ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायां सप्तदशोऽध्यायः ।।
अर्जुन उवाच–
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ।। १ ।।
भाष्यम्
गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन । शास्त्रविधिमुत्सृज्य अज्ञात्वा एव। ‘वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति विधिरुत्सृष्टो हि तैः ।
भावप्रदीपिका
एतदध्यायप्रतिपाद्यं दर्शयति– गुणेति ।। गुणभेदज्ञान-मन्तरेण साधनानुष्ठानासम्भवात् साधनमेवोक्तं भवति । ये शास्त्रविधिमुत्सृज्य इत्यत्र हेयताबुद्ध्या विसर्ग इत्यन्यथाप्रतीतिनिरासायाह– शास्त्रेति ।। प्राप्तस्यैव त्याज्यत्वात् कथमज्ञाने विसर्गशब्दः ? इत्यत आह– वेद इति ।।
प्रमेयदीपिका
अध्यायार्थमाह– गुणेति ।। गुणनिमित्ताः श्रद्धादीनां भेदाः । ‘नान्यं गुणेभ्यः कर्तारम्’ इत्युक्तत्वात् प्रपञ्चयति इत्युक्तम् । ‘सात्त्विकानां पुमर्थसाधनत्वादनुष्ठेयत्वम्, अन्येषां तद्विरुद्धत्वात्, त्याज्यत्वं च ज्ञापयितुम्’ इति शेषः । शास्त्रविधिमुत्सृज्य इत्यस्य ‘वेदविधानमप्रामाण्यबुद्ध्या परित्यज्य’ इत्यर्थप्रतीतिं निवारयितुमाह– शास्त्रेति।। अज्ञानमेवात्रोत्सर्गः, न त्वप्रामाण्यबुद्ध्या त्याग इत्यर्थः ।। ननु प्राप्तपरित्याग उत्सर्गः । एवञ्च प्रतीतार्थ एव युक्तः । नतु ‘अज्ञात्वा’ इति । तत्राह– वेद इति ।। अर्थज्ञानपर्यन्तोऽयं विधिः । अयं च सर्वान् द्विजन्मनः प्राप्तः तैः अज्ञानिभिः उत्सृष्टश्च । अतः अज्ञात्वा इति युक्तमित्यर्थः ।।
भावबोधः
।। गुणनमित्ता इति ।। अनेन गुणैर्भेदानिति विग्रहः श्रद्धादीना-मिति शेषः सूचितो भवति । इत्युक्तत्वादिति ।। परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यतीति व्याख्यातत्वादिति भावः ।
भावदीपः
गुणैर्भेदाः श्रद्धाहारयज्ञतपःप्रभृतीनामिति विग्रहमुपेत्याह– गुण-निमित्ता इति ।। इत्युक्तत्वादिति ।। ‘परिणामः सर्वोऽपि गुणकृतः’ इत्युक्तत्वाच्चतुर्दश इत्यर्थः ।। प्रपञ्चनं किमर्थम् इत्यत आह– सात्विकानामिति।। धर्माणामित्यर्थः ।।
भावरत्नकोशः
।। अध्यायार्थमिति ।। सप्तदशाध्यायावान्तराभिधेय-मित्यर्थः । ननु सप्तदशेऽध्याये श्रद्धाहारयज्ञतपःप्रभृतीनामेव विभागस्य वक्ष्यमाणत्वावभासात् कथं ‘गुणभेदात्’ इति भाषणम् इत्यतो भाष्यं व्याचष्टे– गुणनिमित्ता इति ।। ‘गुणैर्भेदः’ इत्येव विग्रहः, तृतीया हेतौ, योग्यतया च श्रद्धादीनां सम्बन्ध इति, सत्त्वरजःतमोगुणभेदहेतुकः श्रद्धाऽऽहारादिभेद एतदध्यायप्रतिपाद्य इति भाष्यार्थ इति भावः । ‘गुणभेदान्’ इत्यत्र शाकपार्थिवादिवत् मध्यमपदलोपीसमास