इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।। २ ।।
श्रीभगवानुवाच–
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ।। २ ।।
भावरत्नकोशः
गीताक्षरार्थस्तु– हे कौन्तेय इदं प्रत्यक्षादिप्रमाणसिद्धम्, वक्ष्यमाणं वा शरीरं जीवस्य स्वतो नित्यत्वाद् देहादितया परिणतैतदुपघाताज्जीवो हिंसित इत्युच्यत इति अव्यक्तादिकं हिंसाहेतुर्जीवस्य भवति । शृ हिंसायाम् इति धातोर्हिंसाहेतुत्वात् शरः, परेण ईर्यत्वाद् ईरम् इति शरीरशब्दवाच्यमव्यक्तमहद्अहङ्कारपञ्चभूतादिरूपतत्वजातं ‘क्षीयते अस्मिन् अव्यक्तादिशरीरे भगवता स्थीयते’ इति व्युत्पत्त्या क्षेत्रम् इत्यभिधीयते । एतद् अव्यक्तादिशब्दितं यो वेत्ति तं तद्विदः क्षेत्रज्ञविदः क्षेत्रज्ञम् इति प्राहुः । अत्रोक्त-व्युत्त्याऽव्यक्तादिकमेव शरीरपदवाच्यम् इत्यभ्युपगमेन ‘संघातश्चेतना’ इत्यत्र क्षेत्रविकारैक-देशत्वेनोक्तस्य संघातशब्दितशरीरस्य कथं समस्तक्षेत्रत्वमिति शङ्का परास्ता ।। २ ।।