यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ।। २८ ।।

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ।। २८ ।।

भाष्यम्

ध्यानप्रकारमाह– स्पर्शानित्यादिना ।। बाह्यान् स्पर्शान् बहिः कृत्वा । श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुर्भ्रुवोरन्तरे कृत्वा भ्रुवोर्मध्यमवलोकय-न्नित्यर्थः ।। उक्तं च– ‘नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधापयेत्’ इति । प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः ।। २७,२८ ।।

भावप्रदीपिका

‘ब्रह्मभूत’पदेन यद्व्याख्यानमुक्तम्, तत्प्रकारप्रदर्शनपरतयोत्तर-श्लोकद्वयमवतारयति– ध्यानेति ।। ‘स्पर्शान्’ इत्येतत् ‘विषयांस्त्यक्त्वा’ इत्यन्यथाप्रतीति-निरासाय व्याचष्टे– बाह्यानिति ।। इन्द्रियानियमने विषयदूरीकरणमात्रेण न प्रयोजन-मित्यभिप्रायः । चक्षुषोः भ्रूमध्यस्थत्वं कथमित्यत आह– चक्षुरिति ।। नानेन ‘सम्प्रेक्ष्य नासिकाग्रम्’ इत्यस्य विरोध इत्यभिप्रायेणाह– उक्तं चेति ।। ‘प्राणापानौ’ इत्यस्यान्यथा-प्रतीतिनिरासार्थमाह– प्राणेति ।। २७ ।।

भावप्रकाशिका

सोऽयं समाधिर्नाम । ध्यानं तु ध्यातृप्रयत्नात् । तच्च किदृशं कार्यमित्याकाङ्क्षोत्तरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– ध्यानप्रकारमिति । योगेन उपायेन । कुम्भवदुच्छ्वासनिःश्वासरहितं केवलं वायुपूरणं कं शिरो यस्य शरीरस्य कृतं तत् कुम्भकम् । तत्र स्थित्वेत्यर्थः ।। २७ ।।

प्रमेयदीपिका

ध्यायिनां मुक्तत्वं साक्षाच्चेत् प्रमाणविरोधः । ज्ञानद्वारा चेत् पुनरुक्तिरित्यतः श्लोकद्वयतात्पर्यमाह– ध्यानेति ।। मुक्त एव सः (५.२८) इति स्तुतिरिति भावः । पदानां व्यवहितत्वादन्वयमाह– बाह्यानिति ।। स्पृश्यन्त इति स्पर्शा शब्दाद्याः । स्पर्शा बाह्या एव । तेषां किं बहिष्करणम्? इत्यत आह– श्रोत्रादीनीति ।। योगेन प्रत्याहारेण । श्रोत्रादीनाम् अनियमे पट्वभ्यासाऽदरप्रत्ययवशाच्छब्दाद्या अन्तरा इव भवन्ति । तन्नियमे तु बाह्या बहिष्कृताः स्युरिति भावः । कृत्वा इत्यस्यानुवृत्त्या योजयति– चक्षुरिति ।। दुर्घटमेतदित्यत आह– भ्रुवोरिति ।।

चक्षुर्वृत्तौ चक्षुःशब्द इत्यर्थः ।। ‘सम्प्रेक्ष्य नासिकाग्रं स्वम्’इति वक्ष्यमाणविरोध इत्यत आह– उक्तं चेति ।। ‘न्यूनाधिकभावराहित्यं समीकरणम्’ इत्यन्यथाप्रतीतिनिरासायाऽनूद्य व्याचष्टे– प्राणेति ।। कुम्भके प्राणायामे । ततश्च समौ निर्विकारौ निश्चलावित्यर्थः । इतर-त्समीकरणं कुम्भकार्थमेवेति भावः ।। २७,२८ ।।

