यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ।। २७ ।। समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। २८ ।। समं पश्यन्ति सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ।। २९ ।।

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ।। २७ ।।

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ।। २८ ।।

समं पश्यन्ति सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ।। २९ ।।

भाष्यम्

पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुक्तमाह यावत् इत्यादिना

।। २७,२९ ।।

भावप्रदीपिका

(प.टी.)अध्यायशेषार्थमाह –पुनरिति ।। तर्हि पुनरुक्तिरित्यत आह– साम्यादीति ।। ईश्वरसाम्यम्, प्रकृतेः परिणामित्वम्, जीवस्याकर्तृत्वमिति

।। २७,२९ ।।

प्रमेयदीपिका

‘तत् क्षेत्रं यच्च’ (गी.१३.४) इति प्रतिज्ञातस्य सर्वस्योक्तत्वात् किमुत्तरेणेत्यत आह– पुनश्चेति ।। उक्तस्य पुनर्वचने को हेतुरित्यत उक्तम्– साम्यादीति ।। ईश्वरधर्मस्योभयधर्मात् प्राधान्येन साम्यग्रहणम् । तत्र प्रकृतिपुरुषधर्मकथनं ‘यादृक्’ इति प्रतिज्ञाते अन्तर्भवति । ईश्वरधर्मकथनं च ‘यत्प्रभावः’ इति ।। २७-२९ ।।

भावबोधः

ननु ‘यावत्सञ्जायते’ इति गीतानुसारेण प्रकृतिधर्मादित्वेन वक्तव्ये अनन्तरोक्तेश्वरधर्मादित्वेन वचने को हेतुरित्यत आह– ईश्वरधर्मस्येति ।। कार्योपादानत्व-तदुपादानकशरीरयोगित्वरूपात् प्रकृतिपुरुषोभयधर्मादित्यर्थः ।। २७–२९ ।।

भावदीपः

भाष्ये ‘साम्यादिधर्म’ इत्यत्र साम्यपदेनेश्वरधर्मस्य, आदिपदेन कार्योपादानत्वप्रकृत्यपादानकदेहयोगित्वरूपयोः प्रकृतिपुरुषधर्मयोरुपादानं प्रकृतिपुरुषेश्वरस्वरूप-मिति निर्देशव्युत्क्रमतया कुतः कृतम् इत्यत आह– ईश्वरेति ।। अप्रतिज्ञातोक्तदोषं निराह– तत्र प्रकृतीति । ‘यत्प्रभाव इति’ इत्यनन्तरं ‘प्रतिज्ञातेऽन्तर्भवति’ इत्यनुषङ्गः ।। २७,२९ ।।

भावरत्नकोशः

ननु प्रकृतिपुरुषेश्वरस्वरूपमिति निर्देशानुसारेण ‘कार्यो-पादनत्वादिधर्मयुक्तमाह’ इत्येव वक्तव्यम् । तथाऽनुक्त्वा, साम्यपदेनेश्वरधर्मं कण्ठरवेणाभिधाय आदिपदेन प्रकृतिपुरुषधर्मग्रहणे को हेतुः इत्यत आह– ईश्वरधर्मस्येति ।। उभयधर्मात् कार्योपादानत्वरूपप्रकृतिधर्मात् प्रकृत्युपादानकदेहयोगित्वरूपपुरुषधर्मादित्येवम् उभयधर्मादित्यर्थः । अप्रतिज्ञातोक्तित्वनिरासायाह– तत्र प्रकृतीति ।। इति ‘प्रतिज्ञातेऽन्तर्भवति इति वर्तते

।। २७–२९ ।।

गीताक्षरार्थस्तु– पूर्वं क्षेत्रशब्देन ईश्वरातिरिक्तः प्रकृतिपुरुषात्मकः सर्वोऽपि चेतनाचेतन-वर्गो विवक्षितः । तत्र क्षेत्रान्तर्भूता प्रकृतिः ‘महाभूतानि’ इत्यादिना निरूपिता । क्षेत्रान्तर्भूतः पुरुषश्च ‘पुरुषः प्रकृतिस्थो हि’ इत्यादिनोक्तः । एतन्नियामकभगवत्स्वरूपं च ‘उपद्रष्टा’ इत्यादिना व्याख्यातम् । पुनश्च प्रकृतिपुरूषईश्वरस्वरूपं सर्वकार्योपादानत्वप्रकृत्युपादानकदेह-योगित्वसर्वाधिष्ठानसमत्वरूपधर्मयुक्ततया निरूप्यते– यावत्सञ्जायत इति ।।

