तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।। २३ ।।
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ।। २३ ।।
भाष्यम्
दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवलमुत्पन्नं दुःखं (वि)नाशयति, उत्पत्तिमेव निवारयतीति दर्शयति– संयोगशब्देन । निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः ।। २३ ।।
भावप्रदीपिका
‘अभ्यासे दुःखसंयोगः पश्चाद्वियोगः’ इति प्रतीतिनिरासाय ‘दुःखसंयोगवियोग’पदं व्याचष्टे – दुःखेति । दुःखनिवारकत्वमात्राभिप्राये ‘संयोग’शब्दो व्यर्थ इत्यत आह– न केवलमिति । न ज्ञानपूर्वकं योक्तव्यमिति शङ्कानिरासाय ‘स निश्चयेन’ इत्येतद्व्याचष्टे निश्चयेनेति ।। २३ ।।
भावप्रकाशिका
ननु दुःखसंयोगः तद्वियोगश्चात्मनः परमार्थतो न सम्भवतः । अतोऽत्र विपरीतलक्षणाश्रयणेन दुःखसंयोगवियोगम् आत्मानं योगसञ्ज्ञितं विद्यादिति कश्चित् । तन्न । जीवस्य दुःखसंयोगो येन भगवता तद्विषयेण वा योगेन वियुज्यते सः दुःखसंयोगवियोग इति जीवपरमात्मनोर्भेदेनैव मुख्यार्थे सम्भवति विपरीतलक्षणाश्रयणायोगादिति भावेनैतत्पदं व्याचष्टे– दुःखेति । ननु दुःखसंयोगः तद्वियोगश्चात्मनो न स्त इति विपरीतलक्षणाश्रयणमेव सूचयति संयोगशब्दः । अन्यथा दुःखवियोगमित्येतावताऽलम्, किं संयोगेनेत्यत आह– न केवलमिति । युक्तदुःखसंयोगेन वियुज्यते इत्येतावदेव न, किंतु तदुपरिष्ठात् दुःखं न संयुज्यत इत्यर्थः । यतोऽयमात्यन्तिकं सुखमापादयति दुःखं चोत्पत्स्यमानमपि निवारयति । अतो दुःखासंस्पृष्टात्यन्तिकसुखरूपात्माऽत्र । स चेच्छुनाऽनुष्ठेय एव योग इति प्रकृतात्युपयोगित्वेन ‘निश्चय’पदार्थमाह– निश्चयेनेति ।। २३ ।।
प्रमेयदीपिका
ननु दुःखसम्बन्धस्य वियोगो ध्वंसः । स कथं योगः स्यात् ? इत्यत आह– दुःखेति ।। करणेऽपि घञः स्मरणात् । एवं तर्हि दुःखवियोगमित्येव वक्तव्यम् । किं संयोगशब्देन? इत्यत आह– न केवलमिति ।। वियोगशब्दो निवारणे वर्तत इति भावः । एतच्च पदाधिक्यादेव लभ्यते । नान्यथा ।।
ननु स निश्चयेन योक्तव्यः इति पुनर्विधानं किमर्थम्? निश्चयेन इत्यादिविशेषविधानार्थ-मिति चेन्न । महाफले सन्देहात् प्रवृत्त्यभावेन ‘निश्चयेन’ इत्यस्य वैयर्थ्यादित्यत आह– निश्चयेनेति ।। अयोगव्यवच्छेदे निश्चयशब्द इत्यर्थः। कुत्रायोगो व्यवच्छिद्यत इत्यत उक्तम्– बुभूषुणेति ।। मुमुक्षुणेत्यर्थः ।। २३ ।।
भावदीपः
।। करणेऽपि घञः स्मरणादिति ।। ‘अकर्तरि च कारके सञ्ज्ञा-याम्’ (पा.सू.३.३.१९) इत्यनेनेति भावः । कथमेतल्लाभः? शब्दार्थत्वादित्यत आह– एतच्चेति ।। संयोगपदप्रयोगान्यथानुपपत्त्येत्यर्थः । पुनर्विधानमिति ।। उद्धरेदित्यनेन विधानात् पुनःशब्दः ।। अयोगव्यवच्छेदेति ।। असम्बन्धव्यवच्छेदो योगशब्दितसमाधिरूपोपायस्येत्यर्थः ।। २३ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। करणे घञः स्मरणादिति ।। वियुज्यते अनेनेति करणे घञि गुगन्तलघूपदस्येति गुणे वियोगशब्दनिष्पत्तिरिति भावः ।।
भावरत्नकोशः
