्यते’ इत्यादाविति भावः ।।३।।

प्रमेयदीपिका

‘ज्ञेयः’ इत्यस्यापव्याख्यानं दूषयंस्तत्तात्पर्यमाह– सन्न्या-सेति ।। अर्थान्तरस्याप्रतीतेरिति भावः । ननु ‘यदृच्छालाभसन्तुष्टः’ (४.२२) इत्यादि-नोक्तं कामादिपरित्यागं सन्न्यासं कर्मणाम्’ (५.१) इत्यनूद्यार्जुनस्यायं प्रश्न इत्युक्तम् । ततश्च जानात्येवासौ सन्न्यासशब्दार्थमिति न तं प्रति स वक्तव्यः । तथा च पूर्वपक्ष्युत्प्रेक्षित एवास्यार्थ इत्यत आह– सन्न्यासस्येति ।।

सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’(५.२)इति यत् सन्न्यासस्य निःश्रेयसकरत्वमुक्तं तदुपपादयितुं ज्ञातमपि सन्न्यासशब्दार्थं स्मारयत्यनेन । द्वेषादिवर्जनं हि सन्न्यासः। तस्य च निःश्रेयसकरत्वं श्रुत्यादिप्रसिद्धमेवेति । अतः सन्न्यासशब्दार्थकथन एव तात्पर्याभावान्नानु-पपत्तिरित्यर्थः । ज्ञापकं चास्यार्थस्यास्तीत्याह– ज्ञेय इतीति ।। ज्ञेयः स्मर्तव्य इत्यनेनोक्त-मित्यर्थः । योगस्य तु निःश्रेयसकरत्वमुत्तरवाक्य एव सेत्स्यति ।। ३ ।।

भावबोधः

।। अर्थान्तरस्याप्रतीतेरिति ।। गृहस्थप्रत्यायकपदाभावेन यो द्वेषादि-वर्जितो गृही सोऽपि सन्न्यास इति परोक्तार्थान्तरस्याप्रतीतेरित्यर्थः । उत्तरवाक्य एवेति ।। ‘साङ्खयोगौ पृथग्’ इत्यत्रेत्यर्थः ।।

भावदीपः

।। अपव्याख्यानमिति ।। यत्याश्रमार्थत्वरूपमित्यर्थः ।। पूर्वपक्ष्यु-त्प्रेक्षित एवेति ।। ‘ज्ञेय इति वचनं तु न सन्न्यासशब्दव्याख्यानपरम्’ इत्यादिनोक्त इत्यर्थः ।। श्लोकतात्पर्यं व्यनक्ति– द्वेषेति ।। गीतास्थहिशब्दार्थः– श्रुत्यादिप्रसिद्धमेवेति ।। उत्तरवाक्य एवेति ।। ‘साङ्ख्ययोगौ ’ इत्यत्रेत्यर्थः ।। ३ ।।

भावरत्नकोशः

।। अपव्याख्यानमिति । ‘ज्ञेय इति वचनं न संन्यास-शब्दव्याख्यानपरम्, किन्तु ‘यो द्वेषादिवर्जितो गृही सोऽपि संन्यासी ज्ञातव्यः’ इति स्तुतिपरमेव’ इत्यपव्याख्यानमित्यर्थः । तथा च सङ्करः ‘यो न द्वेष्टि किञ्चिन्न काङ्क्षति दुःखं सुखं वा तत्साधनं च, एवंविधो यः स कर्मणि प्रवर्तमानोऽपि स नित्यसंन्यासी ज्ञातव्य इति स्तौति’ इति अप-व्याख्यानदूषणं भाष्यभावोक्त्या व्यनक्ति ।। अर्थान्तरस्येति ।। गृहस्थबोधकपदाभावेन परोक्तार्थस्या- प्रतीतेरित्यर्थः । तम् अर्जुनं प्रति । सः संन्यासशब्दार्थो वक्तव्यः । ‘उच्यते योऽसौ ज्ञेयस्स नित्यसंन्यासी इति’ इति योज्यम् । ततः किमित्यत उक्तम्– तथा चेति ।। पूर्वपक्ष्युत्प्रेक्षित इति । ‘ज्ञेय इति वचनं तु’ इत्यादिना सङ्करेण कल्पित एव । अस्य ज्ञेय इति वचनस्यार्थ इत्यर्थः । ज्ञापयितुम् इत्यस्य ‘ज्ञानं तं प्रेरयितुम्’ इत्यर्थः । तत्र प्रेरणम् उपपादनमेवेत्याह– तदुपपादयितु-मिति ।। उपपत्तियुक्ततयाऽभिधातुमित्यर्थः । अनेन ज्ञेय इति वचनेन । काऽसावुपपत्तिरित्यत आह– द्वेषादीति ।। ‘प्रसिद्धमेव’ इति गीतागतहिशब्दार्थः । नानुपपत्तिरिति । ‘न तं प्रति स वक्तव्य इत्युक्तानुपपत्तिर्न’ इत्यर्थः । ज्ञेयः स्मर्तव्य इतीति । अनेन भाष्ये यद् द्वितीयं ‘ज्ञेय इति’ इति वाक्यं तद् ज्ञापकमेव, न तु गीताप्रतीकग्रहणमित्युक्तं भवति । नन्वेवमभिप्राये योगस्यापि निःश्रेयसकरत्वमत्र वक्तव्यम्, सन्नियोगशिष्टत्वात् ? इत्यत आह– योगस्य त्विति ।। उत्तरवाक्ये ‘साङ्ख्ययोगौ पृथक्’ इति समनन्तरवाक्ये ।। ३ ।।

