किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ।। १७ ।।
किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्कद्युतिमप्रमेयम् ।। १७ ।।
भाष्यम्
अनलार्कद्युतिम् इत्युक्ते मितत्वशङ्कामपाकरोति– अप्रमेयमिति ।।
भावप्रदीपिका
ननु पुनः अप्रमेयपदेनापि पूर्णत्वोक्तेः पुनरुक्तिरित्यत आह– अनलेति ।। १७ ।।
प्रमेयदीपिका
ननु ‘अनलार्कद्युतिम्’ इत्युक्तत्वात् ‘सहस्रशब्दोऽनन्त-वाची’ इत्याद्युक्तमयुक्तमिति चेन्न । एतदेवाऽशङ्क्य प्रत्यायनार्थमेवैतदुक्तम् । वस्तुतस्त्वपरिच्छिन्नद्युतिरेव भगवानिति स्वयमेवोक्तत्वादित्याह– अनलेति ।। इत्युक्ते जातां द्युतेः मितत्वशङ्काम् । एतच्च सविशेषणविशेषणत्वाद् द्युत्या सम्बद्ध्यते ।। १७ ।।
भावबोधः
नन्वप्रमेयमिति विश्वरूपस्यैवाप्रमेयत्वमुच्यते न तु द्युतेरिति कथं द्युतेर्मितत्वशङ्कानिरासस्तेनेत्यत आह– एतच्चेति ।। १७ ।।
भावदीपः
।। सहस्रेति ।। ‘दिवि सूर्यसहस्रस्य’ इति गीतास्थसहस्रशब्दः अनन्तत्ववाची इत्यादि प्राग्भाष्योक्तमयुक्तमित्यर्थः ।। एतच्चेति ।। अप्रमेयविशेषणत्वमित्यर्थः । द्युत्येति ।। ‘सविशेषणे हि विधिनिषेधौ’ इति न्यायात् । तथाच द्युतेर्मितत्वशङ्कानिरासो व्यक्त इति भावः ।।
भावरत्नकोशः
।। प्रत्यायनार्थं बुद्धिप्रवेशार्थम्् एव एतत् अनलार्क-द्युतित्वमुक्तमित्यर्थः । ‘उक्ते’ इत्यन्तमनूद्य अनन्तरं पूरणीयमाह– जातां द्युतेरिति ।। ननु ‘अप्रमेयम्’ इत्येतद्् विश्वरूपविशेषणम्, तेन कथं द्युतेर्मितत्वशङ्कानिरासः । न ह्युत्पलविशेषणेन नैल्येन पद्मस्य नीलवस्तुव्यावृत्तिः सम्पादयितुं शक्या, इत्यत आह– एतच्चेति ।। ‘अप्रमेयम्’ इति विशेषणं सविशेषणविशेषणत्वात् विशिष्टविशेषणत्वात््, सविशेषणे भगवति अप्रमेयत्व-विशेषणविधिः प्रवर्तमानो विशेष्ये तात्पर्याभावे विशेषणम् उपसंक्रामति । यथा ‘सप्तदशारत्नीत्व-विधिः’ वाजपेये तात्पर्याभावे तदन्तर्भूते तद्विशेषणे पशुयागे संक्रामति, तथाऽप्रमेयत्वमपि अनन्तरूपविश्वरूपादिपदेनैव परिमितत्वाभावलाभेन भगवति तात्पर्यरहितं सत् तद्विशेषणं द्युतिम् उपसंक्रामति, नैल्यं तु न सविशेषणविशेषणम् इति वैषम्याद् भवति । तेन द्युतेर्मितत्वनिरास इति भावः ।।
गीताक्षरार्थस्तु- ‘गदिनम्’ इत्यत्र ‘शिखादिभ्यश्च’ इति गदाशब्दाद् आकारान्तादपीनिः । दुर्निरीक्ष्यं कृच्छ्रेण निरीक्षणीयम्, दर्शनानर्हमित्यर्थः । ‘दीप्तानलार्कद्युतिम्’ इत्युक्ते जातां मितत्वशङ्काम् अपाकर्तुम् ‘अप्रमेयम्’ इति विशेषणम् । ‘अपरिच्छिन्नद्युतिम्’ इति तात्पर्यम्
।। १७ ।।
भावदीपिका
।। सहस्रशब्दः ‘दिवि सूर्यसहस्रस्य’ इत्यत्र स्थितः । प्रत्यायनार्थम् बुद्ध्यारोहार्थम्् । ननु भगवतोऽप्रमेयत्वोक्त्या कथं द्युतेर्मितत्वशङ्कापरिहारः इत्यत आह– एतच्चेति ।। अप्रमेयत्वरूपविशेषणम् अनलार्कद्युतिरूपविशेषणविशिष्टस्य भगवतो विशेषणं भवत् विशेष्ये वैयर्थ्याख्यबाधाद् विशेषणीभूतद्युत्या सम्बध्यते । एवं चोक्तशङ्कापरिहार इत्यर्थः ।। १७ ।।
भावप्रकाशः
नन्वप्रमेयमिति विश्वरूपस्यैवाप्रमेयत्वमुच्यते न तु द्युतेरिति कथं तेन द्युतेर्मितत्वशङ्कानिरास इत्यत आह– एतच्चेति ।। सविशेषणे हीति न्यायादिति भावः
।। १७ ।।