येन’ इति श्रवणादाह– करण इति ।। ‘अकर्तरि च कारके संज्ञायाम्’ इति कर्तृभिन्नकारकमात्रेऽपि घञ्प्रत्ययविधानात् ‘येन’ इति युज्यत इति भावः । निवारणे वर्तते निवारके वर्तत इति यावत् । निवारयतीति करणे कर्त्रर्थकाख्यातप्रयोगस्येदं भाव-कथनम् । कथमेतल्लभ्यत इत्यत आह– एतच्चेति ।। उत्पत्तिमेव निवारयतीत्येतत् । पदाधिक्यात् संयोगपदाधिक्यात् । ‘शब्दाधिक्यादर्थाधिक्यमिति न्यायादिति भावः’ इति सुधीन्द्रश्रीमच्चरणाः । निश्चयेनेत्यस्येति । महाफलरूपे मोक्षतत्साधनादौ प्रवर्तमानः प्रेक्षावान् निश्चयेनैव प्रवर्तते, न तु कृष्यादाविव सन्देहेनेति, ‘निश्चयेन’ इत्यस्य वैयर्थ्यमेवेति भावः । कृतचोद्यनिरासायाह– अयोगेति ।। योगस्यासम्बन्धव्यवच्छेद इत्यर्थः । ननु बुभूषुशब्देन ऐहिकपुरुषार्थकामः प्रतीयते, तत्र च प्रकृतानानुगुण्यमित्यत आह– मुमुक्षुणेति ।। मोक्षीभवितुमिच्छुरपि बुभूषुरेवेति नासङ्गतिरिति भावः ।। २३ ।।
तम् एवंविधं दुःखसंयोगवियोगं दुःखस्य संयोगः सम्बन्धः, वियुज्यत अनेनेति वियोगो वियोजकः, दुःखसंयोगस्य वियोगो दुःखसंयोगवियोगः, तं तथोक्तं योगसंज्ञितं योग इति संज्ञयोक्तं विद्यात् विजानीयात् । ‘दुःखवियोगम्’ इत्येव वक्तव्ये संयोगशब्दः न केवलमुत्पन्नं दुःखं नाशयति, किन्तूत्पत्तिमेव निवारयतीत्यर्थविशेषप्रतिपत्त्यर्थः । योगे गुणान्तरं विधातुमुच्यते स इति । स योगो निर्विण्णचेतसा विषयविरक्तमानसेन निश्चयेन योक्तव्यः अवश्यं कर्तव्य एव । मुमुक्षोर्ध्यानायोग-व्यवच्छेदार्थोऽयं निश्चयशब्द इति तद्विधानार्थमिदं वचनम् ।। २३ ।।
भावदीपिका
ननु कथमयमर्थो लभ्यत इत्यत आह– करणेऽपीति ।। ‘वियुज्यतेऽनेन’ इति वियोग इत्यर्थः । तथा च विपूर्वकात् ‘युजिर् योगे’ इत्यस्मात् ‘हलश्च’ इति सूत्रेण हलन्तेभ्यो धातुभ्यः करणेऽधिकरणे च सञ्ज्ञायां घञ्प्रत्ययविधानात्, प्रकृते च वियोग-शब्दस्य निवारणार्थकत्वेन सञ्ज्ञात्वात् करणे घञ्प्रत्यये, अकारमात्रं विहाय सर्वस्यापि लोपे, उकारस्य ओकाररूपे गुणे, ‘चजोः कु घिण्ण्यतोः’ इति जकारस्य गकाररूपे कुत्वे प्रत्ययाकारे मिलिते सति ‘वियोग’ इति करणे घञन्तः शब्दो द्रष्टव्यः । ननु वियोगशब्दस्य निवारणार्थकत्वा-भावेन ‘निवारयति’ इति कथं वियोगशब्दार्थकथनम्? इत्यत आह– वियोगशब्द इति ।। ननु दुःखोत्पत्तिप्रतिबन्धकत्वरूपोऽर्थः संयोगशब्देन कथं लभ्यते? इत्यत आह– एतच्चेति ।। पदेति ।। संयोगपदेत्यर्थः । ‘व्यर्थं सत् किञ्चिज्ज्ञापयति’ इति न्यायादि भावः । अयोगेति ।। योक्तव्यत्वायोग इत्यर्थः । बुभूषुणेति ।। तथा च बुभूषौ योक्तव्यत्वायोगो व्यवच्छिद्यत इत्युक्तं भवतीति द्रष्टव्यम् । अत्र सर्वत्राप्यनतिविप्रकर्षाभिप्रायेणापराक्षज्ञानिन एव विवक्षितत्वात्, तस्य च ज्ञानेच्छुत्वरूप-बुभूषुत्वाभावादाह– मुमुक्षणेति ।। तथा च बोधशब्देन तत्साध्यो मोक्षो लक्ष्यत इति भावः ।।२३।।
भावप्रकाशः
।। करणेऽपीति ।। अकर्तरि च कारके सञ्ज्ञायामिति कर्तृभिन्नकारकमात्रे घञो विधानादिति भावः । ननु विपूर्वो युजिर्नाशे प्रसिद्धः । तत्कथं निवार-यतीत्युक्तमित्यत आह– वियोगशब्द इति ।। विपूर्वो युजिरित्यर्थः । ननु तर्हि निरकरणार्थ-वियोगशब्देनैव विवक्षितार्थलाभात् संयोगपदं व्यर्थमित्यत आह– एतच्चेति ।। निराकरणार्थत्व-मित्यर्थः । व्यर्थं सत् किञ्चित् ज्ञापयतीति न्यायादति भावः । पदाधिक्यादिति ।। संयोग-पदाधिक्यादित्यर्थः । ननु यो योगी भवितुमिच्छुः तत्र योगस्यायोग एवास्ति । कथं तद्व्यवच्छेदक इत्यत आह– मुमुक्षुणेत्यर्थ इति ।। २३ ।।