अक्षरार्थस्तु ‘संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति यत् संन्यासस्य निःश्रेयसकरत्वमुक्तं तदुपपादयितुं ज्ञातमपि संन्यासशब्दार्थं स्मारयितुमुच्यते– ज्ञेय इति । स्मर्तव्य इत्यर्थः । तेन ‘यदृच्छालाभसन्तुष्टः’ इत्यादिनोक्तं कामादिपरित्यागम् ‘संन्यासं कर्मणाम्’ इत्यनूद्यार्जुनस्य प्रश्न इत्युक्तम् । ततश्च जानात्येवासौ संन्यासशब्दार्थम् इति न तं प्रति स वक्तव्यः इति चोद्यं व्युदस्तम् । द्वेषादिवर्जनं हि संन्यासः । तस्य च निःश्रेयसकरत्वं श्रुत्यादिसिद्धमेवेति संन्यासस्य निःश्रेयस-करत्वोपपादनाय तच्छब्दार्थस्मरणे तात्पर्यात् । योगस्य तु निःश्रेयसकरत्वमुत्तरवाक्ये एव सेत्स्यति । शिष्टं स्पष्टम् ।। ३ ।।

भावदीपिका

।। अपव्याख्यानमिति ।। ‘ज्ञेय इति वचनं न संन्यासशब्द-व्याख्यानपरम्, किन्तु यो द्वेषादिवर्जितो गृही सोऽपि संन्यासी ज्ञातव्य इति स्तुतिपरमेव’ इत्यपव्याख्यानमित्यर्थः ।। अर्थान्तरस्येति ।। संन्यासशब्दार्थकथनव्यतिरिक्तस्य परोक्तार्थस्यात्र गृहस्थादिवाचकपदाभावेनाप्रतीयमानत्वादित्यर्थः ।। सन्यासशब्दार्थमिति ।। कामत्यागादिकमित्यर्थः । नन्वर्जुनस्य कामादित्यागज्ञानमात्रसद्भावेऽपि तस्य संन्यासशब्दार्थत्वं न जानातीति चेन्न । तथासति ‘संन्यासं कर्मणाम्’ इत्यनुवादासम्भवेन, संन्यासशब्दार्थत्वेनापि ज्ञानसद्भावादिति भावः ।। पूर्वपक्ष्युत्प्रेक्षित एवेति ।। ‘यो द्वेषादिवर्जितो गृही सोऽपि संन्यासी ज्ञातव्य’ इति पूर्वपक्ष्यु-त्प्रेक्षित इत्यर्थः । ‘ज्ञापयितुम्’ इत्यस्यार्थः– उपपादयितुमिति ।। कथं तदुपपादनमित्यतस्तं प्रकारं दर्शयति– द्वेषादीति ।। अस्यार्थस्यसंन्यास’ इत्याद्युक्तार्थस्य । ‘ज्ञेय’ इत्यनूद्य तस्यार्थमाह– स्मर्तव्य इति ।। ननु ‘संन्यासः कर्मयोगश्च निश्रेयसकरावुभौ’ इति प्रतिज्ञाय, तत्र संन्यासस्य निश्रेयसकरत्वं ‘ज्ञेय’ इत्यनेनोपपादितम्, योगस्य तु तन्नोपपादितम्, अतो न्यूनता ? इत्यत आह– योगस्य त्विति ।। उत्तरवाक्य एवेति ।। ‘यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते’ इत्युत्तरवाक्य एवेत्यर्थः ।। ३ ।।

भावप्रकाशः

।। अर्थान्तरस्येति ।। गृहस्थबोधकपदाभावेन यो द्वेषादिवर्जितो गृही सोऽपि सन्न्यासीति परोक्तस्तुतिरूपार्थस्याप्रतीतेरित्यर्थः । किमनेन ज्ञापकमुक्तमित्यत आह– ज्ञेयः स्मर्तव्य इति ।। अनेन भाष्ये यत् द्वितीयं ज्ञेय इतीति वाक्यं तज्ज्ञानप्रदर्शकं न तु गीताप्रतीकग्रहणमित्युक्तं भवति । उत्तरवाक्य एवेति ।। साङ्ख्ययोगौ पृथगित्यत्रेत्यर्थः ।। ३ ।।