कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।। १७ ।।

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।। १७ ।।

भाष्यम्

न केवलं तज्ज्ञात्वा मोक्ष्यसे । ज्ञात्वैवेत्याशयवानाह– कर्मण इति ।। तच्चोक्तम्–

अज्ञात्वा भगवान् कस्य कर्माकर्म विकर्मकम् ।

 दर्शनं याति हि मुने कुतो मुक्तिश्च तद्विना ।।’ इति ।

अकर्म कर्माकरणम् । कर्माकर्मान्यत्् विकर्म निषिद्धं कर्म । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यम् इत्यादि । नच शापादिना । ‘कवयोऽप्यत्र मोहिताः’ (४.१६) । अशक्यं चैतज्ज्ञातुमित्याह– गहनेति ।। १७ ।।

भावप्रदीपिका

 ननु कथं भगवज्ज्ञानं विना कर्मादिज्ञानमात्रेण मोक्षः ? इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– न केवलमिति । न भगवज्ज्ञानं विना मोक्ष उच्यते । किन्तु मोक्षार्थं कर्मादिकमपि बोद्धव्यमित्युच्यत इत्यर्थः ।।

तर्हि किं ज्ञानसमुच्चयेन कर्मादिज्ञानमावश्यकं मोक्षायेति ? नेत्याह– तच्चेति ।। कर्मस्वरूपस्य भगवतैव चिन्तितस्य मतत्वात् कर्मादिस्वरूपमाह– अकर्मेति ।। कर्माकर्मा-न्यस्य विकर्मत्वं कथमित्यत आह– निषिद्धमिति ।। ननु कर्माकर्मान्यत् काम्यमपि भवति । तत्कथं निषिद्धमित्यत आह– बन्धकत्वादिति ।। श्लोकान्वयस्य दुर्घटत्वात् तं दर्शयति–तत इति । ततः विकर्मणः कर्माकर्म विविच्य बोद्धव्यमिति द्वितीयपादान्वयः । आदिपदात् कर्मणः सकाशाद्विविच्य विकर्माकर्म बोद्धव्यम् । अकर्मणः कर्म विकर्म चेति विविच्य बोद्धव्यमिति प्रथमतृतीयपादान्वयः सूचितः । ननु यदि कर्मादिस्वरूपे कवयो मोहिताः । तर्हि शापादिनैवेत्याशङ्कां परिहर्तुमुत्तरपादं व्याचक्षाणोऽवतारयति– नचेति ।। १७ ।।

भावप्रकाशिका

ननु कर्मादिज्ञानमपि कस्यचिन्मुक्तिसाधनं चेत्, ‘नान्यः पन्था अयनाय’ इत्यादिश्रुति-विरोध इत्याशङ्क्य, श्रुतिविरोधमुत्तरश्लोकव्याख्यया परिहरिष्यन् कर्मादिज्ञानं विना न कस्यापि मुक्तिरिति भावेन तावन्निरन्तरं श्लोकमवतार्य तत्र प्रमाणमाह– न केवलमित्यादिना ।।

अत्र केचित् विकर्माकर्मशब्दयोः प्रतिषिद्धमेवार्थमाहुः । तद्व्युदासाय तयोरर्थभेदमाह–अकर्मेत्यादिना । श्रुत्या विहिताकाम्यानुष्ठानं कर्म । ‘कुरु कर्म’ इत्यादिनाऽत्राकाम्यस्यैव प्रस्तुतत्वात् । कर्माकरणम् अकर्म । ताभ्यामन्यत् सर्वमपि विकर्म, बन्धकत्वात् । बन्धस्या-निष्टत्वात्, इष्टसाधनस्यैव विधेयत्वादिति भावः । अध्याहारादिक्लेशपरिहारार्थमन्वयं च सूचयति– तत इति । कर्माकर्मान्यद्विकर्मेति यदुक्तं ततो विकर्मणो विविच्य कर्माकर्म च बोद्धव्यम् । न चात्र ‘कर्माकर्म च’ इत्यध्याहारः । ‘तत् ते (ऽ) कर्म’ इति प्रकृतत्वा-दुभयोरपि । अनेन ‘बोद्धव्यं च विकर्मणः’ इत्यस्यार्थो दर्शितः । इतरयोरर्थप्रदर्शनाय आदि-शब्दश्चरमः । तथाहि कर्मणो विविच्याकर्म विकर्म च बोद्धव्यम् । ‘तत् तेऽकर्म’ इत्यत्रा-करणीयत्वेन विकर्मणोऽप्यकर्मशब्दोक्तत्वेन प्रस्तुतत्वान्न तस्याप्यध्याहारः । एवमकर्मणो विविच्य कर्म विकर्म बोद्धव्यमित्यर्थः । कवीनां मोहश्चेत्, शापादिरेव कारणमित्याशङ्कां परिहर्तुमन्त्यपादमवतारयति– नचेति ।। १७ ।।