इति भावेनैवमुक्तम् इत्यपि आहुः । इत्युक्तत्वादिति ।। ‘परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यन्ति’ इति चतुर्दशाध्याये उक्तत्वात् श्रद्धादीनामपि गुणपरिणामत्वाद् अपौनरुक्त्याय ‘प्रपञ्चयति’ इति भाषितमित्यर्थः । प्रपञ्चनप्रयोजनमाह– सात्त्विकानामिति ।। श्रद्धाहारयज्ञादीनाम् । अन्येषां राजसतामसश्रद्धादीनाम् । तद्विरुद्ध-त्वात् पुमर्थविरुद्धत्वात् । चशब्दस्य ‘त्याज्यत्वं च’ इति सम्बन्धः ।।
भावदीपिकायां तु गुणभेदज्ञानमन्तरेण श्रद्धादिसाधनानुष्ठानासम्भवात् साधनमेवोक्तं भवतीत्यध्यायार्थप्रतिपादकभाष्यभाव उक्तः । ‘शास्त्रविधिम् वेदविधानं श्रुतिस्मृतिचोदनां परित्यज्य’ इति शङ्करभाष्यं सपरिकरं हृदि कृत्वोक्तम् – इत्यर्थप्रतीतिमिति ।। भाष्यस्थैवकारतात्पर्यमाह– अज्ञानमेवेति ।। एवं च सति चैवं प्रतीतार्थः त्यागरूपोऽर्थः । नाज्ञात्वेतीति ।। ‘अर्थः’ इति शेषः ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे ।
कुर्मः सप्तदशाध्यायटीका भावप्रदीपिका
।।
‘गुणैर्भेदा गुणभेदाः, तान्’ इति विग्रहः । तत्र योग्यतावशात् ‘श्रद्धादीनाम्’ इत्यस्य लाभ इत्याशयेनाह– गुणनिमित्ता इति ।। इत्युक्तत्वादिति ।। ‘परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति’ इति व्याख्यातत्वेन श्रद्धादीनामपि गुणत्रयात्मकप्रकृतिपरिणामित्वस्योक्तत्वादित्यर्थः । गुणनिमित्तकश्रद्धादिभेदकथनस्य किं प्रयोजनम् इत्यत आह– सात्त्विकानामिति ।। श्रद्धादीनामित्यर्थः । प्रतीतार्थ एवेति ।। शास्त्रविधिः प्रमाणतया सर्वान् प्रति प्राप्तः, तस्याप्रामाण्यबुद्ध्या परित्यागरूप उत्सर्गो युक्त इति भावः । न त्वज्ञात्वेति ।। अज्ञानस्य परित्यागरूपत्वाभावादिति भावः ।
भावप्रकाशः
नन्वग्रे सत्त्वादिभेदनिमित्तकश्रद्धादिभेदस्य वक्ष्यमाणत्वात् कथं ‘गुणभेदान्’ इत्युक्तमित्यत आह– गुणनिमित्ता इति ।। अनेन गुणैर्भेदा इति विग्रहः योग्यतया श्रद्धादिसम्बन्ध इत्युक्तं भवति । इत्युक्तत्वादिति ।। परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यतीति व्याख्यातत्वेन कार्यमात्रस्य गुणकार्यत्वलाभे श्रद्धादीनामपि गुणकार्यत्वलाभादिति भावः । प्रपञ्चनं व्यर्थमित्यत आह– सात्विकानामिति ।। अज्ञानमेवेति ।। सात्विकादित्रिविधलोक-साधारण्यादिति भावः । अर्थज्ञानपर्यन्त इति ।। फलमन्तरेण विधिश्रुतेरपर्यवसानादवश्यं फले कल्पनीये दृष्टे सम्भवत्यदृष्टकल्पनस्यान्याय्यत्वेन विश्वजिन्न्यायात् स्वर्गकल्पनायोगोऽर्थज्ञानस्यैव फलत्वकल्पनात् । ‘सरहस्य’ इत्युक्तत्वाच्चेति भावः ।