वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः।। १० ।।

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावमागताः।। १० ।।

भाष्यम्

सन्ति च तथा मुक्ता इत्याह– वीतरागेति ।। मन्मयाः मत्प्रचुराः। सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः ।। १० ।।

भावप्रदीपिका

एतज्ज्ञानेन मुक्तजातस्य प्रत्यक्षसिद्धत्वेनात्र श्रद्दधस्वेत्यभि-प्रायेणोत्तरश्लोकमवतारयति – सन्तीति । ‘मन्मय’पदमन्यथाप्रतीतिनिरासाय व्याचष्टे– मन्मया इति । मन्मया इति कथं भगवत्प्राचुर्यं तेषामित्यत आह– सर्वत्रेति । सर्वत्र नियामकत्वेन हरिरेव स्थित इति जानन्तीत्यर्थः ।। १० ।।

भावप्रकाशिका

तत्त्वतो भगवज्जन्म कर्म च ज्ञात्वा बहवो मुक्ताः । अतोऽस्मिन्नादरः साधने कर्तव्य इति भावेनोत्तरं श्लोकमवतार्य व्याचष्टे– सन्ति चेति । सर्वेषु पदार्थेषु स्थितं हरिं विनाऽन्यं न पश्यन्तीत्यर्थः ।। १० ।।

प्रमेयदीपिका

किञ्च, उत्तरश्लोेेकेऽधिकानुवादान्नात्रैतावन्मात्रं विवक्षितमिति भावेन तत्तात्पर्यमाह– सन्ति चेति ।। तथा उक्तज्ञानेन । आह ‘श्रद्धोत्पादनार्थम्’ इति शेषः । ‘मन्मया मदात्मकाः’ इति प्रतीतिनिरासार्थमाह– मन्मया इति ।। सर्वेषां भगवान् प्रचुरः । को विशेषो ज्ञानिनाम्? इत्यत आह– सर्वत्रेति ।। सर्वेषु पदार्थेषु । किञ्चित् सत्तादिकम् । मदायत्तमेव सर्वं पश्यन्ति इत्यर्थः ।। १० ।।

भावदीपः

।। तथा इत्यनुवादः, ‘उक्तज्ञानेन’ इति व्याख्या । स्वयोग्य-सर्वज्ञानेनेत्यर्थः ।। ‘आह’ इत्यनुवादेन तत्र शेषमाह– आहेति ।। १० ।।

भावरत्नकोशः

।। अधिकानुवादात् ‘मन्मया मामुपाश्रिताः’ इति जन्मकर्म-ज्ञानमात्रापेक्षया अधिकस्य मोक्षसाधकत्वेनानुसङ्कीर्तनात् । अत्र ‘जन्म कर्म’ इति श्लोके । एतावन्मात्रं जन्मकर्मज्ञानमात्रम् । ‘तथा’ इत्यनूद्यार्थमाह– तथेति ।। स्वयोग्यसर्वज्ञानेनेत्यर्थः । मदात्मका इति ।। मयट् तादात्म्यार्थे इति प्रत्येतुर्हृदयम् ।। प्रचुर इति । प्रधानभूत इत्यर्थः । अनेन ‘मयट् प्राचुर्यार्थः’ इत्युक्तं भवति । सत्तादिकं सत्ताप्रवृत्त्यादिकम् । पदार्थेषु मां विना सत्तादिकं न पश्यन्तीत्यस्य तात्पर्यमाह– मदायत्तमेवेति ।। १० ।।

गीताक्षरार्थस्तु - एवंविधज्ञानेन मोक्षोऽस्तीत्यत्र श्रद्धोत्पादनार्थमुच्यते– वीतरागेति ।। वीतः विगतः रागो विषयाभिलाषः, भयं मरणादेः, क्रोधश्च येभ्यस्ते तथोक्ताः । मन्मया मत्प्रचुराः सर्वपदार्थेषु सत्तादिकं मदायत्तमेव जानन्त इति यावत् । मामुपाश्रिताः मदेकशरणाः । मद्भजन-परायणा इत्यर्थः । स्वयोग्योपासनाविषयगुणविशिष्टभगवज्ज्ञानस्य तपसा पूताः दग्धाशुभकर्माणः बहवो ज्ञानिनः मद्भावं मयि सत्तां सायुज्यलक्षणां स्थितिम् अष्टमे वक्ष्यमाणरीत्या मद्वद्भावं वा आगताः । ‘गत्यर्थाकर्मक’ इत्यादिना कर्तरि क्तः, प्राप्तवन्तः सन्तीति ।। १० ।।

भावदीपिका

।। अधिकानुवादादिति ।। जन्मकर्मज्ञानापेक्षयाऽप्यधिकस्य ‘मन्मया मामुपाश्रिता’ इति विशेषणस्याधिकस्योक्तत्वात् ‘जन्म कर्म च’ इति श्लोके जन्मकर्म-परिज्ञानमात्रमेव मोक्षसाधनत्वेन न विवक्षितमित्यर्थः । उक्तज्ञानेनेति ।। महाकौर्मादिप्रमाणाभिप्रेत-यथाशक्तिसर्वपरिज्ञानेनेत्यर्थः ।। सर्वेषां भगवान् प्रचुर इति ।। भगवतः सर्वोत्तमत्वरूपं प्राचुर्यं सर्वान् प्रत्यप्यविशिष्टमित्यर्थः । ‘सर्वत्र’ इत्यस्यार्थमाह– सर्वेष्विति ।। वाक्यस्य फलितमाह– मदायत्तमिति ।। १० ।।

भावप्रकाशः

।। अधिकानुवादादिति ।। ‘मन्मया’ इत्यादिनेति शेषः ।। १० ।।