प्रमेयदीपिका

 ननु ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात्’ (४.१६) इत्यनेनैव कर्मादिस्वरूपं मुमुक्षुणा ज्ञातव्यमिति लब्धम् । तत्किमर्थं ‘कर्मणो हि’ इत्याद्युच्यते? इत्यत आह– न केवलमिति ।। तत् कर्मादिकम् । सिद्धे सत्यारम्भो नियमार्थ इति भावः ।।

अत्रैव प्रमाणमाह– तच्चेति ।। दर्शनापेक्षया समानकर्तृकत्वात् क्त्वानिर्देशः । कर्मशब्दार्थो भगवतैव वक्ष्यते । अकर्मविकर्मशब्दार्थावाह– अकर्मेति ।। किं तद्विकर्म? इत्यत आह– निषिद्धमिति ।। एवं चेत् कामाद्युपेतस्य कुत्रान्तर्भावः? इति चेद्, विकर्मणीति ब्रूमः । कथं तस्य निषिद्धत्वम्? इत्यत आह– बन्धकत्वादिति ।। अस्त्वेवं शब्दार्थः । योजना तु कथम्? इत्यतो लाघवार्थं द्वितीयपादयोजनां तावदाह– तत इति ।। ततः विकर्मणः । कर्मादि कर्माकर्म च । इत्यादि इत्यनेनाद्यतृतीयपादयोजनां सूचयति । ‘कर्मणो विविच्य विकर्मादि बोद्धव्यम्, अकर्मणश्च विविच्य कर्मादि बोद्धव्यम्’ इति ।।

ननु ‘कवयोऽप्यत्र मोहिताः ’ इत्यनेन कर्मादेदुर्ज्ञेयत्वमुक्तम् । तत्पुनः किमर्थमुच्यते? इत्यत आह– नचेति ।। ज्ञातुं ‘स्वभावेन’ इति शेषः । एतच्च श्रोतुरधिकादरजननार्थमिति ज्ञेयम् ।। १७ ।।

भावबोधः

।। दर्शनापेक्षयेति ।। न तु यातीति भगवत्कर्तृकक्रियापेक्षया । दर्शनाज्ञानयोरुभयोरपि जीवकर्तृकत्वेन समानकर्तृकत्वमिति भावः । कर्मशब्दार्थ इति ।। कर्मण्य-कर्मेत्यादिनेत्यर्थः । लाघवार्थमिति ।। निषिद्धं कर्मेति तस्य प्रकृतत्वात् ‘ततः’ इति परामर्श-सौकर्येण लाघवार्थमित्यर्थः । स्वभावेनेति ।। पूर्वं कवीनां मोहितत्वमात्रमुक्तम् । तच्च कर्मणः स्वभावतः सुज्ञेयत्वेऽपि शापादिना अन्यथासिद्धमिति शङ्कापरिहाराय ‘गहना कर्मणो गतिः’ इति स्वभावेनैव कर्मणो दुर्विज्ञेयत्वोक्तेः न पुनरुक्तिशङ्केति भावः ।। १७ ।।

भावदीपः

।। दर्शनापेक्षयेति ।।‘याति’ इत्युक्तक्रियां प्रति हरेः कर्तृत्वेऽपि दर्शनस्य, ‘अज्ञात्वा’ इत्युक्ताज्ञानस्य च जीवैककर्तृकत्वात् ‘समानकर्तृकयोः पूर्वकाले’ (पा.सू. ३.४.२६) इत्युक्तत्वात् क्त्वाश्रुत्युपपत्तिरित्यर्थः । कामादिकमज्ञात्वा भगवन्तं कः पश्यतीति यावत् ।। वक्ष्यत इति ।। ‘कर्मणि’ इत्यादावित्यर्थः ।। लाघवार्थमिति ।। ततः इत्यनेन प्रागुक्त-विकर्मपरामर्शादिति भावः । श्रोतुरधिकादरेति ।। शापादिना दुर्ज्ञेयत्वे शापादिहीनानां सुज्ञेयत्व-प्राप्त्या जिज्ञासा नोदीयात् । स्वभावत एव दुर्ज्ञेयत्वोक्तौ जिज्ञासोदयद्वारा श्रोतुरधिकादरो भवतीति ‘गहना कर्मणो गतिः’इत्युक्तमित्यर्थः ।। १७ ।।

