इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ।। ७ ।।

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।

मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ।। ७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- इह त्वया दर्शनीये मम देहे । कृत्स्नम् इत्यस्य विवरणम्– सचराचरमिति ।। जगद् एकस्थम् एकदेशे स्थितम् अद्य पश्य । गुडाकेश जितनिद्र इति सम्बोधनम् । यच्च अन्यत् तव योग्यं द्रष्टुमिच्छसि तच्च प्रदर्शयिष्यामीति योज्यम् ।। ७ ।।