अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। १ ।।
।। अथ श्रीमद्भगवद्गीतायां षोडशोऽध्यायः ।।
श्रीभगवानुवाच–
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। १ ।।
भाष्यम्
पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति । तपः ब्रह्मचर्यादि । ‘ब्रह्म-चर्यादिकं तपः’ इत्यभिधानात् ।। १ ।।
भावप्रदीपिका
अध्यायार्थं दर्शयति– पुमर्थेति ।। देवलक्षणानि पुमर्थ-साधनानि, तदितराणि तद्विरोधादीनीति । स्वाध्यायादेरपि तपस्त्वात् कथं तपसः पृथगुक्तिः इत्यत आह– तप इति ।। १ ।।
प्रमेयदीपिका
अध्यायप्रतिपाद्यं दर्शयति– पुमर्थेति ।। यद्यपि पूर्वयो-रध्याययोः साधनप्रतिपादन एव तात्पर्यम् । तथाऽपि तन्न प्रपञ्चितम् । किं नाम बन्धस्वरूपम्? साधनमनुतिष्ठता च तद्विरोधिनां त्यागोऽवश्यं करणीयः । पूर्वाध्याये च निर्मान (१५.५) इत्यादिना पुमर्थयो र्ज्ञानमोक्षयोः साधनं यतन्तोऽप्यकृतात्मानः (१५.११) इत्यादिना तद्विरोधि च सङ्क्षेेपेणोक्तम् । तदुभयमिदानीं प्रपञ्चनीयम् । सुरासुरलक्षणं च तथेति तदनेनाध्यायेन दर्शयतीत्यर्थः । ‘तपो वक्ष्यमाणम्’ इति कश्चित् । तदसत् । देवद्विज (१७.१४) इत्यादिनोक्तस्यात्र ग्रहणे शौचादेरपि तपोग्रहणेन गृहीतत्वात् पुनरुक्तिप्रसङ्गात् । अतो वक्ष्यमाणान्तर्गतं यदत्र पृथगुच्यते तद्व्यतिरिक्तमेव । तच्च प्रधानस्यैवोपलक्षणत्वोपपत्तेर्नोपवासादीति भावेन सप्रमाणक-माह– तप इति ।। १ ।।
भावबोधः
।। शौचादेरिति ।। पूजनं शौचमार्जवमिति तत्रापि शौचादेरुक्त-त्वादित्यर्थः । पुनरुक्तीति ।। ‘धृतिश्शैचम्’ इत्यत्रापि शौचादेः पृथगित्यर्थः ।। १ ।।
भावदीपः
।। बन्धस्वरूपमिति ।। ‘प्रपञ्चितम्’ इत्यनुषङ्गः ।। तद्विरोधि चेति ।। अशुद्धबुद्धित्वादिकम् ।। वक्ष्यमाणेति ।। ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्’ (१७.१४) इत्यादिना उत्तराध्याये वक्ष्यमाणलक्षणमित्यर्थः । पुनरुक्तीति ।। आर्जवशौचा-देरत्राप्युक्तेः ‘तपः’ इत्यनेन पुनरुक्तीत्यर्थः ।। १ ।।
भावरत्नकोशः
।। अध्यायप्रतिपाद्यमिति ।। उत्तरेषां पञ्चानामध्यायानां प्रतिपाद्यार्थस्य ‘साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति’ इति भाषितत्वाद् इदमध्यायावान्तर-प्रतिपाद्यमर्थमित्यर्थः । ननु पुमर्थसाधनविरोधीनि चैतदध्यायप्रतिपाद्यानि इत्ययुक्तम् । पुमर्थ-साधनानाम् ‘निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः’ इत्यादिना, पुमर्थ-विरोधिना च ‘यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः’ ‘विमूढा नानुपश्यन्ति’ (१५.