भावदीपः

।। प्रमाणेति ।। ‘दृष्ट्वैव तं मुच्यते’ इत्यादि प्रमाणेत्यर्थः । पुनरुक्तिरिति ।। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते इत्येवं ध्यानादेर्ज्ञानद्वारा अक्षयसुख-हेतुत्वोक्तेरिति भावः । गीतापदस्य निष्कृष्यार्थमाह– ततश्चेति ।। तस्यैवार्थः– निश्चलाविति ।। इतरदिति ।। न्यूनाधिकराहित्यरूपम् ।। २७.२८ ।।

भावरत्नकोशः

।। ध्यायिनामिति । यद्यपि गीतायां ‘मुनिः’ इत्याद्येकवचन-श्रवणाद् अत्रापि ‘ध्यायिनः’ इति वक्तव्यम् । तथापि ‘तद्बुद्धयः’ इत्यत्र बहुवचनश्रवणात् तत्रोक्तानामेवात्र ‘मुक्त एव सः’ इति स्तूयमानत्वाद् बहुवचनं प्रयुक्तम् । अत एव ‘ज्ञानद्वारा चेत् पुनरुक्तिः’ इत्याह । उक्तवाक्याग्रहणे ज्ञानद्वारा ध्यानस्य मोक्षहेतुत्वप्रतिपादनपरवाक्यान्तराभावात् पुनरुक्त्युद्घाटनायोग इति बोद्धव्यम् । ‘मुनिर्मुक्तः’ इत्याद्येकवचनं तु समुदायाशयमिति भाव इति आहुः ।

प्रमाणेति । ‘दृष्ट्वेैव तं मुच्यते’ इत्यादिप्रमाणविरोध इत्यर्थः । पुनरुक्तिरिति । ‘स ब्रह्मयोग-युक्तात्मा सुखमश्नुते’ इत्यत्र ध्यानादियुक्तस्यैव ज्ञानद्वाराऽत्मसुखमक्षयम्, नान्यथेति ध्यानादियोग-स्याक्षयसुखहेतुत्वोक्तेः पुनरुक्तिरिति स्वामिनः ।

‘स्पर्शान् इत्यादिना’ इत्यत्रादिपदसङ्ग्राह्योक्तिः– श्लोकद्वयेति । ध्यायिनोऽमुक्तस्य ‘कथं मुक्त एव सः’ इति मुक्तत्वमुच्यत इत्यत आह– मुक्तमेवेति ।। स्तुतावधिकोक्तिः सम्भवतीति हृदयम् । एतेन ‘ध्यायिनां मुक्तत्वं साक्षाच्चेत् प्रमाणविरोधः’ इति दूषणम् अलग्नकं वेदितव्यम् । ननु भाष्ये योगशब्देन यदि कर्मयोगो विवक्षितः, तदा श्रोत्रादिनियमनस्य प्रत्याहारादि-साधनान्तरसाध्यत्वेन कर्मयोगसाध्यत्वाभावाद् बाधः ।। यदि समाधिः, तदाऽपि तस्य श्रोत्रादि-नियमनस्य साध्यत्वेन तत्साधनत्वाभावाद् बाध एवेत्यत आह– प्रत्याहारेणेति ।। बाह्यानामेव तेषां बहिष्करणं नाम किमिति कृतचोद्यपरिहाराय भाष्यभावमाह– श्रोत्रादीनामिति ।। पट्वभ्यासादर-प्रत्ययवशादिति । अनादिकालानुबद्धत्वाच्छब्दादिविषयेषु श्रोत्रादीनां पटुः अभ्यासः आवृत्तिः परिचयः, आदरः तत्र सम्प्रीतिः, केषुचिद्विषयेषु तात्कालिकात्यल्पसुखानुकूलत्वानुभवात् प्रत्ययः विश्वासश्च, तदायत्तत्वादित्यर्थः । तन्नियमे श्रोत्रादीन्द्रियनियमे बाह्याः स्वभावतः बहिष्कृताः आन्तरत्वाध्यासागोचराः । योजयति द्वितीयपादम् । एतत् भ्रुवोरन्तरे चक्षुषः करणम् । चक्षुर्वृत्तौ चक्षुर्जन्यावलोकने ।