वाक्यार्थप्रदीपः

ननु च ‘समानकर्तृकयोः पूर्वकाले’ इति समानकर्तृकत्व एव क्त्वाप्रत्यविधानात् यातीति क्रियां प्रति भगवतः कर्तृत्वादज्ञानलक्षणक्रियां प्रति जीवस्य कर्तृत्वात् समानकर्तृकत्वाभावात् कथमज्ञात्वेति क्त्वाप्रत्यय इत्यतो यातीति भगवत्कर्तृकक्रियापेक्षया समानकर्तृकत्वाभावेऽपि दर्शनज्ञानयोरुभयोरपि जीवकर्तृकत्वेन दर्शनापेक्षया समानकर्तृकत्वाद् युक्तः क्त्वाप्रत्यय इति भावेनाह– दर्शनापेक्षयेति ।।

भावरत्नकोशः

।। कर्मादिस्वरूपं कर्माकर्मविकर्मस्वरूपम् । कर्मणोऽनुष्ठेयतया ज्ञातव्यत्वम् । अकर्मविकर्मणोः हेयतया तत्त्वमिति विवेकः । ‘तत्’ इत्यनूद्यार्थमाह– तत् कर्मादिकमिति ।। ननु ‘याति’ इत्युक्तक्रियायाः अज्ञानसमानकर्तृकत्वाभावात् कथम् ‘अज्ञात्वा’ इति क्त्वाप्रत्ययनिर्देशः? ‘समानकर्तृकयोः पूर्वकाले क्त्वा’ इति स्मरणादित्यत आह– दर्शना-पेक्षयेति ।। अज्ञानदर्शनयोर्जीवरूपैककर्तृकत्वाद् युक्तः क्तवानिर्देश इत्यर्थः । भाष्ये ‘विकर्मकम्’ इति स्वार्थे कन्प्रत्ययः । दर्शनमेव किमर्थमापादनीयमित्यत उक्तं भाष्ये- कुत इति ।। तद्विना दर्शनं विना मुक्तिः कुतः कस्मात्साधनाद्भवेदित्यर्थः । प्रथमप्राप्तकर्मशब्दार्थानुक्तौ बीजमाह– कर्मशब्दार्थ इति ।। वक्ष्यत इत्यनन्तरम् ‘इतिशब्दः’ अध्याहार्यः । कर्मण्यकर्म यः पश्येदित्यत्र वक्ष्यत इति हेतोरित्यर्थः । भाष्ये नञ अभावे व्युत्पन्नत्वात् कर्माकरणमिति, विशब्दो विलक्षणार्थ इति भावेन कर्माकर्मान्यद्विकर्मेति चोक्तम् । एवं चेत् निषिद्धस्यैव ग्रहणं यदि तर्हि । कामा-द्युपेतस्य कामक्रोधसंवलितस्य ।।

कथमिति ।। ‘विकर्म निषिद्धम्’ इत्युक्तत्वात् काम्यस्य श्येनादेश्च ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’, ‘श्येनेनाभिचरन् यजेत’ इत्यादिवेदविहितत्वाद् वेदविरुद्धस्यैव निषिद्धत्वादिति भावः । बन्धकत्वादितीति ।। काम्यादेरपि बन्धकत्वाविशेषात् युक्तो निषिद्धान्तर्भाव इति गीता-भाष्ययोस्तदनुक्तिः नेति भावः । शब्दार्थः अकर्मादिशब्दार्थः । लाघवार्थमिति ।। निषिद्धकर्मणः प्रकृतत्वात् ‘ततः’ इति तत्परामर्शसौकर्यलाघवार्थमित्यर्थः । ‘सूचयति’ इत्युक्तमेव दर्शयति– कर्मणो विविच्येति ।। विकर्मादि विकर्म अकर्म च । कर्मादि कर्म विकर्म च । उच्यते ‘गहना’ इत्यनेन । उक्तपुनरुक्तिपरिहारायाह– स्वभावेनेति शेष इति ।।

कवयोऽप्यत्र’ इति दुर्विज्ञेयत्वे उक्ते तस्य शापप्रतिषिद्धाचरणादिनाऽन्यथासिद्धिशङ्कायाम् इह स्वभावेनैव दुर्विज्ञेयत्वमस्येति वक्तुं ‘गहना’ इत्युक्तमिति न पुनरुक्तिरिति भावः । ‘अशक्यं च’ इति भाष्ये चशब्द एवार्थः । एतच्च स्वभावेनैव दुर्विज्ञेयत्ववचनं च । अधिकेति ।। दुर्विज्ञेयत्वं शापादिना चेद्भवति तर्ह्यप्राप्तशापानां सुज्ञेयत्वं स्यादिति न तत्र तादृशो जिज्ञासाऽऽदरः स्यात्, यादृशः स्वभावेनैव दुर्विज्ञेयत्वोक्तौ भवतीति तदर्थमेव ‘गहना कर्मणो गतिः’ इत्यवोचदित्यर्थः