१०) इत्यादिना प्रागेव निरूपितत्वात् किमनेनाध्यायेन निरूपणीयमस्तीत्याक्षिपति– यद्यपीत्या-दिना ।। पूर्वयोः चतुर्दशपञ्चदशयोः । तात्पर्यमिति ।। ‘साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति ’इति भाषणादिति भावः । बन्धस्वरूपमत्ययसाधने जिज्ञासामुत्पादयितुं प्रपञ्चितम् । तर्ह्यावश्यकत्वात् साधनमेव निरूप्यताम्; किं तद्विरोधिप्रदर्शनेन इत्यत आह– साधनमिति ।। बन्धात्ययसाधनमित्यर्थः । ततः किम् इत्यतः पूर्वाध्यायसङ्गतिं दर्शयन् भाष्यार्थमाह– पूर्वाध्याये चेति ।। ‘ज्ञानमवान्तरपुरुषार्थः’ इति भावेन ‘पुमर्थयोर्ज्ञानमोक्षयोः’ इत्युक्तम् । साधनम् ‘उक्तम्’ इत्याकृष्यते । तद्विरोधीति ।। पुमर्थविरोध्यशुद्धबुद्धित्वादिकमित्यर्थः । तदुभयम् ‘पुमर्थसाधनम्, ‘तद्विरोधि’ चेत्युभयमिति वदन् भाष्ये ‘पुमर्थसाधनानि च तद्विरोधीनि च’ इति द्वन्द्वमभिप्रैति । ननु तर्हि साधनतद्विरोधिनी प्रपञ्चनीये; किं देवासुरलक्षणवचनेनेत्यत आह– देवासुरेति ।। तथा देवलक्षणम्, तत्साधनम्; असुरलक्षणं तद्विरोधीत्यर्थः । तथा च भावप्रदीपिका
‘विलक्षणानि पुमर्थसाधनानि; तदितराणि तद्विरोधीनि’ इति । तद् देवासुर-लक्षणम् दर्शयति प्रपञ्चयतीत्यर्थः । ‘तपो वक्ष्यमाणलक्षणं शारीरादि’ इति शङ्करभाष्ये दूष्यभागमनुवदति– तपो वक्ष्यमाणेति ।। उत्तराध्याये–
‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।।’
इत्यत्र वक्ष्यमाणेत्यर्थः । पुनरुक्तिप्रसङ्गादिति ।। अत्रापि ‘तेजः क्षमा धृतिः शौचमद्रोहः’ इति शोचादेरभिधानाद् उत्तराध्याये तदुक्तौ तपःशब्दार्थस्य पुनरुक्तिप्रसङ्गादिति । वक्ष्य-माणान्तर्गतम् ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ’ इति वक्ष्यमाणदेवपूजादावन्तर्गतं यत् शौचादि अत्र षोडशे पृथगुच्यते तद्व्यतिरिक्तमेव तपो वक्तव्यमित्यर्थः । ननु ‘तप सन्तापे’ इति हि पठ्यते। सन्तापश्चोपवासादिरूपः कायक्लेशो व्याख्यायत इति न पुनरुक्तिदोषः इत्यत आह– तच्चेति ।। तपः । तर्ह्युपवासाद्यसङ्ग्रहापत्तिरित्यत उक्तम्– उपलक्षणत्वोपपत्तेरिति ।। विनिगमनाविरहादुपवासादेरेवोपलक्षणत्वमस्तु इत्यत उक्तम्– प्रधानस्यैवेति ।। उपवासाद्यपेक्षया प्रधानभूतस्य ब्रह्मचर्यादेरेवेत्यर्थः । ‘राजा गच्छति’ इत्यादौ प्रधानस्यैवेतरोपलक्षणत्वदर्शनाद् ‘अमात्यो गच्छति’ इत्यादौ तददर्शनाच्च । आवेदितं च ब्रह्मचर्यस्य प्राधान्यम् ऊर्ध्वरेतस्सु च शब्दो हि’ इति भगवता सूत्रकारेणेति भावः ।। १ ।।