वक्ष्यमाणविरोधः यतः ‘चक्षुश्चैवान्तरे भ्रुवोः’ इत्यस्य भाष्ये ‘चक्षुः’ इत्यस्यावलोकनम् अर्थः । वैकल्पिकत्वान्न विरोध इति भावः । राहित्यम् राहित्यापादनम् । ‘अल्पः कुम्भः कुम्भकः’ इत्यादिप्रतीतिनिरासाय ‘कुम्भकः’ इत्यनूद्यार्थमाह– कुम्भक इति ।। तथा च तन्त्रसारे–

‘रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्मृतः ।

 प्राणायामः ........................................।।’ इति ।

एतावता किन्नाम समीकरणमुक्तमित्यत आह– ततश्चेति ।। कीदृशं निर्विकारत्वमित्यत-स्तद्दर्शयति– निश्चलाविति ।। ननु रेचके पूरके च प्राणायामे प्राणापानयोः समीकरणमस्ति । तन्त्रसारे–

‘द्विगुणोत्तरं रेचकादि षोडशादिक्रमेण तु ।

 मात्राणां ह्रस्ववर्णस्य कालो मात्रेति शब्द्यते ।

 क्रमेणैवाभ्यसेन्मात्रावृद्धिमेकाग्रधीः पुनः ।।’

इति षोडशद्वात्रिंशदादिसङ्ख्याया अन्यूनानतिरिक्तायाः समशब्दार्थत्वावेदनात्, अत्र च तस्यैव समीकरणशब्दार्थत्वसम्भवेन तस्यैव ‘प्राणापानौ समौ कृत्वा’ इत्यत्रापि ग्रहणमस्त्वित्यत आह– इतरदिति ।। निश्चलत्वरूपसमीकरणादितरत् । न्यूनाधिकभावराहित्यरूपसमीकरणं कुम्भक-प्राणायामनिष्पादनार्थमेव शास्त्रे विहितम् । कुम्भकप्राणायाम एव तु प्रकृतध्यानोपयोगीति भावः । तथा चतुर्थाध्याये ‘अपाने जुह्वति प्राणम्’ इति गीताभाष्यव्याख्यानटीका ‘पूरकरेचकयोः कुम्भ-कार्थत्वेन पृथक् प्राणायामत्वाभावाच्च’ इति ।।

गीताश्लोकाक्षरार्थस्तु - यतेन्द्रियमनोबुद्धिः नियतानीन्द्रियाणि मनो बुद्धिश्च यस्य स तथोक्तः । मुनिः मननशीलः । मोक्षः परम् अयनं परा गतिर्यस्य स मोक्षपरायणः । विगता इच्छा भयं च क्रोधश्च यस्मात्स विगतेच्छाभयक्रोधः । ‘सदा’ इति सर्वत्रान्वेति । भवेत् । एवम्भूतो यः साधकः स मुक्त एवेति स्तुतिः । एवं ध्यानं ज्ञानद्वारा मुक्तिहेतुत्वाद् अवश्यं आपादनीयमिति स्तुतितात्पर्यमिति ।। २८ ।।