।। १७ ।।

गीताक्षरार्थस्तु - कर्मादिस्वरूपं ज्ञात्वैव मुच्यते नान्यथेत्यतः तत्स्वरूपज्ञानमावश्यकमिति भावेनोच्यते कर्मणो हीति ।। कर्मणः ‘विविच्य’ इति शेषः । बोद्धव्यं विकर्माकर्म च बोद्धव्यम्, विकर्मणश्च निषिद्धत्वात् । विविच्य कर्माकर्म च बोद्धव्यम् । अकर्मणश्च कर्माभावाद् विविच्य कर्म विकर्म च बोद्धव्यम् । कुत एवं विविच्य ज्ञातव्यमिति विधीयत इत्यत उक्तम्– गहनेति ।। कर्मणः कर्मादेः गतिः स्थितिरिति यावत् । गहना दुर्विज्ञेया । ‘कवयोऽप्यत्र मोहिताः’ इति दुर्विज्ञेय-त्वोक्तावपि पुनरत्र तद्वचनं शापादिप्रबलकारणोपनिपातनिबन्धनं न दुर्विज्ञेयत्वं, किन्नाम स्वभावे-नैवेति दर्शयितुम् । एतच्च श्रोतुरधिकादरजननार्थमिति ज्ञेयम् ।। १७ ।।

भावदीपिका

।। सिद्धे सतीति ।। ‘यज्ज्ञात्वा’ इत्यनेनैव कर्मादिस्वरूपस्य मुमुक्षुणा ज्ञातव्यत्वे सिद्धे सतीत्यर्थः । आरम्भः ‘कर्मणो हि’ इति पुनरारम्भः । नियम एव प्रदर्शितो भाष्ये– ज्ञात्वैवेति ।। ननु यातीत्युक्तक्रियायां भगवतः कर्तृत्वात् ‘अज्ञात्वा’ इत्यत्र जीवस्य कर्तृत्वेन समानकर्तृकत्वाभावात् कथम् ‘अज्ञात्वा’ इति क्त्वाप्रत्ययः? इत्यत आह– दर्शनेति ।। दर्शनं यातीत्यस्य जीवकर्तृकदर्शनविषयो भवतीत्यर्थः । तथा चाज्ञानदर्शनयोरुभयोरपि जीवकर्तृकत्वेन समानकर्तृकत्वाद्युक्तः क्त्वाप्रत्यय इत्यर्थः । ननु भाष्येऽकर्मविकर्मशब्दार्थ एवोच्यते, न कर्मशब्दार्थ, तत्र निमित्तमाह– कर्मशब्दार्थ इति ।। वक्ष्यत इति ।। ‘कर्मण्यकर्म’ इत्यादिनेति शेषः ।। कामाद्युपेतस्येति ।। काम्यकर्मण इत्यर्थः ।। लाघवार्थमिति ।। ‘निषिद्धं कर्म’ इति भाष्ये तस्य प्रकृतत्वात् ‘ततः’ इति परामर्शसौकर्येण लाघवार्थमित्यर्थः । सूचनाप्रकारमेव दर्शयति– कर्मण इति ।। तत् दुर्ज्ञेयत्वम् ।। स्वभावेनेति ।। पूर्वकवीनां मोहितत्वमात्रमुक्तम् । तच्च कर्मणः स्वभावतः सुज्ञेयत्वेऽपि शापादिनाऽन्यथासिद्धमिति शङ्कापरिहाराय ‘गहना कर्मणो गतिः’ इति स्वभावेनैव कर्मणो दुर्ज्ञेयत्वोक्तेर्न पुनरुक्तिशङ्केति भावः । एतत् स्वभावतो ज्ञातुमशक्यत्वकथनम्

।। १७ ।।

भावप्रकाशः

 ननु यातीत्युक्तक्रियया ज्ञानस्य समानकर्तृकत्वाभावात् कथं क्त्वानिर्देश इत्यत आह– दर्शनापेक्षयेति ।। उभयोर्जीवकर्तृकत्वादिति भावः । ननु प्रथमप्राप्त-कर्मशब्दार्थानुक्तिः कुत इत्यत आह– कर्मशब्दार्थ इति ।। कर्मण्यकर्मेत्यनेनेति शेषः । लाघवार्थमिति ।। निषिद्धकर्मणः प्रकृतत्वात्तत इति परामर्शसौकर्यलाघवार्थमित्यर्थः । एवमपि कथं पुनरुक्तिपरिहार इत्यत आह– स्वभावेनेति ।। शेष इति ।। प्राग्दुर्विज्ञेयत्वमात्रोक्तेस्तस्य शापादि-नाऽन्यथासिद्धिशङ्कायामिह स्वभावेनैव दुर्विज्ञेयत्वमुच्यत इति न पुनरुक्तिरिति भावः ।। १७ ।।