न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषाम स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।। ६ ।।

न चैतद्विद्मः कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषाम

स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः।। ६ ।।

भावरत्नकोशः

अक्षरार्थस्तु– क्षत्रियाणां युद्धे जयेन भोगानुभव एव श्रेयस्कर इत्यत उच्यते– न चैतद् इति ।। किं युद्धमेव गुर्वादिवधभूयिष्ठमपि स्ववृत्तिरिति श्रेयः, किं वा हिंसाशून्यतया भैक्ष्यमेवेत्यनयोः कतरद् गरीय इति न विजानीमः । किञ्च किमुभयेषां साम्यमेव स्यात्, किं वा शत्रून् जित्वा वयमतिशयीमहीति, आहोेस्विदस्मान् जित्वा त एवातिशयीरन्निति सन्दिग्धा युद्धे जयस्थितिः । यदि वा वयं जयेम यदि वाऽस्मांस्ते जयेयुरिति ।। कथञ्चिज्जातोऽपि विजयो न फलवानस्माकं, यान् बन्धून् हत्वा वयं जीवितुं नेच्छामस्त एव दुर्योधनादयो युद्धस्य प्रमुखेऽवस्थिताः । कथं तानेतान् हत्वा जीवाम इति हृदयम् ।। ६ ।।