गीताक्षरार्थस्तु– पूर्वाध्याये ‘निर्मानमोहाः’ इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनम्, ‘यतन्तोऽप्यकृतात्मानः’ इत्यदिना तद्विरोधि सङ्क्षेपेणोक्तम् । तदुभयमिदानीं प्रपञ्चनीयम् देवासुरलक्षणं च तथेति तदनेनाध्यायेन प्रपञ्च्यते । साधनमनुतिष्ठता तद्विरोधित्यागस्य अवश्यं करणीयत्वाद् विरोधित्यागसमुचितस्यैव साधनस्य साध्यनिष्पत्त्यनुकूलस्य प्रतिपादकोऽयमध्यायः, एकमेव वाक्यं च । तत्र पुमर्थयोर्ज्ञानमोक्षयोः साधनं मुमुक्षुलक्षणं तावदुच्यते– भगवानुवाच अभयमित्यादित्रिश्लोक्या ।। अभयं भागवतधर्मज्ञानानुष्ठाननिष्पादने भगवद्द्वेषिकृतोपप्लवाद् भयाभावः । स्वतोऽन्यस्यान्यस्माच्च स्वस्य भयाभावः ‘यस्मान्नोद्धिजते लोको लोकान्नोद्धिजते च यः’ इत्युक्तेरित्यपि आहुः । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य रागादिदोषाभावः । ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रत आचार्यतश्च प्राप्तः तत्त्वावगमः, योगः भगवति चित्तनिरोधः, तयोर्व्यवस्थानं परिनिष्ठा, ज्ञानोपाये निष्ठेति वा । दानं न्यायार्जितवित्तादेः पात्रेषु यथोचितं संविभागः । दमः इन्द्रियनिग्रहः । यज्ञः देवतोद्देशेन द्रव्यपरित्यागरूपो यागः । स्वाध्यायः वेदशास्त्राध्ययनम् । तपः ब्रह्मचर्यादि । आर्जवम् सत्सु मनोवाक्कायवृत्तीनामवैपरीत्यम् ।। १ ।।
भावदीपिका
प्रणम्य यादवाचार्यगुरूणां पदपङ्कजे
क्रियते षोडशाध्यायटीका भावप्रदीपिका
।। १ ।।
नन्वत्राध्ये ‘अभयं’ ‘दम्भो दर्पः’ इत्यादिना सुरासुरलक्षणमेवोच्यते । अत एवोक्तं तात्पर्ये– ‘देवासुरलक्षणम्’ इति । तथा चात्र ‘पुमर्थसाधनविरोधीनि अनेनाध्यायेन दर्शयति’ इति कथमध्यायप्रतिपाद्यमुच्यते । पुमर्थसाधनविरोधिनां निरूपणस्यात्रादर्शनात्, इत्यतोऽनया वाचोभङ्ग्याऽर्थात् सुरासुरलक्षणमेवोच्यत इत्यभिप्रेत्याह– यद्यपीत्यादिना ।। साधनेति ।। पुमर्थसाधनेत्यर्थः । तथा च ताभ्यां गतार्थतेति भावः । तद्विरोधिनां पुमर्थविरोधिनाम् । ज्ञानमोक्षयोरिति ।। ज्ञानस्याप्यवान्तरपुरुषार्थत्वादिति भावः । तथेति ।। अभयादि-देवलक्षणस्य पुमर्थसाधनत्वात्, दम्भाद्यसुरलक्षणस्य पुमर्थविरोधित्वात्, पुमर्थसाधनादिनिरूपणेन देवासुरलक्षणमेवोच्यत इति भावः । देवद्विजेत्यादिनेति ।।
‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।।’
