महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। १३ ।।
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ।। १३ ।।
भाष्यम्
नेतरे द्विषन्तीति दर्शयितुं देवानाह– महात्मान इति ।। १३ ।।
भावप्रदीपिका
न त्वद्दोषेण द्वेषः, किन्त्वात्मदोषेणैवेति कुतो ज्ञायत इत्युत्तरश्लोकमवतारयति– नेतर इति ।। १३ ।।
प्रमेयदीपिका
ननु कुतोऽयं विवेकः? इत्याकाङ्क्षायां राक्षसादिभ्य इतरे न द्विषन्तीत्येतावदेव वक्तव्यम् । ‘भजन्ति’ इत्यादि तु व्यर्थमित्यत आह– नेतर इति ।। सत्यमेतत् । तथाऽपि देवानां स्वरूपकथनार्थमेतत् । तच्च द्वेषाभावोपपादनार्थ-मिति भावः ।। देवान् इत्युत्तमजीवोपलक्षणम् ।।
भावदीपः
।। अयं विवेक इति ।। राक्षसादिस्वभावाः प्रद्विषन्तीत्येवंरूप इत्यर्थः ।। १३ ।।
भावरत्नकोशः
।। अयं ‘राक्षसादिस्वभावा एव द्विषन्ति’ इत्येवंरूपः । एतत् ‘न द्विषन्ति इत्येतावदेव वक्तव्यम्’ इत्येतत् । एतत् ‘भजन्त्यनन्यमनस’ इत्येतत् । वैयर्थ्यपरिहारायाह– तच्चेति ।। ननु ‘भजन्ति’ इत्यादिकं कथं देवस्वरूपकथनरूपम् । ऋषि-गन्धर्वादिष्वतिप्रसङ्गात् इत्यतो ‘देवमानुषदानवाः’ इत्यादाविवात्र देवशब्दो मुक्तियोग्यजीवमात्रपर इत्याह– देवानिति ।।
ननु ‘राक्षसादिस्वभावा एव द्विषन्ति, नेतरे’ इत्येवं विवेकः कुत इत्याकाङ्क्षायां यतो राक्षसादिभ्य इतरे न द्विषन्तीति वक्तुम् उत्तमजीवानां स्वरूपं कथ्यते द्वेषाभावोपपादनार्थम्– महात्मानस्त्विति ।। दैवीं प्रकृतिं मुक्तियोग्यस्वभावं महान् आत्मा मनो येषां ते महात्मानः महापुरुषा तु भूतादिं भूतानां कारणम् अव्ययं मां ज्ञात्वा निश्चितपरोक्षतत्त्वा इति यावत् । अनन्यमनसः मदेकचित्ताः सन्तो मां भजन्ति ।। १३ ।।
भावदीपिका
।। अयं विवेक इति ।। ‘स्वमौढ्यादेव मामवजानन्ति, न मद्दोषात्’ इति विवेक इत्यर्थः । तच्चेति ।। उत्तमानां स्वभावकथनमित्यर्थः । देवानिति ।। ‘त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः’ इति जीवत्रैविध्यविवक्षायां देवशब्दस्योत्तमजीवोप-लक्षकताया दृष्टत्वादिति भावः ।। १३,१४ ।।
भावप्रकाशः
ननु भजतीत्याद्युक्तं कथं देवस्वरूपम् । गन्धर्वादिष्विति प्रसङ्गात् । किंच राक्षसादीतरेषु द्वेषाभावसाधनाय तदितरानाहेति वक्तव्यम् । देवानाहेति कथमुक्तमित्यत आह– उत्तमजीवोपलक्षणमिति ।। अनेन दैवीं प्रकृतिमित्यपि व्याख्यातम्
।। १३ ।।