नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । नचाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।। ६६ ।।

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

नचाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।। ६६ ।।

भाष्यम्

 प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम् । न हि प्रसादाभावे युक्तिः चित्तनिरोधः । अयुक्तस्य च बुद्धिः सम्यज्ज्ञानं च नास्ति । तदेवोपपादयति– न चायुक्तस्येति ।।

भावप्रदीपिका

ननु मार्गान्तरेण मोक्षसिद्धेः किमनेन दुरापाद्यप्रसादेन ? इत्याशङ्कोत्तरतयोत्तरश्लोकद्वयमवतार्य व्याचष्टे– प्रसादेति ।। नन्वत्र युक्त्यभावे दोष उच्यते, न प्रसादाभाव इत्यत आह– न हीति ।। अयुक्तस्य बुद्धिर्भावना च नास्तीति भ्रान्तिर्मा भूदित्याह– तदेवेति ।। अयुक्तस्य ध्यानाभावान्नापरोक्षज्ञानमित्यर्थः ।। ‘न चाभावयतः शान्तिः’ इत्यत्रापि न चाभावयतो ज्ञानं, ज्ञानिनः शान्तिरिति ज्ञेयम् ।।

भावप्रकाशिका

‘प्रसन्नचेतसो ह्याशु बुद्धिः’ इत्युक्तत्वात् नास्ति बुद्धिर-प्रसन्नचेतस इति वक्तव्ये अयुक्तस्य बुद्धिर्नेत्युक्तेः प्रसादसाध्ययुक्तिर्नामाङ्गीकार्येति भावेन उत्तरश्लोकमवतार्य व्याचष्टे–  प्रसादाभाव इति ।। कथमयुक्तस्य बुद्धिर्नास्ति ? इत्या-शङ्कायाम्, अयुक्तस्य भावनाभावात्, तदभावे बुद्ध्यभावादिति भावेनाह– तदेवेति ।।६६।।

प्रमेयदीपिका

वक्तव्यस्योक्तत्वात् ‘नास्ति बुद्धिः’ इत्यादिकं किमर्थम्? इत्यत आह– प्रसादेति ।। ‘श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन? यदर्थमिन्द्रियजयोऽपेक्षित इत्याशङ्क्य’ इति शेषः । नन्वत्र प्रसादाभावे इदं स्यादिति नोच्यते । अतः कथमेतदुक्तमित्यतः प्रकरणप्राप्तमध्याहरति– न हीति ।। ननु प्रसादरहिता अनुमिमत इत्यत आह– चित्तेति ।। एकाग्रतेत्यर्थः । एवमध्याहारे सति ‘नास्ति बुद्धिः’ इत्येतत्सम्बद्ध्यत इति भावेनाऽह– अयुक्तस्येति ।। ज्ञानमात्रं प्रकृता-नुपयुक्तमयुक्तं चेत्यत आह– सम्यगिति ।। ब्रह्मापरोक्षज्ञानमित्यर्थः ।। एतावता प्रसादा-भावे दोष उक्तः । तत्किमर्थं ‘न चायुक्तस्य’ इत्येतत्? इत्यत आह– तदेवेति ।। ‘ध्यानेनैव ज्ञानोत्पादात् कथं ‘नास्ति बुद्धिरयुक्तस्य’ इत्याशङ्क्य’इति शेषः । भावना ध्यानम् । अत एव ‘न चाभावयतो ज्ञानम् । नचाज्ञानिनः शान्तिः’ इति योज्यम् ।।

भावबोधः

।। अनुमिमत इति ।। युक्तिशब्दस्यानुमाने प्रसिद्धत्वादिति भावः ।। प्रकृतानुपयुक्तमिति ।। अपरोक्षज्ञानस्यैव मनःप्रसादसाध्यत्वेन ‘प्रसन्नचेतस’ इति प्रकृत-त्वादनुपयुक्तं, प्रसादाभावेऽपि घटादिज्ञानस्य जायमानत्वादयुक्तं चेत्यर्थः । अत एवेति ।। ज्ञानस्यैव साक्षात् ध्यानजन्यत्वात् शान्तेस्तु ज्ञानद्वारेव तज्जन्यत्वादित्यर्थः ।

