वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ।। २२ ।।
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ।। २२ ।।
भावरत्नकोशः
वेदानामिति ।। वेदानाम् ऋगादीनां मध्ये सामवेदोऽस्मि इत्यत्र सजातीयैकदेशश्रैष्ठ्यदोऽस्मीति चिन्तनीयः । वेदेषु ऋग्वेदस्याधिकत्वात् । एवमप्यत्र सामवेदस्य यद् ऋग्वेदाद् आधिक्यवचनं तत्तु सामवेदाभिमानिनः प्राणस्य ऋग्वेदाभिमानि-सरस्वत्या आधिक्यपरम्् इत्युत्तरप्रस्थाने स्फुटम् । देवानां वासवः इन्द्रः अस्मि इत्यत्र देवादिषु ब्रह्मादीनामेव श्रेष्ठत्वात् सजातीयैकदेशश्रैष्ठ्यदोऽस्मीत्यर्थः । ‘ऋते रुद्रादिकान् इन्द्रः सर्वदेवाधिकः स्मृतः ।’ इति भागवततात्पर्यनिर्णयवचनात् । सर्वेन्द्रियेषु मनस एव प्रधानत्वात् इन्द्रियाणाम् एकादशानां मनोऽस्मीति सजातीयश्रैष्ठ्यदः, तत्र मनसि वर्तत इति चिन्तनीयः । भूतानां चेतनावतां सम्बन्धिनी चेतना ज्ञानशक्तिः तद्रूपसारवत्त्वेनोक्तः ।। २२ ।।