ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।। २ ।।
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ।। २ ।।
भाष्यम्
इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ।। २ ।।
भावप्रदीपिका
‘असंशयम्’ इतिवत् तव मोक्षार्थं समग्रं यथा भवति तथेत्यर्थः । ज्ञानस्यापुरोवर्तित्वात् कथम् ‘इदम्’ इति परामर्श इत्यत आह– इदमिति । ‘विज्ञान’पदेनात्र नापरोक्षज्ञानमिति भावेनाह– विज्ञानमिति ।। २ ।।
भावप्रकाशिका
‘मां यथा ज्ञास्यसि’ इति प्रस्तुतत्वात् भगवद्विषय-ज्ञानस्येदन्तया निर्देश इति भावेनाह– इदमिति । ‘रसोऽहम्’ इत्यादिवक्ष्यमाणानन्त-विशेषान् विज्ञानपदोद्दिष्टान् भगवत्यसहमानेन मायिनाऽऽच्छादितं ‘सविज्ञान’पदं ‘सविज्ञानं स्वानुभवसंयुक्तम्’ इति । तत् पुनः प्रकाशयति– विज्ञानमिति ।। २ ।।
प्रमेयदीपिका
ननु ज्ञानं वक्ष्यते, न तूक्तम् । तत्कथमिदमिति परामर्शः? इत्यत आह– इदमिति ।। ‘माम्’ इति स्वस्य प्रकृतत्वात्तत्सम्बन्धित्वेन ज्ञानमपि प्रकृतमिति भावः । ‘सविज्ञानं स्वानुभवसंयुक्तम्’ इत्येतदपाकर्तुं विज्ञानपदार्थमाह– विज्ञानमिति ।। अस्यैव वक्ष्यमाणत्वात् । अपरस्य तदभावादिति भावः ।। २ ।।
भावदीपः
।। वक्ष्यमाणत्वादिति ।। ‘स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम’ (१०.१५) इति दशमे वक्ष्यमाणत्वादित्यर्थः ।। २ ।।
भावरत्नकोशः
‘मद्विषयम्’ इति भाष्यभावोद्घाटनेन कृतचोद्यं परिहरति– मामितीति ।। ‘असंशयं समग्रं माम्’ इत्यस्मच्छब्देन भगवतः प्रकृतत्वात्, सम्बन्धित्वेन भगव-न्माहात्म्यमपि प्रकृतमिति इदंशब्दस्य तत्परामर्शित्वं युक्तमित्यर्थः । अनेन ‘मदीयमाहात्म्यविषयकं ज्ञानं तवोत्पादयिष्यामि’ इति भाष्यार्थ इत्युक्तं भवति । ‘सविज्ञानं विशेषमाहात्म्यविषयकज्ञानेन सहितमनुभवसंयुक्तम्’ इति सङ्करभाष्यं साभिप्रायमनुवदति– स्वानुभवसंयुक्तमित्येतदिति । अस्यैवेति ।। विशेषज्ञानपदोक्तस्य स्वयोग्यस्य माहात्म्यविशेषस्य ‘रसोऽहमप्सु कौन्तेय’ इत्यादिना वक्ष्यमाणत्वात् ।। अपरस्य स्वानुभवस्य तदभावात् वक्ष्यमाणत्वाभावाद् भाष्यकारीयमेव व्याख्यानं युक्तमित्यर्थः ।। २ ।।
गीताक्षरार्थस्तु- ‘श्रवणनिष्ठे वचनाधीने’ इत्यत उक्तम्– ज्ञानं तेऽहमिति ।। अत्र ज्ञान-विज्ञानशब्दौ ज्ञातव्यविज्ञातव्यभगवन्माहात्म्यपरौ । इदं ‘माम्’ इति प्रकृतत्वात् मद्विषयं मम सम्बन्धि ज्ञानं सामान्यतो ज्ञातव्यं माहात्म्यं सविज्ञानं विशेषतो ज्ञातव्यमाहात्म्येन सहितं वक्ष्यामि । ‘अशेषतः’ इत्यस्य यावदर्जुनयोग्यं तन्मध्ये शेषमकृत्वेत्यर्थः । तन्माहात्म्यं ज्ञात्वा अनुसन्दधतः भूयोऽन्यत् ज्ञातव्यम् अनुसन्धातव्यं नावशिष्यते । यज्ज्ञात्वा ज्ञातव्यमन्यत् नावशिष्यत इत्यत्र च ज्ञानक्रियापेक्षया क्त्वाप्रत्यय इति वा ।। २ ।।
भावदीपिका
।। स्वानुभवेति ।। ‘विज्ञानसहितं ज्ञानम्’ इत्यत्र विज्ञानशब्देन ज्ञानज्ञानरूपानुव्यवसायाख्यं स्वानुभवं गृहीत्वा ‘स्वानुभवसंयुक्तं स्वानुभवव्यवसायसंहितमिदं ज्ञानम्’ इति व्याख्यानमित्यर्थः । अन्ये तु ‘स्वानुभवसंयुक्तम् कृष्णानुभवसिद्धम्’ इत्यर्थ इत्याहुः । अपरस्येति ।। उत्तरत्र स्वानुभवस्याकथनादित्यर्थः ।। २ ।।