भावदीपः

।। उपकृतेनेति ।। ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्’ (ब्र.सू.३.३.४३) इति सूत्रोक्तदिशा अज्ञानसंशयविपर्ययलक्षणप्रतिबन्धनिरास-रूपोपकारवत्तयोपकृतेनेत्यर्थः ।। युक्तिरनुमेति मत्वा शङ्कते– नन्विति ।। प्रकृतेति ।। ब्रह्मा-परोक्षज्ञानस्य ‘स्थितप्रज्ञस्य’ इत्यादिना प्रकृतत्वादिति भावः ।। अयुक्तमिति ।। तस्य चित्त-निरोधापेक्षणादिह च तदुक्तेरिति भावः ।। अत एवेति ।। भावनासाध्यापरोक्षज्ञानसाध्यतया मोक्षस्य साक्षाद्भावनासाध्यत्वाभावादेवेत्यर्थः ।।

भावरत्नकोशः

वक्तव्यस्योक्तत्वात् रागद्वेषपरिहारस्येन्द्रियजयः फलं, तस्य च ज्ञानं व्यवहितफलमित्यादिरूपस्य वक्तव्यस्योक्तत्वात् । श्रवणमननाभ्यामुपकृतेन ध्यानेनैवेति ।। ‘तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्’ इत्यधिकरणे ध्यानमेवा-परोक्षज्ञानकारणम् । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इति श्रुतेः । ‘ध्यानं च यावदीक्षेत’ इति स्मृतेश्च । श्रवणमज्ञाननिवृत्तिद्वारा तदङ्गम् । मननं तु संशयविपर्ययरूपप्रतिबन्ध-निरसनद्वारा ।

श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।

 संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’

इति वचनाच्छ्रवणमननोपकृतध्यानस्यैवापरोक्षज्ञानसाधनत्वमिति व्यवस्थापनादिति भावः । इदम् अनिष्टम् । एतत् प्रसादाभावे दोषमाहेत्येतत् । प्रकरणप्राप्तम् इन्द्रियजयप्रकरणप्राप्तम् । युक्तिशब्दस्यानुमानार्थत्वं मत्वा शङ्कते– नन्विति ।। ननु चित्तनिरोधो नाम चित्तस्य विषयान् प्रत्यप्रवृत्तिः । स एव चात्र प्रसादो विवक्षित इति कथं हेतुहेतुमद्भाव इत्यत आह– एकाग्रतेति ।। प्रकृतेति ।। ‘तस्य प्रज्ञा प्रतिष्ठिता’, ‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति’ इत्यादावपरोक्षज्ञानस्यैव प्रस्तुतत्वादनुपयुक्तम् । चित्तैकाग््रयाभावेऽपि पामरस्य घटादिज्ञान-सद्भावादयुक्तं चेत्यर्थः । सम्यक्त्वस्य याथार्थ्यरूपत्वे पुनरुक्तचोद्यापरिहार एवेत्यतो व्याचष्टे– ब्रह्मापरोक्षज्ञानमिति ।। एतावता ‘नास्ति बुद्धिरयुक्तस्य’ इत्येतावता ग्रन्थेन । दोषः अपरोक्षज्ञानाभावरूपः । तदिति ।। यतो दोषोद्भावनोपयुक्तमेव वक्तव्यं तत इत्यर्थः । ध्यानेनैव न तु प्रसादेन । श्रवणमननाभ्यामुपकृतेनेत्यपि द्रष्टव्यम् । ध्यानेनैवेत्युक्तशङ्कायाः कथमनेन परिहारः ? किञ्च भावना हि प्रयत्नः । ‘भावनैव प्रयत्नात्मा’ इत्यभियुक्तोक्तेः । स च चित्तै-काग्रताभावेऽपि भवतीति कथमुच्यते ‘न चायुक्तस्य भावना’ इति, इत्यत आह– भावना ध्यानमिति ।। ननु न भावना ध्यानमिति युक्तं व्याख्यानम् । ‘न चाभावयतः शान्तिः’ इति व्यतिरेकमुखेन भावनायाः शान्तिशब्दितमोक्षहेतुत्वावेदनात् । न हि ध्यानेनैव मोक्ष इत्यभ्युपगम इत्याशङ्क्य भावनामोक्षयोर्मध्ये अपरोक्षज्ञानपदमज्ञानिन इति पदं च संयोज्यमिति भावेनाह–अत एवेति ।। भावनासाध्यापरोक्षज्ञानजन्यतया मोक्षस्य साक्षाद् भावनासाध्यत्वाभावादेवेत्यर्थः ।

