यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ।। १४ ।।

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदां लोकानमलान् प्रतिपद्यते ।। १४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तत्तद्गुणवृद्ध्यवस्थायां परेतानां गतिभेद उच्यते– यदा सत्त्व इत्यादिना ।। देहभृद् जीवः प्रलयं मरणम् उत्तमविदां सर्वोत्तमविष्णु-ज्ञानिनां लोकान् देहान् प्रतिपद्यते । सात्त्विकानां कुले सत्त्वगुणप्राकट्यानुकूलदेहयोगी जायत इति तात्पर्यम् ।। १४ ।।