इत्यादिनोत्तरत्रोक्तस्येत्यर्थः । शौचादेरपीति ।। ‘शौचमार्जवम्’ इति तत्रोक्तशौचादेरपि ‘स्वाध्यायस्तप आर्जवम्’ इत्यत्रत्यतपोग्रहणेनैव गृहीतत्वात् ‘धृतिः शौचमद्रोहः’ इत्यत्रापि शौचादेः पृथगुक्तत्वात् पुनरुक्तिः स्यादित्यर्थः । वक्ष्यमाणेति ।। वक्ष्यमाणतपोऽन्तर्गत-मित्यर्थः । यदिति ।। शौचार्जवादीत्यर्थः । अत्र ‘अभयम्’ इत्यादौ तद्व्यतिरिक्तमेव तपः-शब्देनात्र ग्राह्यमित्यर्थः । ननु वक्ष्यमाणान्तर्गतं यदत्र पृथगुच्यते तद्व्यतिरिक्तं तपः कायक्लेशरूपोपवासाद्यपि गृहीतमेवेति, ‘उपवासादि’ इत्युक्तावपि आदिपदेन ब्रह्मचर्यादेरपि ग्रहणसम्भवेन विनिगमकाभावात्, इत्यत आह– तच्चेति ।। तप इत्यर्थः । ‘राजाऽसौ गच्छति’ इत्यादौ प्रधानेनाप्रधानोपलक्षणदर्शनात् । नतु अप्रधानेन प्रधानस्योपलक्षणम्, अदर्शनादिति भावः । प्रकृते च ब्रह्मचर्याद्यभावे केवलोपवासादेरप्रयोजकत्वाद् ब्रह्मचर्यस्य प्राधान्यमिति द्रष्टव्यम् ।। १ ।।
भावप्रकाशः
।। तात्पर्यमिति ।। साधनं प्राधान्येनोत्तरैरध्यायैः वक्ती-त्यनेनाध्यायपञ्चकप्रतिपाद्यस्य प्रागुक्तत्वादिति भावः । न प्रपञ्चितमिति ।। ‘निर्मान’ इत्यादिना ‘यतन्तोऽपि’ इत्यादिना च साधनतद्विरोधिनोरुक्तत्वात् ‘नोक्तम्’ इत्यनुक्त्वा ‘न प्रपञ्चितमित्याह’ इति बोध्यम् । तर्हि साधनमेव प्रदर्श्यतां किं तद्विरोधिप्रदर्शनेनेत्यत आह– साधनमनुतिष्ठता चेति ।। तर्ह्यानन्तर्यलक्षणा सङ्गतिः कथमस्याध्यायस्येत्यत आह– पूर्वाध्यायेति ।। उक्तस्योक्तिः व्यर्थेत्यतः सङ्क्षेपेणेत्युक्तम् । तर्हि कार्त्स्न्येन पुमर्थसाधनाद्य-ज्ञानात् तदनुष्ठानानुपपत्तिरित्यत आह– तदुभयमिति ।। तर्हि चतुर्दशाध्याय एव प्रपञ्च्यताम्, किं विलम्बेनेत्यत उक्तम्– इदानीमिति ।। अवसरप्राप्तावित्यर्थः ।
ननु साधनतद्विरोधिनोः प्रपञ्चनीयत्वे सुरासुरलक्षणोक्तिरयुक्तेत्यत आह– सुरासुरेति ।। तथेति साधनं तद्विरोधि चेत्यर्थः । तत् सुरासुरलक्षणम् । वक्ष्यमाणेति ।। उत्तराध्याये ‘देवद्विज’ इत्यादिनेति शेषः । शौचादेरपीति ।। ‘पूजनं शौचमार्जवम्’ इति शौचादेरपि तपस्त्वोक्तेरिति भावः ।। पुनरुक्तीति ।। अत्रापि तेजः, क्षमा, धृतिः, शौचमित्यादिना शौचादेरुक्तत्वादिति भावः । ननु पुनरुक्तिपरिहारायोपवासादिकं तप इति व्याख्यायतां किमुक्त-क्लेशेनेत्यत आह– तच्चेति ।। तच्च नोपवासादीत्यन्वयः । किन्तु ब्रह्मचर्यादीति शेषः । तर्ह्युप-वासाद्यसङ्ग्रह इत्यत उक्तम्– उपलक्षणत्वेति ।। विनिगमनाविरहादुपवासादेरेवोपलक्षण-कत्वमस्त्वित्याशङ्कापरिहाराय ‘प्रधानस्य’ इत्युक्तम् ।। १ ।।