भावदीपिका

।। इदम् अनिष्टम् ।। एतदुक्तमिति ।। प्रसादाभावे दोषमाहेति कथमुक्तमित्यर्थः ।। प्रकरणादिति ।। ‘नचायुक्तस्य’ इत्याद्यनुवादप्रकरणादत्राप्ययुक्तस्येत्यनु-वादाद् विधेयं पूरयतीत्याशयः । ननु युक्तिर्लिङ्गं व्याप्यमिति पर्यायात् प्रसादाभावेऽनुमानाभाव इत्युक्तं स्यादिति मत्वा शङ्कते– नन्विति ।। निरोधशब्दार्थमाह– एकाग्रतेति ।। प्रकृता-नुपयुक्तमिति ।। अपरोक्षज्ञानस्यैव मनःप्रसादसाध्यत्वेन ‘प्रसन्नचेतस’ इति प्रकृतत्वादनुपयुक्तम् । मनोहरणेऽपि ज्ञानमात्रस्य जायमानत्वाद् अयुक्तं चेत्यर्थः । नन्वेवं नचायुक्तस्य ध्यानमिति वक्तव्यत्वेन ‘नचायुक्तस्य भावना’ इति कथमुक्तमित्यत आह– भावनेति ।। ननु ‘नचाभावयतः शान्तिः’ इत्ययुक्तम् । ज्ञानेनैव शान्त्युत्पादादित्यत आह– अत एवेति ।। भावनाया ध्यानत्वात् तस्यैव ज्ञानसाधनत्वाच्छान्तेस्तु ज्ञानद्वारैव ध्यानसाध्यत्वादेवेत्यर्थः ।।

भावप्रकाशः

 ।। श्रवणमननाभ्यामिति ।। ध्यानमेवापरोक्षज्ञानकारणम् । ‘ततस्तु तं पश्यते निष्कलं ध्यायमानः’ इति श्रुतेः । श्रवणमनने तु ध्यानोपकारके । तत्र श्रवणमज्ञाननिवृत्तिद्वारा तदङ्गम् । मननं तु संशयविपर्ययनिवृत्तिद्वारा । ‘शृृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता’ इत्युक्तेरिति विवेकः । चाक्षुषसाक्षात्कारे आलोकस्य चक्षुःसहकारित्ववद् ब्रह्मसाक्षात्कारे ध्यानस्य करणत्वेऽपि मनसः सहकारित्वमिति न ‘मनसैवेदमाप्तव्यम् ’ इत्यादिविरोधः इति बोध्यम् । युक्तिशब्दस्यानुमानार्थत्वं गृहीत्वाऽह– अनुमिमत इति ।। ननु चित्तनिराधो नाम चित्तस्य विषयागतिः । तथा च चित्तनिरोधस्य प्रसादरूपत्वात् कथं कार्यकारणभाव इत्यत आह– एकाग्रतेत्यर्थ इति ।। प्रकृतानुपमुक्तमिति ।। अपरोक्षज्ञानस्यैव मनःप्रसादसाध्यत्वेन प्रकृतत्वादिति भावः । अयुक्तमिति ।। चित्तैकाग्रताभावेऽपि घटादि-ज्ञानोत्पत्तेरिति भावः । ननु भावनैव प्रयत्नात्मेत्याद्यभियुक्तोक्तेः प्रयत्न एव भावना । प्रयत्नश्च चित्तैकाग्रताभावेऽपि भवतीति न चायुक्तस्य भावनेति कथमुक्तमित्यत आह– भावना ध्यानमिति ।। अत एवेति ।। ज्ञानस्यैव साक्षात् ध्यानजन्यत्वाच्छान्तेस्तु ज्ञानद्वारैव तज्जन्यत्वादित्यर्थः ।।

Load More