भावदीपिका

।। प्रमाणेति ।। ‘तमेवं विद्वान्’ इत्यादिप्रमाणविरोध इत्यर्थः ।। पुनरुक्तिरिति ।। ‘स ब्रह्मयोगयुक्तात्मा’ इत्यनेनेत्यर्थः ।। स्तुतिरिति ।। स्तुतौ चाधिकोक्तिर्दृष्टेति भावः ।। व्यवहितत्वादिति ।। कृत्वा बहिःपदाभ्यामित्यर्थः । प्रत्याहारेण ‘विषयेभ्य’ इति शेषः ।। पट्विति ।। इन्द्रियाणां विषयेषु पटुतराभ्यासजनितो य आदरः स्नेहः पुनः पुनः सन्निकर्षरूपः, तज्जातानुभवजन्यसंस्कारवशादित्यर्थः । बाह्या इत्यस्यार्थः– बहिष्कृता इति ।। संस्काररूपेण हृदि न परिवर्तन्त इत्यर्थः ।। दुर्घटमिति ।। चक्षुरिन्द्रियस्य स्वगोलकस्थितस्य भ्रूमध्ये स्थापनं दुर्घट-मित्यर्थः । अयमर्थो गीतागतचक्षुःशब्देन कथं लब्ध इत्यत आह– चक्षुर्वृत्ताविति ।। चक्षुर्जन्यज्ञाने इत्यर्थः । तथा च ‘चक्षुर्जन्यज्ञानं भ्रुवोरन्तरे कृत्वा’ इति गीतार्थो द्रष्टव्यः ।। वक्ष्यमाणविरोध इति ।। भ्रूमध्यावलोकनाङ्गीकारे नासाग्रावलोकनप्रतिपादकवक्ष्यमाणगीतावचन विरोधः स्या-दित्यर्थः ।। इत्यत आहेति ।। तथा च नासाग्रावलोकननिषेधो न दोष इति भावः । भ्रूमध्य-नासाग्रावलोकनप्रतिपादनस्य दिशामनवलोकन एव तात्पर्यं मन्तव्यम् । तथा च वक्ष्यति ‘दिशश्चानवलोकयन्’ इति ।। प्राणायाम इति ।।

प्राणायामो रेचयित्वा पूरयित्वा च कुम्भके ।

स्थितिः प्राणायाम उक्तः ........... ।। इति तन्त्रसारोक्तेरिति भावः ।।

ततश्चेति ।। प्राणापाननिरोधेन कुम्भकेऽवस्थानादित्यर्थः । ननु न्यूनाधिकभावराहित्यमेव समीकरणं किं न स्यादित्यत आह– इतरदिति ।। रेचकपूरकयोः कुम्भकार्थत्वेनामुख्यत्वात्, कुम्भकस्यैव मुख्यत्वात्, मुख्यस्यैव ग्राह्यत्वादिति भावः ।। २७.२८ ।।

भावप्रकाशः

।। ध्यायिनामिति ।। यद्यपि व्याख्येयगीतायां मुनिरित्याद्येक-वचनाद् ध्यायिन इति वक्तव्यम् । तथाऽपि तद्बुद्धय इत्यत्र बहुवचनश्रवणात् तदुक्तानामेव चात्र स्तूयमानत्वात् ध्यायिनामिति बहुवचनं प्रयुक्तम् । अत एवाह– ज्ञानद्वारा चेत् पुनरुक्तिरिति ।। अन्यथा ध्यानस्य ज्ञानद्वारा मोक्षहेतुत्वप्रतिपादकवाक्यान्तराभावात् पुनरुक्त्ययोग इति बोध्यम्् । मुक्त इत्याद्येकवचनं समुदायाभिप्रायमिति भावः । ननु योगशब्देन यदि कर्मयोगो विवक्षितः तदा बाधः । श्रोत्रादिनियमस्य प्रत्यहारादिसाधनान्तरसाध्यत्वेन कर्मयोगसाध्यत्वाभावात् । यदि च समाधिः तदापि तस्य श्रोत्रादिनियमसाध्यत्वेन तत्साधनत्वाभावाद्बाध एवेत्यत आह– प्रत्याहारे-णेति ।। पट्वभ्यासादरप्रत्ययवशादिति ।। पटुः योऽभ्यासः तस्यादरोऽतिशयः तत्प्रत्ययवशा-दित्यर्थः । यद्वा सकृदेवोत्पन्नो विद्युदादिप्रत्ययः पटुप्रत्ययः कण्डिकादिप्रत्ययोऽभ्यासप्रत्ययः अद्भुतप्रत्यय आदरप्रत्ययः तद्वशादित्यर्थः । अल्पः कुम्भः कुम्भक इत्याद्यन्यथाप्रतीतिनिरासाय व्याचष्टे– कुम्भके प्राणायाम इति ।। २७,२८,२९ ।।

।। इतिश्रीमत्तिरुमलाचार्यसुतकृष्णविरचितायां प्रमेयदीपिकाभावप्रकाशे पञ्चमोध्यायः ।।