यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ।। ३७ ।।

यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ।। ३७ ।।

भावरत्नकोशः

अक्षरार्थस्तु ज्ञानस्य पापनाशकत्वं दृष्टान्तेन प्रत्याय्यते– यथेति ।। एधांसि काष्ठानि समिद्धः अतिदीप्तः अग्निः यथा भस्मसात्कुरुते भस्मीभूतानि कुरुते, तथा ज्ञानाग्निः ज्ञानाख्याग्निः सर्वकर्माणि पापानि भस्मसात्कुरुते निर्मूलयति । तथा च सूत्रम् ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’ इति ।। ३७ ।।