यावत्किञ्चिद्वस्तुमात्रम् । किंरूपं तत् । स्थावरात्मकं जङ्गमात्मकं च । सत्त्वं जीव-जातम् । ‘सत्त्वं जीवः क्वचित्प्रोक्तः’ हति वचनात् प्रमाणेन लक्ष्यते । तत् सर्वं क्षेत्रक्षेत्रज्ञ-संयोगात् क्षेत्रं श्रीदेवी, ‘सत्त्वात् सञ्जायते’ इत्येतद्वाक्यविवरणभाष्ये ‘मम योनिः’ इत्युत्तरा-ध्यायगते वाक्ये लक्ष्मीनारायणसंयोगात् सर्वभूतसम्भवस्योक्तत्वात् ‘अव्यक्तं च महद्ब्रह्म प्रधानं क्षेत्रमित्यपि । उच्यते श्रीः’ इति वचनाच्चात्र क्षेत्रशब्देन तस्याः ग्रहणं युक्तम् । क्षेत्रज्ञः भगवान् तयोः संयोगात् सञ्जायते इति विद्धि जानीहि । भरतर्षभ भरतश्रेष्ठ इति पार्थसम्बुद्धिः । अत्र श्रीदेव्यभिमन्यमानजडप्रकृतेः क्षेत्रशब्दार्थस्य सर्वकार्योपादनत्वरूपो धर्मः, सत्त्वं क्षेत्रसंयोगा-दुत्पद्यत इति सत्त्वशब्दार्थस्य पुरुषस्य प्रकृत्युपादानकदेहयोगित्वरूपधर्मश्च निरूपितो वेदितव्यः

।। २७ ।।

 गीताक्षरार्थस्तु यदुक्तं ‘क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धि इति, ‘देहेऽस्मिन् पुरुषः परः’ इति च, परमेश्वरस्य सर्वशरीरस्थत्वम् तदयुक्तम् । सुरनरतिर्यगादिशरीराणां तारतम्य-वत्त्वेन तत्र स्थितस्य परमेश्वरस्यापि तारतम्यापत्तेः । ‘भुङ्क्ते प्रकतिजान्गुणान्’ इत्युक्तदुःखि-जीवेन सहावस्थितस्य तस्य दुःखप्राप्तेश्च, इत्यत उच्यते– सममिति ।। सर्वेषु उच्चावचेषु भूतेषु प्राणिषु तिष्ठन्तं परमेश्वरं भगवन्तं यः समं तारतम्यरहितं पश्यति, तथा भूतेषु विनश्यत्सु अपि

अनित्यत्वं देहहानिः दुखप्राप्तिरपूर्णता । नाशश्चतुर्विधो ज्ञेयः’

इति शास्त्रेण दुःखयोगदेहहान्योर्नाशशब्दितग्रहणात् दुःखयोगदेहहानिरूपनाशवत्स्वपि, अविनश्यन्तं दुःखयोगादिरहितम्, तरतमभावापन्नदेहेषु तिष्ठतः समत्वम्, दुःखयोगिजीव-सहभावेऽपि दुःखाप्राप्तिं च उपपादयितुं परमेश्वरमित्युक्तम् । अचिन्त्यशक्तिसम्पन्नमित्यर्थः । एवंविधं पश्यति साक्षात्करोति सः पश्यति स एव ज्ञानी भवति । अत्र भगवतः स्थानतारतम्य-निबन्धननीचोच्चताहीनतया समस्तसद्गुणसम्पूर्णत्वलक्षणं समत्वम् दुःखिसहभावेऽपि दुःखास्पृष्टत्वं च विभावितं ज्ञातव्यम् । तथा चोक्तं भगवता सूत्रकारेण ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इति । ‘सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् इति ।। २८ ।।

 गीताक्षरार्थस्तु एवं जानन्नेव ‘ज्ञानी’ इत्युक्तम् । तज्ज्ञानफलमुच्यते– सममिति ।। सर्वत्र स्थावरजङ्गमेषु समवस्थितं सम्यङि्नयामकतया अवस्थितं समं समस्तसद्गुणैरेकप्रकार-मीश्वरम् अचिन्त्यशक्तिं भगवन्तं पश्यन् साक्षात्कुर्वदात्मना बुद्ध्या आत्मानं स्वात्मानं न हिनस्ति नरके न पातयति । प्रत्युत ततो ज्ञानात् परां गतिं मुक्ति याति हि प्राप्नोत्येव । पूर्वश्लोकोक्तार्थानुवादः न पूर्वार्ध इति द्योतनाय हिशब्द इत्यपि आहुः ।। २९ ।।

भावदीपिका

ननु ‘यावत्सञ्जायते’ इति गीतानुसारेण प्रकृतिधर्मादित्वेन वक्तव्येऽनन्तरोक्तेश्वरधर्मादित्वेन वचने को हेतुः इत्यत आह– ईश्वरधर्मस्येति ।। कार्यो-पादानत्वप्रकृत्युपादानकशरीरादियोगित्वरूपात् प्रकृतिपुरुषधर्मादित्यर्थः ।। २७-२९ ।।

भावप्रकाशः

अन्यादिशब्दस्य व्यक्तिभेदवाचित्वादित्यत उक्तम्– अवस्था-भेदमाश्रित्येति । तथाच व्यक्तिभेदस्य बाधितत्वात् । अग्न्यादिशब्दस्यावस्थाविशेषविशिष्ट-व्यक्तिभेदार्थत्वमिति भावः । ननु प्रकृत्यादिस्वरूपस्य धर्मयुतस्य वक्तव्यत्वे ईश्वरधर्मस्य साम्यस्य कण्ठरवेणाभिधाने को हेतुरित्यत आह– ईश्वरधर्मस्येति ।। कार्योपादानत्व-तदुपादानकशरीरादियोगित्वरूपात् प्रकृतिपुरुषधर्मादित्यर्थः ।। २७,२८ ।।