लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।। १२ ।।

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ।। १२ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  लोभः देयस्यापि धनादेरत्यागबुद्धिः प्रवृत्तिः विषयव्यापारः, व्यर्थोद्योगो वा कर्मणां प्रवृत्तानाम् आरम्भः ‘इदं कृतवान्, ‘इदं कर्ताऽस्मि’ इति सङ्कल्पः अशमः भगवन्निष्ठाभावः, चित्तस्यानुपरमो वा स्पृहा अप्राप्ताभिलाष इति एतानि कार्याणि रजसि विवृद्धे जायन्ते । एतैर्लिङ्गैः रजोगुणवृद्धिरनुमेयेति भावः ।। १२ ।।